Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 156
________________ लाखणराउलप्रबन्धः। १०१ इति प्रभूणामग्रे नाटकं रचितम् । पश्चाद् ईदृशं चोक्तम्-भगवन् ! मया किं कर्तव्यम् ? । प्रभुणोक्तम्-भो! त्वया पाश्चात्यभवे बहूनि पातकानि कृतानि, तेषां शुद्धिहेतोः श्रीशत्रुञ्जयमहातीर्थे सङ्घसाहाय्यकारी भव । तस्य कपर्दिनामा यक्षः सञ्जातः । अग्रीयकपर्दिना सह तस्य वर्ष १२ विग्रहः सञ्जातः । कोऽपि न पराजीयते । इतश्च मधुमत्यां नगर्या प्राग्वाटज्ञातीयश्रेष्ठी जावडिः, भार्या सीतादेवी, प्रवहण १८ पूरयित्वा समुद्रमध्ये प्रवहणसहितचित्रवल्ली (?) मध्येऽपतत् । क्रमेण वर्ष १८ सञ्जातानि । एकयाऽपि रीत्या निस्सरीतुं न शक्यते । 5 बहूनां देवानां आराधना कृता । पुनः कस्यापि साहाय्यं न जातम् । तदा चिन्तितम्-एकदा व्याख्यानमध्ये श्वेताम्बराचार्यैरिति भणितम् । यतः-'कान्तार०' इत्यादि । नूतनकपर्दिना रात्रौ स्वमं प्रदत्तम्-यदहो जावड ! पसिन पक्षेऽभ्रं दृश्यते तस्मिन्पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः ऋयाणकं वापितं जावडेन । प्रवहणानि लघुत्वेन न सञ्चरन्ति । कसिंश्चिद्वीपे समागत्य छगणकर्करै त्वा पञ्चमदिने समुद्रं निस्तीर्य मधुमत्यां नगर्या समागतो जावडः। छगणानि सुवर्णीभूतानि, कर्करा रत्नानि सञ्जातानि । तदनन्तरं सङ्गं कृत्वा श्रीशत्रञ्जये श्रीऋष-10 भदेवनमस्करणाय गतो जावडः। यावत् स्नात्रं करोति तावद् अग्रीयलेप्यमयबिम्बस्य नासिका गलिता। महाविषादो जातः । एतस्मिन् प्रस्तावे दशपूर्वधरेण श्रीवज्रस्वामिनाऽऽदिष्टो जावड:-अद्य रात्रौ कपर्दियक्षस्य भोगं कृत्वा कायोत्सर्गे स्थीयताम् । तत्करणानन्तरं रात्रौ कपर्दिना भणितम्-यदहो जावड! मम्माणाकरे मम्माणनगरे बाह्ये पूर्वदिशि या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं विद्यते, तां कारयित्वा इहानय । तस्या घटापने मूल्ये चानयने लक्ष ९ व्यये जाताः । पर्वतोपरि यावन्मानं दिनेऽध्यारोहयते 15 तावन्मानं रात्रौ वलति । श्रीवज्रस्वाम्यादेशात् रथकलचक्रस्याध एकत्र स्वयमन्यत्र श्रेष्ठिनी स्थिता । तद्भाग्यादेवतासाहाय्याच न निवृत्तो रथकलः । उपरिगतं विम्बम् । वज्रस्वामिगणधरेण प्रतिष्ठितम् । अग्रेतनं बिम्बमुत्थाप्यते नोत्तिष्ठति । षण्मासावधि भोगकरणेन श्रीवज्रस्वामिध्यानेन सर्वान् व्यन्तरान् आत्मायत्तीकृत्य षण्मासान्ते काप्याघे (1) कपर्दिनि क्रीडार्थ गते, नूतनकपर्दिवचनेनाद्यविम्बमुत्थाप्य नूतने स्थापिते, तदधिष्ठायके नूतने कपदिनि कृते, आद्य आराटि मुक्तवान् । तदनुभावात्पर्वतो द्विधा जातः । ध्वजारोपणप्रस्तावे जावडो भार्यासहित: 20 प्रासादोपरि नृत्यन् आद्यकपर्दिनोत्पाट्य वैताढ्यपर्वते उत्तरश्रेण्यां नीतः । एवं बिम्बस्थापनम् । (३०५) श्रीविक्रमादित्यनृपस्य कालादष्टोत्तरे वर्षशते व्यतीते। शत्रुञ्जये शैलशिलामयस्य कारापिता जावडिना प्रतिष्ठा ॥ ॥ इति श्रीकपर्दियक्ष-जावडिप्रबन्धः॥ ५२. लाखणराउलप्रबन्धः (B. P.) ___25 ६२२५) शाकम्भरीपुयां चाहमानो लक्ष्मणः। स वर्तनाय भार्यामादाय एकमन्त्यजं च सहायं कृत्वा देशान्तरं चलितः । मार्गवशानडूलपुरे सर परिसरे देवकुले दिनं विश्रान्तः । इतः सन्ध्यायां द्विजैरागत्योक्तम्-हे पान्थ! पुरस्य मध्ये समागच्छ । अत्र मेदानां प्रतिभयेन रात्रौ कोऽपि बहिर्न तिष्ठति । लाखणेनोक्तम्-वयं पथिका मार्गस्थाः। प्रतोल्यः सूर्योदये उद्घाट्यन्ते । अतोऽत्रैव स्थास्यामः । द्विजैरुक्तम्-अप्रमत्तैः स्थेयम् । तेषु गतेषु लाखणः सह सहायेन' सजीभूय स्थितः। इतो रात्री मेदधाटी प्रसृता । लाखणेन सह सहायेन युद्धं कृतम् । जन २० पतिताः । 30 तावुभावपि घातातौ पतितौ । प्रातर्द्विजैरेत्य पत्नी पृष्टा-कस्ते भर्ता ? कः सखा ? । तया दर्शितावुत्पाव्य नीतौ । पालितौ । रुद्धघातेन तेन द्विजा मुत्कलापिताः । तैरुक्तम्-क यास्यसि । तेनोक्तम्-यत्र निर्वाहो भविष्यति । वयमत्रैव करिष्यामस्त्वयाऽसाकं पुरे मेदोपद्रवो रक्ष्यः । स स्थितः । द्विजैस्तु ग्रासः कृतः। तेन जनाः ५ अन्ये 1B ससखायः। 2 B मेदानामुपद्रवो रक्षणीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220