Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 53
________________ प्रास्ताविक - टिप्पनीसूचितपरिशिष्टसंग्रह । गयइ ( ? ) वइकेरइ देव मढि नहु केणइ परिभुत्त । निश्चोरइ गुज्जररज्जि जिम पाय पसारवि सुत ॥ नृपेण प्रातश्चरणयोगित्वा मानिताः । [४] BR संग्रहस्थितजिनप्रभसूरिप्रबन्ध* । खरतरपक्षे श्रीजिनसिंहसूरित: श्राद्धादिभेदेन पक्षद्वयमजनि । ततः श्रीजिनसिंहसूरिभिः पद्मावतीदेव्या 'राधनार्थं षण्मासान् यावदाचाम्लतपः स्मशाने गत्वा तदाराधनं चक्रे । ततः प्रत्यक्षीभूतया पद्मावत्योचे - किमर्थमाराद्धा ? । तैरुक्तम् - राज्ञः प्रतिबोधशक्ति देहि । देव्योक्तम्-तव षण्मास्येवायुः । तेन किं नृपबोधशक्त्या ? । तथापि वागडदेशे गच्छ । तत्र ग्रामे दश भ्रातरः सन्ति, तत्रैकस्य लघुः सप्ताष्टवार्षिकः सुतोऽस्ति पादे किञ्चिन्यूनांगुलित्वेन लंघायमानः । तान् प्रतिबोध्य †दीक्षय । तस्य च स्वल्पाराधनेनाप्यहं प्रत्यक्षा भाविनी । स च नृपप्रतिबोधकः शासनप्रभावको भावीत्युक्त्वा तिरोदधे देवी । स च सूरिः सर्वं तथा कृतवान् । तं चादीक्षयत् । स्वायुःप्रान्ते तस्य चायं पदमपि ददे योग्यतां ज्ञात्वा । ततः श्रीमल्लिषेणसूरेः स्याद्वादमञ्जरीकर्तुः पार्श्वेऽधीतवान् । [ स ]श्रीजिनप्रभसूरिः । तस्य च यदा यदा भाणने संशयो भवति तदा तदा निद्रायमाण इव किञ्चित् विमृशति । तदा सम्यग् बुध्यते च । ततो घूर्मा (र्ण ?)सरस्वती तस्य नाम तावता दत्तम् । श्रीजिनप्रभसूरिस्तु कियदु ग्रन्थाध्ययनानन्तरं बहुशुद्धप्रज्ञत्वेन तद्घूर्णनावसरे तमर्थं लिखति सम्यग् बुध्यते च । ततो गुरुभिस्तं तथा कुर्वन्तं दृष्ट्वा तस्य प्रत्यक्ष सरस्वती बिरुदं ददे । स क्रमेण म्लेच्छाधिराज पा० पीरोजादिप्रतिबोधकञ्चाभूत् । तेन च साहाय्येन स्याद्वादमञ्जरीवृत्तिः स्वगुरोः कृतिरिति शोधिता । ततः “श्रीजिनप्रभसूरीणां सहायोद्भिन्नसौरभे”त्यादि तत्प्रशस्तौ तैर्न्यस्तम् ॥ इति श्रीजिनप्रभसूरीणामुत्पत्तिप्रबन्धः ॥ एकदा सभास्थे सुरत्राणे सूरिभिः समं धर्मगोष्ठीं कुर्वाणे कोपि मुलाण आगतः । तेन निजटोपिका आकाशे स्थापिता । तदा च सभासदां चमत्कारः समजनि । तदनु सुरत्राणेन सूरेर्मुखं विलोकितम् । ततः सूरिणा निजरजोहरणमुच्छाल्य टोपिका पातिता, परं रजोहरणं नभसि स्थितम् । गुरुणोक्तम् - यस्य कस्यापि शक्तिरस्तु स पातयतु । परं केनापि नापाति । ततस्तैरेव दक्षिणकरेणाग्राहि । द्वितीयदिने तेनैव सजलकुम्भो नभसि स्थापितः । ततो गुरुणा सुरत्राणानुज्ञया रजोहरणेन कुट्टयित्वा घटो भग्नः पानीयं तत्रैव मोदकाकारण स्थितम् । तेन चमत्कारेण जिनशासने महती प्रभावना जाता । एकदा सुरत्राणेनोक्तम्- भोः सभ्याः ! शर्करा कस्य मध्ये क्षिप्ता मिष्टा स्यात् । ततः सभ्यैः स्वधियोक्तं परं तन्मनसि न चमत्करोति । ततस्तेन सूरिः पृष्टः । मुखमध्ये । तेन रञ्जितः । अन्येद्युः स्वमुद्रिकां स्वयं पर्यङ्कपादतले संस्थाप्य सूरिं प्रति प्राह- मम मुद्रिका गता सम्प्रति कास्ति ? सूरिणोक्तम् - योगिनीपुरमध्ये । पुनः पृष्ठे, राजभवनान्तः । पुनः पृष्टे, सभामध्ये । पुनः पृष्ठे पल्यङ्के पादचतुष्टयमध्ये । तत एकं पल्यङ्कपादमुत्पाट्यांगुल्यर्पिता । तेन स रञ्जितः । एकदा पृष्टम् - दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधियोक्तम्- परं तन्न मनचमत्कारकारि । सूरिणोक्तम् - वुणिफलं वृद्धम् । येन नवखंडपृथ्व्या लज्जा ढंक्यते । तेन हेतुना जगढंकणीति बिरुदं दत्तम् । एकदा ततः सुरत्राणः समुत्थाय सूरिणा सह स्वावास सोपान कानुल्लंघ्यमानः, एकस्मिन् सोपानके श्रीवीरबिम्बं म्लेच्छैः स्थापितमस्ति, तदुपरि सूरिणा पादो न दत्तः । सुरत्राणेनोचे - कुतोऽस्मिन् प्रस्तरे पादं न ददासि ? । तेनोचे - महावीरोऽसौ कथ्यते । सुरत्राणोऽवकूयद्यसावीदृग् नाम बिरुदं धत्ते तदा कस्मान्मौनेन स्थितः । सूरिराह - हे देव ! यतः कथितं देवेभ्योऽपि दानवा बलिनः स्युः । दुरवस्थापतितानां सर्वेषामीदृगवस्था स्यात् । तदनु सुरत्राणेन निजनरा निष्कासनहेतवे प्रहिताः परं सहस्रैरपि न निःसरति । तदनु सुरत्राणेन पृष्टः सूरिराह-यदि स्वयमेव गत्वोत्पाट्यते तदा निस्सरति नान्यथा । तथा कृत्वाऽऽकएष प्रबन्धः BR सङ्ग्रहे लिखितो लब्धः । तथैवैकस्मिन् अन्यकथासङ्ग्रहेऽप्युपलब्धः । अतोऽस्य पाठभेदा अपि अत्र सङ्ग्रहीताः 1 रविवर्द्धनप्रतौ 'देवी' नास्ति । + एतदन्तर्गता पंक्तिः पतिता प्राचीनादर्शे । 2 प्र० - अंगुलीयमर्पितम् । सन्ति । ३० * प्रातर्नृपेण पृष्टा - Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220