________________
१४२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरो . - एवञ्च निष्कृष्टवक्ष्यमाणकल्पे यद्विषयकनिश्चयस्येत्यत्र निश्चय एव तन्निवेश्यं लाघवादित्यवधेयम् ।
* चन्द्रकला* स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयि. तानिरूपकतावच्छेदको यो धर्मस्तदवच्छिन्नाऽविषयकस्वात्मकयद्पावच्छिन्नविषयकनिश्चयत्वव्यापकप्रकृतानुमितिप्रतिबन्धकताकस्वात्मकतद्रूपवत्त्वं हेत्वाभासत्वमित्येवं विशिष्टान्तराऽघटितत्वसहितलक्षणार्थः पर्यवसितः ।।
अत्रवदन्तिकल्पेऽपि निश्चय एव विशिष्टान्तराऽघटितत्वं न तु यद्पे इत्याह एवञ्चति । अत्रापि निश्चय एवं विशिष्टान्तराऽविषयकत्वरूपविशिष्टान्तराघटितत्वविवक्षणे चेत्यर्थः। निष्कृष्टेति । वक्ष्यमाणात्रवदन्तिकल्पे इत्यर्थः। तन्निवेश्यम् - विशिष्टान्तराऽघटितत्वं निवेश्यम् , अधिकमन्यत्रानुसन्धेयम् ।
* कलाविलासः यकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतावृत्यभावीयप्रतियोगितानिरू . पितपरम्परयाऽवश्छेदकतावद्रूपावच्छिन्नविषयित्वं नास्तीतिप्रतीतिसिद्धाऽभावस्तदोयप्रतियोगितानिरूपितपरम्परयाऽवच्छेदकतावत्वोभयसम्बन्धेनेति लाघवस्यावश्यकत्वात् । . . .. नचैवं विशिष्टान्तरतावच्छेदकत्वघटकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वघटकनिश्चयेऽपि लाघवात् स्वावच्छिन्नाऽविषयकत्वनिवेश एव समुचित इति वाच्यम् , तथा सति यादशस्थलविशेष अप्रामाण्यज्ञानानास्कन्दितव्यभिचारविषयकं ज्ञानं नियमतो मेयत्वविशिष्टव्यभिचारविषयकं समूहालम्बनमेव जायते, शुद्धव्यभिचारविषयकज्ञानन्तु अप्रामाण्यज्ञानास्कन्दितमेव, तादृशस्थले मेयत्वविशिष्टव्यभिचारेऽतिव्यालयापत्तेः । मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविपयकाप्रामाण्यज्ञानानास्कन्दितव्यभिचारत्वावच्छिञ्चविषयकनिश्चयस्याऽप्रसिद्धतया व्यभिचारत्वस्य विशिष्टान्तरतावच्छेदकरूपपदेन धर्जुमशक्यत्वादिति ध्येयम् । . विशिष्टान्तराघटितत्वसहितलक्षणानुगमस्तु धर्मविशिष्टधर्मवत्वं हेत्वाभासत्वमिति, वैशिष्ट्यं स्वतादात्म्य-स्वविशिष्ट निश्चयत्त्वव्यापकप्रकृतानुमितिप्रतिबन्धकसावत्योभयसम्बन्धेन, स्ववैशिष्ट्यच निश्चये स्वावच्छिन्नविषयितावत्त्वसम्बन्धेन, प्रतिबन्धकतावत्त्वञ्च स्ववृत्यभावीयप्रतियोगितानिरूपितपरम्परयाऽवच्छेदकताबद्धर्मवत्वसम्बन्धेन, धर्मवत्यञ्च, स्त्रावच्छिन्नाऽविषयकप्रतीतिविपयतावच्छेदकत्वे---
"Aho Shrutgyanam"