________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १४१
® गादाधरी अत्र च तादृशविशिष्टान्तराविषयकप्रतीतिविषयतावच्छेदकत्वस्य दोष. तावच्छेदकधर्मे विशेषणतापेक्षया ज्ञानस्येत्यत्र ज्ञानपदार्थे तादृशविशिष्टान्तराविषयकत्वनिवेश एवोचितः ।
* चन्द्रकला तादृशव्यभिचारेऽव्याप्तिः, गगनाभाववत्प्रमेयत्वावच्छिन्नाऽविषयकगगनाभावववृत्तिवाच्यत्वविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशवाच्यत्वत्वरूपव्यभिचारत्वे सत्त्वादिति तात्पर्यम् । ___ यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वमित्यादिलक्षणघटकीभूते यद्पे स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मावच्छिन्नाऽविषयकप्रतीतिविषय. तावच्छेदकत्वरूपविशिष्टान्तराऽघटितत्वविशेषणं पृथक्प्रतीत्यादिनिवेशेन गौरवग्रस्त. मतस्तादृशलक्षणघटकयद्र पावच्छिन्नविषयकनिश्चय एव लाघवात् तादृशधर्मावच्छिनाऽविषयकत्वरूपमेव विशिष्टान्तराऽघटितत्वविशेषणं वक्तव्यमित्याह अत्र चेति । एतल्लक्षणघटके चेत्यर्थः।
ताशेति । अनुमितिप्रतिबन्धकतावच्छेदकस्वावच्छिन्नाऽविषयकप्रतीतिविषयता. पच्छेदकधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्येत्यर्थः । दोषतेति । स्वस्मिन्नित्यादिः । ज्ञानस्येति । मूलोक्तत्यादिः । ज्ञानपदायें - अनाहार्याऽप्रामाण्यज्ञानानास्कन्दितयद्पावच्छिन्नविषयकनिश्चये। एवोचित इति । तथाच
* कलाविलासः * ज्ञानस्येत्यत्र ज्ञानपदार्थे तादृशविशिष्टान्तराऽविषयकत्वनिवेश एवोचित इति । ___ ननुत्तरीत्या विशेष्यदलघटकनिश्चये विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वविवक्षणे किं लाववमितिचेन्न ? लच्यतावच्छेदकयद्पावच्छिन्नविषयकनिश्चये विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाविषयकत्वविवक्षणेऽपि ताशरूपावच्छिन्नाऽविषयकयदुरूपावच्छिन्नविषयकनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकरवं नास्तीति प्रतीतिसिद्धो व्यापकतारूपोऽभावो लक्षणे न निवेश्यते अपितु केवलं यद्रूपावच्छिन्नविषयकनिश्चयवृत्तिभेदप्रतियोगितावच्छेदकत्वं नास्तीत्याकारक एवाभावः । तथाच प्रकृतानुमितिप्रतिबन्धकतावृत्तिनिरुक्तव्यापकतारूपाभावीयप्रतियोगितानिरूपितपरम्परया या निश्चयनिष्ठावच्छेदकता तद्विशिष्टरूपवरवं हेत्वा भासत्वम् । वैशिष्ट्यं स्वनिरूपितविषयित्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नस्वसम्बन्धावच्छिन्नावच्छेदकतावत्व-स्वसमानाधिकरणो यः किन्निदुरूपावच्छिमाविष
"Aho Shrutgyanam"