________________
१४०
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
गादाधरील प्रमेयं गगनवद्वाच्यत्वादित्यादी व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यद्गगनाभाववन्मेयत्वादि तदाश्रयाविषयकप्रतीत्यप्र. सिध्द्या व्यभिचारादौ तादृशप्रतीतिविषयत्वस्य दुरुपपादतयाऽच्याप्तिरतस्तदवच्छिन्नाविषयकत्वनिवेशः ।।
* चन्द्रकला वच्छिन्नाऽविषयकप्रमेयप्रतीतिविषये व्यभिचारादौ व्यभिचारत्वस्य वत्त मानत्वेऽपितादृशप्रतीतिविषयतावच्छेदकतायाःप्रमेयत्वादिनिष्ठतया तस्या व्यभिचारत्वादी दुर्घट त्वात् , बाधत्वादेरेव व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकानुमितिप्रतिबन्धकतावच्छेदकधर्मस्वरूपत्वादित्याशयः।।
ननु स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्माश्रयाऽविषयकप्रतीतिविषयतावच्छेदकत्व - मेव स्वस्मिन् विशेषणं लाघवात् कथं नाभिहितमित्यत आह प्रमेयमित्यादि । तथाच स्वस्मिन् ताहशधर्माश्रयाविषयकप्रतीतिविषयतावच्छेदकत्वविवक्षणे प्रमेयपक्षकगगनसाध्यकवाच्यत्वहेतुकस्थले गगनाभावववृत्तित्वविशिष्टवाच्यत्वरूपव्यभिचारे. अव्याप्तिः, तादृशवाच्यत्वत्वरूपव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकताहशगगनाभावविशिष्टप्रमेयत्वरूपबाधत्वाश्रयीभूतप्रमेयाविषयकप्रतीतेरप्रसिद्धत्वात्, वस्तुमात्रविषयकप्रतीतेरेव प्रमेयविषयकत्वात् निरुक्तव्यभिचारत्वस्य स्वपदानुपाचत्वादितिभावः । तदवच्छिन्नाऽविषयकत्वनिवेश इति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकताह शधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वविवक्षणे तु न
* कलाविलासः * वच्छिन्नविषयकप्रतीतिविषयवृत्तिव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयवृत्तित्वस्य व्यभिचारस्वे सत्त्वेनाऽसम्भवानवकाशात् । अतः द्वितीयदलघटकावच्छेदकत्व. दलस्य प्रथमं व्यावृत्तिरभिहिता । नच स्वानवच्छिन्न प्रकारतावच्छेदकस्य विशिष्टान्तरतावच्छेदकत्वसम्भवे स्वावच्छिन्नाविषयकप्रतीतिविपयतावच्छेदकस्य तथास्वाभिधानं गौरवास्तमिति वाध्यम् , व्यभिचारविशिष्टमेयत्वेऽतिव्याप्तयापत्तेः, साक्षात्परम्परासाधारणावच्छेदकत्वस्य वक्तुमशक्यतया व्यभिचारविशिष्टमेयत्वानवच्छिन्नप्रकारतावच्छेदकं यद् बाधत्वादिकं तदवच्छिन्नाऽविषयकप्रतीतिविषयतापच्छेदकत्वस्य व्यभिचारविशिष्टमेयत्वे सत्त्वात् ।।
अस्माकन्तु व्यभिचारविशिष्टमेयत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य व्यभिचारविशिष्टमेयत्वे विरहानातिव्याप्तिरिति तु सुधीभिर्विवेचनीयम् ।
"Aho Shrutgyanam"