________________
G. सङ्ग्रहता अवशिष्टाः प्रबन्धाः । ६२५३) कच्छदेशे बहुचौरोपद्रवं विज्ञाय राज्ञा जिणहा नामा व्यापारी प्रेषितः। स चौरं मारयत्येव । एकदा चारणेन चौरी कृता । स धृतः आरक्षकेण । चारणं भणित्वा मत्रिजिणहाकस्य देवपूजां विदधतो विज्ञप्तम् । करसंज्ञया मत्रिणोक्तम्-मारयत । तदा चारणेनापाठि । 'इकु जिणहा इकु जिणवरह' ।
६२५४) एकदा पारणादिनोपरि श्रीयशोभद्रसूरीणां क्षमाश्रमणानि समागतानि । दाक्षिण्यात्सर्वत्र मानितम् । ततस्तद्दिने ग्रामग्रामात् श्रीसङ्घः सकलोऽपि मिलितः । यत्र न यान्ति तत्र ते श्राद्धा विषादं कुर्वते । अतस्तां 5 बहुरूपिणी विद्यां स्मृत्वा रूपान् विधाय सर्वेषां मनोरथाः पूरिताः।
६२५५) रावणविजयं विधाय समेतेन श्रीरामेणायोध्याप्रवेशे समस्तलोकपार्श्वे 'धान्यस्य कुशलं गृहे' इत्थं पृष्टम् । लोकानां चेतसीति जातम्-यद्वर्षाणि चतुर्दशयावद्वने स्थितः। अन्नप्राप्तिर्न जाता । अतः प्रथममेवेदं पृष्टम् । इङ्गित राज्ञा तदवगत्य महाजनो निमत्रितः। प्रहरद्वये आकारितः। तेषां सुवर्णस्थाले महामूल्यानि रत्नानि मुक्तानि । एकैकस्याभिमुखमालोकयति । एकेनोक्तम्-देव ! नवीना रसवतीयम् । परं रत्नानि न शक्यते भोक्तुम् । 10 यद्येवं जानीथ तदा मम पृच्छायां कथं हसिताः । शृणुत-'उत्पत्तिर्दुर्लभा यस्य ।
(३२९) अन्नं प्राणा बलं चान्नम् अन्नं जीवितमुच्यते । परमौषधमन्नं हि सर्वमन्ने प्रतिष्ठितम् ॥
६२५६) खरतराणामाचार्याणां निशि कोऽपि रंको दुर्भिक्षे परिभ्रमन् शालाद्वारि समागतः पूत्करोति । गुरुभिः श्रुतो वारितोऽपि न याति । ततो गुरुभिर्बहिनिःसृत्य वारितः-अरे ! अन्यत्र याहि । वयं दर्शनिनः । ततो विशेषतश्चरणयोर्लगित्वा स्थितः । ततो गुरुभिस्तपोधनमुत्थाप्य श्रावकस्सैकस्याकारणं प्रहितम् । तस्य भोज-15 नायार्पितः । तेन निजगृहे नीत्वा निजबालकशीताशनं भोजितः । अत्याहारेण विसूचिकया मृतः । शुभध्यानेन व्यन्तरोऽजनि । ज्ञानेन ज्ञात्वा पुनरपि रंकवेषं विधाय तथैवागतः । गुरुभिरपि तथैवोत्थाय वारितः । स निजरूपं प्रकटीकृत्येति जगाद-भगवन् । भवतां प्रसादेन ममेदृशी संपत्तिरजनि । ततः किमपि याचध्वम् । तैरुक्तम्-वयं किं याचामहे । यैस्तवान्नं दत्तं तानेव हि व्यवहारिणो विधेहि । अपरं यो गुरून् पूजयिष्यति तस्य गृहे न दारिद्यम्-इत्युक्त्वा मम पूजां कारय सर्वत्र ।
20
६२५७) कस्यापि राज्ञो राज्ञी वदति-नृप ! मम भ्रातुर्व्यापारं देहि । विष|यम् (?) । राजाह-राज्ञि! व्यापारस्तस्य दीयते, यो व्यापारं कर्तुं जानाति । सा न तिष्ठति । ततो दत्ता हस्तिपदरक्षा । ततश्चतुष्पथे लोकैः सह कलहं कृत्वाऽऽगतः। ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यमवलगां विदधतः पदभ्रष्टस्य हस्ति पदे रक्षाव्यापारो दत्तः। चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति-अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी । एवं भणतस्तस्य व्यवहारिभिरुक्तम्-इह मा कृथाः, अमगृहाणि 25 पातयिष्यन्ति । इति च्छद्म कृत्वा द्रव्यं गृहीतम् । प्रातर्लक्षसंख्यधनान्यादाय राज्ञोऽग्रे मुक्तानि । पृष्टं च नृपेण । भणितो यथार्थः । हर्षितेन भूपेन महान् व्यापारो दत्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org