________________
.१४४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
® गादाघरी न्यूनवृत्तिव्याप्तिज्ञानप्रतिबन्धकतावच्छेदकविषयिताकत्वेऽपि तादृशबाधविष
यकत्वाऽन्यूनवृत्तिप्रतिबन्धकतासामान्यान्तर्गतानुमितिप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेण तादृशघटितत्वस्याकिश्चित्करत्वादिति वाच्यम् ,
* चन्द्रकला * नाविषयकप्रतीतिविषयतावच्छेदकस्ववत्वमेव विशिष्टान्तराऽघटितत्वसहितलक्षणार्थों वक्तव्यः, तादृशप्रतिबन्धकतात्वव्यापकत्वञ्च विषयितायां व्यापकत्वसम्बन्धेन, तथाच न व्यभिचारघटितनिरुक्तबाधेऽव्याप्तिः, धूमाभाववमव्यभिचारिवह्निमत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य धूमव्यभिचारिवह्नित्वादौ सत्त्वेऽपि तादृशबाधत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वस्य धूमव्यभिचारिवह्निमद्धर्मिकधूमानुमितिप्रतिबन्धकतायामपि सत्त्वात् तत्र व्यापकतासम्बन्धेन धूमव्यभिचारिवह्नयादिविषयिताया विरहेण तादृशप्रतिबन्धकतात्वव्यापकविषयितानिरूपकतावच्छेदकत्वस्य तत्राऽवर्तमानत्वात्, धूमव्यभिचारिवह्नित्वादेविशिष्टान्तरतावच्छेदकत्वाऽसम्भवात् ।
एवञ्च धूमव्यभिचारिवह्निमवृत्तिधूमाभावत्वरूपविपरीतबाधत्वमेव विशिष्टान्तरतावच्छेदकं तत्र धूमाभाववधूमव्यभिचारिवह्निमत्त्वरूपस्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य, तादृशस्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकातत्वव्यापकविषयितानिरूपकतावच्छेदकत्वस्य च विद्यमानत्वात् तादृशपक्षवृत्तिधूमामावत्वरूपविपरीतबाधत्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूतं यत् धूमाभावभूम
* कलाविलासः प्रतिबन्धकतावच्छेदकतायाः प्रतिबन्धकतासामान्यावच्छेदकमित्यत्रापि प्रतिबन्ध कतावच्छेदकताया अनतिरिक्तवृत्तित्वरूपमेव वक्तव्यम् , द्वितीयावच्छेदकतायाः स्वरूपसम्बन्धरूपत्वे जलव्यापकवलयभावसमानाधिकरणजलवद्धदरूपसत्प्रतिपक्षेऽव्याप्तिः, ताहशसत्प्रतिपक्षतावच्छेदकरूपस्वावच्छिन्नाऽविषयकप्रतीतिर्विषयतावच्छेदक यत् जलवद्धदत्वं तस्य प्रकृतानुमितिप्रतिबन्धकतासामान्यनिरूपितस्वरूपसम्बन्धरूपावच्छेदकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशसत्प्रतिपक्षतावच्छेदके विरहात् । प्रथमावच्छेदकतायाःस्वरूपसम्बन्धरूपत्वे हृदो वह्निमानित्यादौ वह्नयभाववध्रदादिरूपबाधादावव्याप्तिः, निरुक्तवाधत्वावच्छिन्नविषयकत्त्वावच्छिन्न प्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकरूपाऽप्रसिद्धः , अभाववान् वयभाववान् अभाववांश्च हद इत्याकारज्ञानसाधारणतादृशप्रतिबन्धकतानतिरिक्तवृत्तिविपयितानिरूपकतावच्छेदकरवस्य कुत्राप्यवर्तमानत्वादिति ध्येयम् ।
"Aho Shrutgyanam"