Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini
View full book text
________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
मैवम्, स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशे पापाणमयत्वाद्यवच्छेदेन वह्नयभाववत्तानिश्वयविशिष्टस्य पाषाणमयत्वादिविशिष्टस्य पक्षादेर्ज्ञानस्य वह्नयनुमितिप्रतिबन्धकतया तदवच्छेदकविषयिताकपाषाणमयत्ववत्पर्वतेऽति
११८
* चन्द्रकला *
पर्वत इत्याकारकनिश्चयस्य ज्ञानद्वयात्मकस्य समूहालम्बनरूपस्य वा सत्त्वदशायां पर्वतादौ वाद्यनुमित्यनुत्पादात् तादृशानुमितिं प्रति निरुक्तनिश्वयविशिष्टनिश्चयस्य प्रतिबन्धकताया आवश्यकतया समानाकारकज्ञानीयविषयताया ऐक्येन पाषाणमयत्वावच्छेदेन वचभाववत्ता निश्चयासमानकालीनपाषाणमयत्ववत्पर्यंत त्वावच्छिन्न विषयतायास्तादृशनिश्चयसमानकालीनपात्राणमयत्ववत्पर्वतत्वावच्छिन्न विषयित्वाभिन्नतया यत्र यत्र पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयितात्वं वर्त्तते तत्र तत्रैव पर्वतादिधर्मिकवह्नयनुमितिप्रतिबन्धकतानिरूपितस्त्ररूपसम्बन्धरूपावच्छेदकताया अक्षतत्वात् यद्रूपपदेन
पाषाणमयत्ववत्पर्वतत्वस्योपादातुं शक्यत्वात् ।
यद्रूपावच्छिन्न विषयकताहशनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र - पवत्त्वमित्याकारका नतिरिक्तवृत्तित्व रूपावच्छेदकत्व घटितलक्षणार्थाभ्युपगमे तु न तत्र पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिः, तादृशपाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयकनिश्चयत्वस्य पाषाणमयत्यावच्छेदेन वह्नयभाववत्तानिश्चयाऽसमानकालीनेऽपि पात्राणमयः पर्वत इत्याकारकनिश्चये वर्त्तमानतया तत्रानुमितिप्रतिबन्धकताया असत्त्वादेतन्मते पाषाणमयत्ववत्पर्व तत्वस्य यद्रूपानन्तर्गतत्वादित्येवं नन्वित्यादेरुत्तरमाह मैवमित्यादि । ज्ञानस्य = निश्चयस्य । तदवच्छेदकेति । तादृशानुमितिप्रतिबन्धकतावच्छेदकविषयितानिरूपकपाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेरित्यर्थः । अनतिरिक्तवृत्तित्व
ܝ
* कलाविलासः **
पाषाणमयस्ववत्पर्वतेऽतिव्याप्तिरिति । श्रय पापाणमयत्ववत्पर्वतविषयतासामान्यान्तर्गतायाः वह्निमान् पर्वतः पाषाणमय इत्याकारकज्ञानीयपाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयताया अपि धर्तुं शक्यतया तत्र चानुमितिप्रतिबन्धकतावच्छेदकत्वविरहादेव पाषाणमयत्त्ववत् पर्वतेऽतिव्याप्तिवारण सम्भवे तत्राऽतिव्यासिदानमसंगतम्, पाषाणमयो न वह्निमान् इत्याकारकज्ञानकाले वह्निमान् पर्वतः पाषाणमय इतिज्ञानस्याहार्यतया प्रकृतानुमित्यप्रतिबन्धकत्वादिति चेन, अव्यापकीभूतविषयिताशून्यत्वस्यावश्यं निवेशनीयतया पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयत्वाव्यापकीभूतविषयिताशून्य ज्ञानीयत्वस्य वह्निमान् पर्वतः पाषाणमय इतिज्ञानीय पाषाणमयध्ववत्पर्वतत्वावच्छिन्नविषयितायामसत्येन तादृशज्ञानीयपाषाणमयत्त्ववत्पर्व तत्वावच्छिन्नविषयतायास्तादृशविषयितासामान्यानन्तर्गतत्वादेव तत्राऽतिव्याप्तिदान संगतेः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308