________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १३९
® गादाधरी स्वाच्छिन्नाविपयकप्रतीतिविषयवृत्तित्वस्य तादृशधर्मविशेषणत्वे व्यभिचारत्वादेरपि मेयत्वादिना व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषये व्यभिचारादौ वर्तमानत्वादसम्भव इत्यतस्तादृशविषयतावच्छेदकत्वेन धर्मो विशेषितः ।
* चन्द्रकला * - स्वावच्छिन्नेति । तथाच प्रमेयत्ववैशिष्ट्य व्यभिचारस्वरूपधर्मद्वयावच्छिन्नाविषयकत्वस्य शुद्धव्यभिचारविषयकप्रतीतौ सुघटतया शुद्धव्यभिचारत्वस्यैव विशिष्टान्तरतावच्छेदकत्वेन तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वे विरहान प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिरिति परमार्थः ।।
यदि च स्वावच्छिन्नाऽविषयकप्रतीतिविषयवृत्तिप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकीभूतधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य लाघवात् स्वस्मिन् विशेषणत्वमुचितमित्युच्यते तदा व्यभिचारादौ सर्वत्राऽसम्भवःस्यात्, व्यभिचारत्वाद्यवच्छिन्नाऽविषयिणी या प्रमेयमित्याकारिका प्रतीतिस्तद्विषये व्यभिचारे तादृशव्यभिचारत्वस्य वर्तमानतया व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य च व्यभिचारत्वादौ विरहात् व्यभिचारत्वादेःस्वपदेनोपादातुमशक्यत्वादित्याह स्वावच्छिन्नेति । तादृशधर्मविशेषणत्वे-प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मविशेषणत्वे ।
इत्यतः = असम्भवदोपवारणतः । तादृशेति स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वेनेत्यर्थः । धर्मः = प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदको धमः । विशेपित इति । तथा च नाऽसम्भवः, व्यभिचारत्वाद्य
* कलाविलासः * स्वविशिष्टव्यभिचारत्वाश्रयाविषयकव्यभिचारत्वेन घटायगाहिप्रतीतिविषयतावच्छेदकर वस्य व्यभिचारत्वे सत्वात् इति चेन, निरुक्तरीत्या सर्ववासम्भवापत्तः । बाधत्वव्यभिचारस्वाद्याश्रयाविषयक याधत्वादिना घटावगाहिप्रतीतिविषयतावच्छेदकत्वस्य बाधत्वादावनपायादतः स्वावच्छेदकत्व-स्वसामानाधिकरण्योमयसम्बन्धेन स्वाश्रयाविषयकप्रतीतिविषयताविशिष्टधर्मस्यैव विशिष्टान्तरतावच्छेदकतया मेयस्वविशिष्टव्यभिचारवाश्रयाऽविषयकप्रतीतिविषयताविशिष्टधर्मपदेन व्यभिचारस्वस्य धतुमशक्यत्वात् मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिदानसंगतिसम्भवात् ।
धर्मो विशेषित इति । अथ पश्चादुक्तदलघटकावच्छेदकस्वनिवेशस्य प्रथम व्यावृत्तिमभिधाय प्रथमदलघटकावच्छेदकत्वदलस्य पश्चाद्व्यावृत्यभिधानमसंगतमिति चेन्न, पश्चादुक्तदलघटकावच्छेदकत्वनिवेशव्यावृत्त्यसंगतेः । व्यभिचारस्वा
"Aho Shrutgyanam"