________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
[ व्यभिचारस्य उक्तबाधविषयकत्वान्यूनवृत्तिव्याप्तिज्ञानप्रतिबन्धकतावच्छेदकविषयिताकत्व विरहेण तादृशघटितत्वस्याकिञ्चित्करत्वादिति वाच्यम् ]
* चन्द्रकला
निरुक्तकल्पे प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिशंका तु नास्त्येव, मेयत्वविशिष्टव्यभि चारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वावच्छिन्नविषयितायाः प्र
१४६
मेयत्वविशिष्टव्यभिचारत्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतात्वव्यापकतया व्यभिचारत्वादेरेव तादृशविशिष्टान्तरतावच्छेदकत्वेन तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशविशिष्टव्यभिचारत्वे विरहात् प्रमेयत्वविशिष्टव्यभिचारवस्य स्वपदेनोपादानाऽसम्भवादित्यतस्तादृशातिव्याप्तिवारणकारणं अत्र नाभिहितम् ।
व्यभिचारत्वस्य विशिष्टान्तरतानवच्छेदकत्व एव व्यभिचारघटितवाधे नाडव्याप्तिरित्यभिमानेन तत्राव्याप्त्यभावे हेतुमाह व्यभिचारेति । व्यभिचारत्वावच्छिन्नध्य धूमाभाववधूमव्यभिचारिवह्निमत्त्वरूप वाघत्वावच्छिन्न विषयकत्वव्यापकव्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकत्वेऽपीत्यर्थः । तादृशेति । निरुक्तवाधत्वावच्छिन्नविषयकत्वव्यापक प्रतिबन्धकतात्ववति अनुमितिप्रतिबन्धकत्वे व्यभिचारविषयिताया व्यापकत्वसम्बन्धेन विरहेण तादृशवाधत्वरूपस्वावच्छिन्न विषयकत्वव्यापक प्रतिबन्धकतात्वव्यापकविषयिताकत्वविरहेणेत्यर्थः ।
तद्घटितत्वस्य=धूमव्यभिचारिवहयादिघटितत्वस्य । अकिञ्चित्करत्वादिति । तथाच व्यभिचारत्वस्य विशिष्टान्तरतानवच्छेदकतया कुतो व्यभिचारवटितवाघेडव्याप्तिरिति भावः ।
* कलाविलासः *
बन्धकत्वं दुर्यचमितिवाच्यम्, स्वरूपत्वावच्छिन्न संसर्गातिरिक्तसम्बन्धानवच्छिन्नवह्नयभावत्वावच्छिन्न विषयतानिरूपिता या स्वरूपसंसर्गावच्छिन्नाधेयत्व संसर्गातिरिक्तसम्बन्धानवच्छिन्ना हृदत्वावच्छिन्नविषयता तच्छालिनिश्चयत्वेन तादृशज्ञानद्वयसाधारणप्रतिबन्धकतायाःउपादानसम्भवादित्यपि केचित् ।
प्रथमनचकल्पस्यानुगमस्तु-धर्मविशिष्टधर्मवत्त्वमिति, वैशिष्ट्यञ्च स्वतादात्म्यस्वविशिष्टनिश्चयत्वव्यापक प्रकृतानुमितिप्रतिबन्धकतात्व वच्च्चोभयसम्बन्धेन, स्ववैशिएयं निश्चये स्वावच्छिन्न विषयितावत्वसम्बन्धेन तादृशप्रतिवन्धकतात्ववखञ्च स्वव्यापकविषयितानिरूपकतावच्छेदकधर्मवत्वसम्बन्धेन विपयितायां स्वव्यापकत्वन्तु व्यापकत्वसम्बन्धावच्छिन्नम्, तादृशधर्मवत्त्वञ्च स्वावच्छिन्ना विषयकप्रतीतिविषयतावच्छेदकत्व -स्ववृत्तित्वोभयसम्बन्धेन स्ववृत्तित्त्वमपि स्वावच्छिन्नाविषयकमतीतिविषयतावच्छेदकत्व-स्वावच्छिन्न विपयित्वाऽव्यापकीभूतविषयिताशून्यज्ञानीय
"Aho Shrutgyanam"