Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 170
________________ G. सङ्ग्रहता अवशिष्टाः प्रबन्धाः । ६२५३) कच्छदेशे बहुचौरोपद्रवं विज्ञाय राज्ञा जिणहा नामा व्यापारी प्रेषितः। स चौरं मारयत्येव । एकदा चारणेन चौरी कृता । स धृतः आरक्षकेण । चारणं भणित्वा मत्रिजिणहाकस्य देवपूजां विदधतो विज्ञप्तम् । करसंज्ञया मत्रिणोक्तम्-मारयत । तदा चारणेनापाठि । 'इकु जिणहा इकु जिणवरह' । ६२५४) एकदा पारणादिनोपरि श्रीयशोभद्रसूरीणां क्षमाश्रमणानि समागतानि । दाक्षिण्यात्सर्वत्र मानितम् । ततस्तद्दिने ग्रामग्रामात् श्रीसङ्घः सकलोऽपि मिलितः । यत्र न यान्ति तत्र ते श्राद्धा विषादं कुर्वते । अतस्तां 5 बहुरूपिणी विद्यां स्मृत्वा रूपान् विधाय सर्वेषां मनोरथाः पूरिताः। ६२५५) रावणविजयं विधाय समेतेन श्रीरामेणायोध्याप्रवेशे समस्तलोकपार्श्वे 'धान्यस्य कुशलं गृहे' इत्थं पृष्टम् । लोकानां चेतसीति जातम्-यद्वर्षाणि चतुर्दशयावद्वने स्थितः। अन्नप्राप्तिर्न जाता । अतः प्रथममेवेदं पृष्टम् । इङ्गित राज्ञा तदवगत्य महाजनो निमत्रितः। प्रहरद्वये आकारितः। तेषां सुवर्णस्थाले महामूल्यानि रत्नानि मुक्तानि । एकैकस्याभिमुखमालोकयति । एकेनोक्तम्-देव ! नवीना रसवतीयम् । परं रत्नानि न शक्यते भोक्तुम् । 10 यद्येवं जानीथ तदा मम पृच्छायां कथं हसिताः । शृणुत-'उत्पत्तिर्दुर्लभा यस्य । (३२९) अन्नं प्राणा बलं चान्नम् अन्नं जीवितमुच्यते । परमौषधमन्नं हि सर्वमन्ने प्रतिष्ठितम् ॥ ६२५६) खरतराणामाचार्याणां निशि कोऽपि रंको दुर्भिक्षे परिभ्रमन् शालाद्वारि समागतः पूत्करोति । गुरुभिः श्रुतो वारितोऽपि न याति । ततो गुरुभिर्बहिनिःसृत्य वारितः-अरे ! अन्यत्र याहि । वयं दर्शनिनः । ततो विशेषतश्चरणयोर्लगित्वा स्थितः । ततो गुरुभिस्तपोधनमुत्थाप्य श्रावकस्सैकस्याकारणं प्रहितम् । तस्य भोज-15 नायार्पितः । तेन निजगृहे नीत्वा निजबालकशीताशनं भोजितः । अत्याहारेण विसूचिकया मृतः । शुभध्यानेन व्यन्तरोऽजनि । ज्ञानेन ज्ञात्वा पुनरपि रंकवेषं विधाय तथैवागतः । गुरुभिरपि तथैवोत्थाय वारितः । स निजरूपं प्रकटीकृत्येति जगाद-भगवन् । भवतां प्रसादेन ममेदृशी संपत्तिरजनि । ततः किमपि याचध्वम् । तैरुक्तम्-वयं किं याचामहे । यैस्तवान्नं दत्तं तानेव हि व्यवहारिणो विधेहि । अपरं यो गुरून् पूजयिष्यति तस्य गृहे न दारिद्यम्-इत्युक्त्वा मम पूजां कारय सर्वत्र । 20 ६२५७) कस्यापि राज्ञो राज्ञी वदति-नृप ! मम भ्रातुर्व्यापारं देहि । विष|यम् (?) । राजाह-राज्ञि! व्यापारस्तस्य दीयते, यो व्यापारं कर्तुं जानाति । सा न तिष्ठति । ततो दत्ता हस्तिपदरक्षा । ततश्चतुष्पथे लोकैः सह कलहं कृत्वाऽऽगतः। ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यमवलगां विदधतः पदभ्रष्टस्य हस्ति पदे रक्षाव्यापारो दत्तः। चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति-अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी । एवं भणतस्तस्य व्यवहारिभिरुक्तम्-इह मा कृथाः, अमगृहाणि 25 पातयिष्यन्ति । इति च्छद्म कृत्वा द्रव्यं गृहीतम् । प्रातर्लक्षसंख्यधनान्यादाय राज्ञोऽग्रे मुक्तानि । पृष्टं च नृपेण । भणितो यथार्थः । हर्षितेन भूपेन महान् व्यापारो दत्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220