________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१४५ ____ गादाधरी [नच यद्रूपावच्छिन्नविषयकत्वं स्वावच्छिन्नविषयकत्वावच्छिन्नप्रतिबन्धकतासामान्यावच्छेदकं तादृशरूपान्तराघटितत्त्वस्यविवक्षितत्वान्न दोषः ]
* चन्द्रकला व्यभिचारिवह्निमत्वरूपम् स्वं तादृशस्ववत्त्वस्य धूमाभाववधूमव्यभिचारिवह्निमद्पे बाधेऽक्षतत्वान्न निरुक्तव्यभिचारघटितबाधेऽव्याप्तिः। __ भवति हि हृदो वह्निमान् धूमादित्यादौ वढयभावविशिष्टह्रदादिरूपत्राधादौ लक्षणसमन्वयः। तादृशहदत्वरूपस्वात्मकबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक यद् ध्रदवृत्तिवह्नयभावत्वरूपविपरीतबाधत्वं तस्य वह्नयभावविशिष्टह्रदत्वावच्छिन्नविषयकत्वव्यापकानुमितिप्रतिबन्धकतात्वव्यापकतादृशविपरीतबाधविषयितानिरूपकतावच्छेदकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकस्ववत्त्वस्य वह्नयभावविशिष्ट-हदत्वेऽनपायात् ।
_ नच विपरीतबाधनिश्चयनिष्ठा प्रतिबन्धकता भिन्नैवेति वाच्यम् , स्वरूपसम्बन्धावच्छिन्नाधेयत्वसंसर्गातिरिक्तसम्बन्धानवच्छिन्न हदत्वावच्छिन्नविषयतानिरूपितस्वरूपसंसर्गातिरिक्तसम्बन्धानवच्छिन्नवहृयभावत्वावच्छिन्नविषयताशालिनिश्चयत्वेन बाधनिइचयद्वयनिष्ठाया: प्रतिबन्धकताया ऐक्यसम्भवादिति ध्येयम् । तथाच सर्वत्रैव विपरीतव्यभिचारबाधत्वादिकमादायैव लक्षणसमन्वयःकरणीय इत्यभिमानेन निरुक्ताव्याप्तिवारणाय प्रथमनचकल्समाह यद्पेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकेत्यादिः। स्वावच्छिन्नेति । स्वं लक्ष्यतावच्छेदकत्वेनाभिमतो धर्मः, तदवच्छिन्न विषयकत्वव्यापकप्रतिबन्धकतात्वव्यापकमित्यर्थः । सामान्यपदस्य व्यापकत्वातिरिक्तार्थकताया वक्तुमशक्यत्वादिति भावः। यद्रूपावच्छिन्नविषयकत्वे तादृशप्रतिबन्धकतात्वव्यापकत्वञ्च व्यापकतासम्बन्धेनेति ध्येयम् । __ तादृशेति । तादृशं यद्रूपात्मकं यत् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरूपं रूपान्तरं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वरूपस्य विशिष्टान्तराऽघटितत्वस्येत्यर्थः। विवक्षितत्वादिति । स्वस्मिन्नित्यादिः । न दोषः =न व्यभिचारघटितनिरुक्तबाधेऽव्याप्तिः ।
ॐ कलाविलासः प्रथमनचकल्पे यदि उभयत्रैव प्रतिबन्धकतावच्छेदकत्वमनतिरिक्तवृत्तित्वरूपं तदाऽसम्भववारणाय स्वस्मिन् विशिष्टान्तरतावच्छेदकरूपे चाऽव्यापकोभूतविषयिताशुन्यज्ञानीयविपयितानिरूपकतावच्छेदकत्वमपि निवेश्यम्, तथाच विपरीतवाधत्व-व्यभिचारस्वादिकमादायैव सर्वत्र लक्षणसमन्वयःकरणीय इति भावः ।
नचैवं हृदो वह्नयभाश्वान् हृदे वह्नयभाव इत्याकारकज्ञानद्वयसाधारणप्रति
१०
"Aho Shrutgyanam"