Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 169
________________ ११४ पुरातनप्रबन्धसङ्घहे चतुर्थ दिने - कस्यापि राज्ञोऽन्तःपुरद्वयम् । एकया महे गन्तुकामया निजाभरणपेटिका कस्याश्चिनिजसख्याः समर्पिता । तया हारवोरितः । तया समेतया पेटिकां दृष्ट्वा कथितम् - मम हारः केनापि चोरितः । राजन् ! कथं ज्ञातः । काचमयपेटित्वात् । पञ्चमदिने–कस्यापि राज्ञो रत्नचतुष्टयम् - नैमित्तिको, रथकारः, सहस्रयोधी, वैद्यश्व विद्यते । अन्यदा तस्य राज्ञः 5 सुता विद्याधरेणैकेनापहे । ततो राज्ञोक्तम्-य आनेष्यति स परिणेष्यति । इत्थमुक्ते नैमित्तकेन मार्गो दर्शितः । रथकारेण गगनगामी रथश्चक्रे । सहस्रयोधिना स जितः । सा राजपुत्री विद्याधरमारिता वैद्येन सज्जीकृता । एषां को भर्त्ता ? | वादे जायमाने तया काष्ठभक्षणं कृतम् । नैमित्तिकेनापि तया सह कृतम् । द्वावपि सुरंगान्तर्भूत्वा सुखं स्थितौ । 1 $ २४८) कुत्रापि केषामपि आचार्याणां जलोदरमुत्पन्नम् । केनापि वैद्येन स्वरूपं विलोक्य पृष्टम् - यूयं किं 10 कुरुथ ? । तैरुक्तम्-ग्रन्थ एकः प्रारब्धोऽस्ति । तत्र सरोवर्णनं क्रियमाणमास्ते । तदवगत्यौषधं कारितम्, इत्युक्तं 'च-यन्मरुदेशवर्णनं विधत्त । तथाकृते आचार्याणां जलोदररोगोऽगमत् । ९२४९) केचिदाचार्या अतीव विद्वांसः कर्मयोगात् कुष्ठिनो जाताः । तत औषधोपचारैरपि रोगमनिवर्तमानं वीक्ष्य श्रीसेरीसके यात्रायां यात्वा देवाग्रे त्रिविधाहारप्रत्याख्यानं विधायोपविष्टाः । दिनसप्तकमजनि । पश्चाचतुर्थाहारोऽपि त्यक्तः । तदात्वागतव्यन्तरैः स्थितव्यन्तरपार्श्वे पृष्टमिति - कथं भवतामियन्तो दिवसा महाविदेहे 15 लग्नाः । तैरुक्तम्- महं तेजः पालकलत्रं भीमगान्धिकगृहे सुतात्वेनोत्पन्नमास्ते । तया परिणयनोचितया पाणिग्रहणं परित्यज्य श्रीसीमंधरस्वामिकरेण दीक्षा गृहीता । पित्रा पाणिग्रहणद्रव्यं तत्परित्रज्यायाः समये व्ययितम् । तदुत्सवं विलोकयतामस्माकमियन्ति दिनानि लग्नानि । ततस्तैराचार्याणां कथितमिति - भवान् सप्तमभवे भावसारोऽभूत् । तेन रङ्गभाण्डतप्तजलेन वाडिमध्ये नक्कुलनालकसप्तकं विनाशितम् । तेन कर्मणा त्वं सप्तमभवेऽस्मिन् कुष्ठी जातः । तवायुः स्तोकमास्ते । कर्मापि परिक्षीणम् । यदि भणसि ततस्तवारोग्यता दीयते । परमागामिभ20 वेऽपि कर्म वेदयिष्यसि । तद्वचो निशम्य प्रातः श्रावकानापृच्छय सूरयस्तथैव स्थिताः । $ २५०) अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासे - नैकेन वागस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसहस्रा उपोषिताः सन्ति । स्नानं कुर्वन्ति च । वीसलेनोक्तम् - किं स्नानेनामुना १ । पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वाल- ओनिनदीये खानं कृत्वा तृणमपि खादति । 25 ९ २५१) कस्यापि व्यवहारिणः खमे मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः संजाताः । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊपालो दत्तः । तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । ९२५२) बहूनां विदुषां सभाक्षोभो भवति इत्यर्थे कथा - पण्डितौ द्वौ कुत्रापि पठित्वा कस्मिंश्चिदेशान्तरे महति रायतने गतौ । ततो बीजपूरकमेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ । सभां महतीं विलोक्य क्षुभितौ । राज्ञः पुरो वीजपूरकं मुक्तम् । राज्ञोक्तम्- पूर्णं पूर्णं किमेतत् ? । पण्डितेनोक्तम् - राज्ञो भेटायां 'लींबडस' केन 30 भाव्यम् । ततो हसितः । तावता द्वितीयेनोक्तम् - यत् भवति 'भसाक्षोभः' । Jain Education International C For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220