________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
विषयकप्रतीतिविषयत्वात्तद्दोषः स्यादतस्तादृश रूपाश्रयधर्मिणं तदवच्छन्नाविषयकप्रतीतिविषयत्वेनाविशिष्य स्वमेव तादृशविषयतावच्छेदकत्वेन विशेषितम् ! मेयत्वविशिष्टव्यभिचारत्वाद्याश्रयाविषयकत्वस्य व्यभि चारत्वाद्यवच्छिन्नविषयकप्रतीतौ दुर्घटत्वात्तद्दोषः स्यादतः स्वाश्रयाविषयकस्वमुपेच्य स्वावच्छिन्नाविषयकत्वनिवेशः ।
१३८
* चन्द्रकला *
प्रतीतिस्तद्विषयत्वादित्यर्थः । तद्दोषः स्यात् = प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः स्यात् । अतः = अतिव्यातेवरिणतः । तादृशेतिलक्ष्यतावच्छेदकत्वेनाभिमतस्वाश्रयधर्मिणामित्यर्थः । तदवच्छिन्नेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्माविच्छिन्नाऽविषयकप्रतीतिविषयत्वेनेत्यर्थः । स्वमेव = लक्ष्यतावच्छेदकत्वेनाभिमतं स्वमेव । तादृशेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशवर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वेनेत्यर्थः ।
विशेषितमिति । तथाच स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्नाऽविषयकप्रतीतिविषयत्वस्य स्वाश्रये विवक्षणे प्रमेयत्वशिष्टव्यभिचारेऽतिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्व रूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् तादृशं शुद्धव्यभिचारत्वं तदवच्छिन्नाविषयिणी या प्रमेयमित्याकारिका प्रतीतिस्तद्विषयत्वस्य प्रमेयमात्रे वर्त्तमानतया स्वाश्रये प्रमेयत्वविशिष्टव्यभिचारेऽपि सत्त्वात् स्वपदेन प्रमेयत्वविशिष्टव्यभि चारत्वस्यैवोपादानसम्भवादिति भावः ।
स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेद केत्यादौ प्रतीतौ स्वाश्रयाऽविषयकत्वमेव लाघवात् कथं न निवेशनीयमिति तु नाशंकनीयम्, तथा सति पुनः प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, प्रमेयत्व विशिष्ट व्यभिचारत्वरूपस्वाश्रयाऽविषयकत्वस्य व्यभिचारप्रतीतावसत्त्वात् तादृशस्वाश्रयतायाः शुद्धव्यभिचारे वर्त्तमानत्वात् । एवंञ्च तादृशस्वाश्रयाऽविषयकप्रतीतिविषयतावच्छेदकतादृशबाधत्वाद्यवच्छिन्नाऽविषयकप्रती - तिविषयतावच्छेदकत्वस्य । स्वस्मिन् प्रमेयत्वविशिष्टव्यभिचारत्वेऽनपायात् स्वपदेन तस्यैव धर्त्तुं शक्यत्वादित्याह मेयत्वेति । तद्दोषः = प्रमेयत्वविशिष्टव्यभिचारेअतिव्याप्तिः । विशिष्टान्तरतावच्छेदकताया बाधत्वादावेव सच्चादितिहृदयम् ।
* कलाविलासः *
स्वावच्छिन्नाऽविषयकत्वनिवेश इति । ननु स्वाश्रयाविषयकप्रतीतिविषयतावच्छेदकत्वनिवेशेऽपि न प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः सम्भवति प्रमेय
"Aho Shrutgyanam"