________________
११४
पुरातनप्रबन्धसङ्घहे
चतुर्थ दिने - कस्यापि राज्ञोऽन्तःपुरद्वयम् । एकया महे गन्तुकामया निजाभरणपेटिका कस्याश्चिनिजसख्याः समर्पिता । तया हारवोरितः । तया समेतया पेटिकां दृष्ट्वा कथितम् - मम हारः केनापि चोरितः । राजन् ! कथं ज्ञातः । काचमयपेटित्वात् ।
पञ्चमदिने–कस्यापि राज्ञो रत्नचतुष्टयम् - नैमित्तिको, रथकारः, सहस्रयोधी, वैद्यश्व विद्यते । अन्यदा तस्य राज्ञः 5 सुता विद्याधरेणैकेनापहे । ततो राज्ञोक्तम्-य आनेष्यति स परिणेष्यति । इत्थमुक्ते नैमित्तकेन मार्गो दर्शितः । रथकारेण गगनगामी रथश्चक्रे । सहस्रयोधिना स जितः । सा राजपुत्री विद्याधरमारिता वैद्येन सज्जीकृता । एषां को भर्त्ता ? | वादे जायमाने तया काष्ठभक्षणं कृतम् । नैमित्तिकेनापि तया सह कृतम् । द्वावपि सुरंगान्तर्भूत्वा सुखं स्थितौ ।
1
$ २४८) कुत्रापि केषामपि आचार्याणां जलोदरमुत्पन्नम् । केनापि वैद्येन स्वरूपं विलोक्य पृष्टम् - यूयं किं 10 कुरुथ ? । तैरुक्तम्-ग्रन्थ एकः प्रारब्धोऽस्ति । तत्र सरोवर्णनं क्रियमाणमास्ते । तदवगत्यौषधं कारितम्, इत्युक्तं 'च-यन्मरुदेशवर्णनं विधत्त । तथाकृते आचार्याणां जलोदररोगोऽगमत् ।
९२४९) केचिदाचार्या अतीव विद्वांसः कर्मयोगात् कुष्ठिनो जाताः । तत औषधोपचारैरपि रोगमनिवर्तमानं वीक्ष्य श्रीसेरीसके यात्रायां यात्वा देवाग्रे त्रिविधाहारप्रत्याख्यानं विधायोपविष्टाः । दिनसप्तकमजनि । पश्चाचतुर्थाहारोऽपि त्यक्तः । तदात्वागतव्यन्तरैः स्थितव्यन्तरपार्श्वे पृष्टमिति - कथं भवतामियन्तो दिवसा महाविदेहे 15 लग्नाः । तैरुक्तम्- महं तेजः पालकलत्रं भीमगान्धिकगृहे सुतात्वेनोत्पन्नमास्ते । तया परिणयनोचितया पाणिग्रहणं परित्यज्य श्रीसीमंधरस्वामिकरेण दीक्षा गृहीता । पित्रा पाणिग्रहणद्रव्यं तत्परित्रज्यायाः समये व्ययितम् । तदुत्सवं विलोकयतामस्माकमियन्ति दिनानि लग्नानि । ततस्तैराचार्याणां कथितमिति - भवान् सप्तमभवे भावसारोऽभूत् । तेन रङ्गभाण्डतप्तजलेन वाडिमध्ये नक्कुलनालकसप्तकं विनाशितम् । तेन कर्मणा त्वं सप्तमभवेऽस्मिन् कुष्ठी जातः । तवायुः स्तोकमास्ते । कर्मापि परिक्षीणम् । यदि भणसि ततस्तवारोग्यता दीयते । परमागामिभ20 वेऽपि कर्म वेदयिष्यसि । तद्वचो निशम्य प्रातः श्रावकानापृच्छय सूरयस्तथैव स्थिताः ।
$ २५०) अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासे - नैकेन वागस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसहस्रा उपोषिताः सन्ति । स्नानं कुर्वन्ति च । वीसलेनोक्तम् - किं स्नानेनामुना १ । पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वाल- ओनिनदीये खानं कृत्वा तृणमपि खादति ।
25
९ २५१) कस्यापि व्यवहारिणः खमे मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः संजाताः । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊपालो दत्तः । तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः ।
९२५२) बहूनां विदुषां सभाक्षोभो भवति इत्यर्थे कथा - पण्डितौ द्वौ कुत्रापि पठित्वा कस्मिंश्चिदेशान्तरे महति रायतने गतौ । ततो बीजपूरकमेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ । सभां महतीं विलोक्य क्षुभितौ । राज्ञः पुरो वीजपूरकं मुक्तम् । राज्ञोक्तम्- पूर्णं पूर्णं किमेतत् ? । पण्डितेनोक्तम् - राज्ञो भेटायां 'लींबडस' केन 30 भाव्यम् । ततो हसितः । तावता द्वितीयेनोक्तम् - यत् भवति 'भसाक्षोभः' ।
Jain Education International
C
For Private & Personal Use Only
www.jainelibrary.org