________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१४३ * गादाधरी * अथ धूमव्यभिचारिवह्निमान् धूमवान् वढेरित्यादौ बाधादेर्व्यभिचारादिघटिततया तत्राव्याप्तिः । न च यद्रूपावच्छिन्नविषयकत्वं स्वावच्छिन्न. विषयकत्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकं तादृशरूपान्तरावच्छिनाघटितत्वस्य विवक्षितत्वान्न दोषः, व्यभिचारस्य उक्तबाधविषयकत्वा
* चन्द्रकला * प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणाय विशिष्टान्तराऽघटितत्वनिवेशस्यावश्यकत्वध्रौत्र्ये पुनः धूमव्यभिचारिवह्निमान् धूमवान् यतेरित्यादौ धूमाभाववधुमव्यभिचारिवह्निमद्पबाधेऽव्याप्तिः, तादृशवह्निमत्त्वरूपबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकधूमाभावववृत्तिवह्नित्वरूपव्यभिचारत्वस्य तादृशवह्निमत्त्वस्य वा धूमव्यासिविषयकप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकतया तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशबाधत्वे विरहात् तादृशबाधत्वस्य स्वपदेन छत्तु मशक्यत्वादित्याशंकते अथेति ।
धूमव्यभिचारिवह्निमात्रस्य पक्षत्वे तादृशवह्निना सह धूमादेः संयोगसम्भवान्निरुक्तवह्नित्वावच्छेदेन धूमाभावस्य बाधत्वं न सम्भवति, धूमव्यभिचारिवह्निमतः पक्षत्वे तु ताहशवह्निमत्त्वावच्छेदेन वह्निमत्त्वसामानाधिरण्येनापि धूमाभावस्य बाधताया निर्विवादतया अवच्छेदावच्छेदेन सामानाधिकरण्येन च बाधप्रदर्शनाय धमव्यभिचारिवह्निमतः पक्षत्वानुसरणमिति ध्येयम् । तत्र = धूमाभावपळूमव्यभिचारिवह्निमद्पे बाधे।
ननु स्वावच्छिन्नाविषयकप्रतोतिविषयतावच्छेदकीभूतो यःस्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेदको धर्मस्तदवच्छि
कलाविलासः स्ववृत्तित्वोभयसम्बन्धेन, वृत्तित्वमपि स्वावच्छिन्नाविषयकप्रतीतिविपयतावच्छेदकत्वसम्बन्धेनेति ध्येयम् ।
धूमव्यभिचारीति । नच धूमव्यभिचारिवह्वेरेव पक्षत्वसम्भवे तादृशवह्निमतः पक्षत्वानुसरणं निरर्थकमितिवाच्यम् , धूमव्यभिचारिवह्नथवच्छेदेन धूमाभावस्थ विद्यमानतया पक्षतावच्छेदकावच्छेदेन तत्सामानाधिकरण्येन च वाधप्रदर्शनार्थमेव तादृशवह्निमतः पक्षत्वानुसरणस्यावश्यकत्वात् तादृशवह्नः पक्षत्वे वह्नित्वरूपपक्षतावच्छेदकावच्छेदेन धूमाभावस्याऽसत्वात् पक्षतावछेदकावच्छेदेन बाधस्यासम्भवादिति वदन्ति ।
प्रथमनचकल्पे स्वावच्छिन्नविषयकत्वावच्छि त्यत्र तादृशविषयकत्वनिष्ठायाः
"Aho Shrutgyanam"