________________
G. सङ्ग्रहता अवशिष्टाः प्रबन्धाः । .६२४४) केनापि राज्ञा वाद्यालिगतेन कश्चित्पुमान् करीरशिखरस्थानि करीराणि विचिन्वन्नुदितः-रे सुप्राप्यानि अमूनि विहाय कथं कष्टप्राप्यानि चिनोषि । तेनोक्तम्-सुप्राप्यानि पश्चादपि ग्रहीष्यामि, पूर्वमहमसाध्यानि साधयिष्यामि । राज्ञा तुष्टेन व्यापारो दत्तः। स महासुखं भुङ्क्ते। एकदा प्रातः पृष्टः-कथमुन्मना इव दृश्यसे ?। तेनोक्तम्कुसुमशय्यायां वृन्तेन दूमितोऽस्मि । ततो राज्ञा उन्मत्त इति सर्वमादाय व्यापारानिर्वासितः । एवं यावत्
जा जा पडइ अवत्थडी०॥
5
२४५) राजा-अमात्य-तलारक्ष-व्यवहारिणां पुत्राः मित्राणि च कर्म-बुद्धि-विक्रम-व्यवसायान् मन्यन्ते । विवादे जाते देशान्तरं प्रति चलिताः। एकेन व्यवसायप्रयोगात् कस्यापि हट्टे द्रव्यमुपार्जितम् । द्वितीयेन [धाटीतो(१) ] ग्रामो रक्षितः । तृतीयेन बुद्धिवशात् तटस्थेन सरोवरमध्यकीर्तिस्तंभपाशो दत्तः । चतुर्थस्य कर्मवशात् पदाभिषेको जातः। (३२८) यद्भविष्याधिको धीरैर्व्यवसायी प्रकीर्तितः ।
तस्मादप्यधिको लोके भाग्यवान् राजिलो यथा ।
10
६२४६) कर्मोपक्रमप्रशंसकं नरद्वयं राज्ञा केनापि कूपे प्रक्षिप्तम् । दिनत्रयं जातम् । राज्ञा तयोर्मोदकदशक प्रहितम् । उपक्रमवता गृहीतम् । मोदकपञ्चकं कर्मप्रशंसकस्यार्पितम् । तन्मध्ये रत्नपञ्चकमभूत् । राज्ञा तौ बाह्यनिष्कासितौ । भाग्याधिकेन रत्नानि दर्शितानि । अतो भाग्यमेव श्रेयः।
६२४७) वसन्तपुरे जितशत्रुराजा सभां सचित्रां कारयन्नस्ति । अत्रान्तरे चित्रकरदारिका भक्तमादायागता | 15 इतश्च वृद्धो बाह्यभूमौ गतः। ततस्तया तत्र क्रीडया भुवि बर्हिबह चित्रितम् । ततो विलोकनायागतेन नृपेण पिच्छभ्रान्त्या करः क्षिप्तः । नखावली भग्ना । सा हसिता । राज्ञोक्तम्-कथम् । तयोक्तम्-चत्वारोऽपि मूर्खाः । एकश्चतुष्पथे घोटकं त्वरयन् दृष्टः। द्वितीयो मम पिता, यो भक्ते समागते बहिर्गन्ता । तृतीयो राजा, यः समभूमि मत्पितुर्वृद्धस्य चित्रार्थ ददाति । तुर्यस्त्वम् । ततस्तेन सा परिणीता । ततः सा राज्ञोऽग्रे कथां कथयतिराजन् ! शृणु । कोऽपि...............अन्तःपुराणां आभरणानि भूमिगृहे स्वर्णकारपार्थात् कारयति । तेन तत्र 20 स्थितेन कथितम् । संप्रति अस्तमनं जातम् । स कथं जानाति । राजन् ! राज्यन्धत्वात् । - द्वितीयदिने-राजन् ! व्यवहारिसुता काचित् पित्रा मात्रा भ्रात्रा मातुलेन च चतुर्षु स्थानेषु दत्ता । लग्नदिने चत्वारोऽपि वरा विवादं विदधते । सा विवादं विज्ञाय मृता । एकेन सह गमनं कृतम् । द्वितीयेन तस्या अस्थीनि तीर्थे प्रक्षिप्तानि । एकः पिण्डं ददाति । तुर्यो मृतसंजीविनीविद्याग्रहणार्थं देशान्तरे गतः । तेन कुत्रापि रुदमानं बालकं चुल्लके क्षिप्तवती कापि नारी दृष्टा । तेनोक्तम्-आः किमेतद्विहितम् ? । तया पुनर्जीवितः । तेन 25 तत्र विद्यामादाय सापि जीविता । पुनश्चतुर्णा वादो मारुयकेन भन्नः । येन जीविता स पिता । येनास्थीनि तीर्थे क्षिप्तानि स भ्राता । यः सहोत्पन्नः सोऽपि भ्राता । पिण्डदाता भर्ता ज्ञेयः ।
तृतीयदिने-केनापि राज्ञा चौरद्वयं [पेटीमध्ये निःक्षिप्य नद्यां] प्रवाहितम् । कसिन्नपि नगरे केनापि राज्ञा निष्कासितम् । पृष्टम्-कियन्ति दिनानि जातानि । ताभ्यां तुर्य दिनं [ कथितं ] कथं ज्ञातम् ? । राजन् ! चातु- - र्थिकज्वरप्रभावतः।
30 पु.प्र. स. 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org