________________
११२
10
तस्य समीपे देवदत्त उपविष्टः । कर्णवारा कथिता । व्यवहारिणश्चत्वारोऽप्याकारिताः । पृथक् पृथगुपवेशिताः । तेषां समीपे पृ०, तैः क० - वयं साक्षीकृत्य तस्य प्रियायोग्यं समर्पितानि । भव्यम् । तेन खबुद्ध्या पडसूधीलोअको 5 विभज्य चतुर्णां समर्पितः। कथितं च- यावन्मात्राणि सन्ति तावन्मात्राणि कुर्वन्तु । चत्वार्यपि रत्नानि तैः कूटसाक्षिभिरन्यादृशानि २ कृतानि । तेन कर्णवारीपुत्रेण कथितम् - भोः वणिक्पुत्र ! रत्नानि सकालेऽपि समर्पय, मा राजग्राज्यो (ह्यो) भव । एते कूटसाक्षिणश्च राजग्राह्या भविष्यन्ति । ततस्तेन श्रेष्ठियोग्यानि रत्नानि समर्पितानि । पादयोश्च पतितः । कर्णवारीपुत्रस्य पदं जातम् । अतः सत्यां कर्णवारां कुर्वतां द्रव्यप्राप्तिर्यशच इह लोके परलोकेsपि । श्रेष्ठ्यपि रत्नानां सौख्यं विलसित्वा स्वर्गभाग्जातः ।
॥ इति कर्णवाराविषयकप्रबन्धः ॥
पुरातनप्रबन्धसङ्ग्रहे
(३२७) सिंहशिशुरपि निपतति मदकुलझङ्कारभूषिते करिणि । न पुनर्नखमुखविलषि (लिखितभूतलकुहरस्थिते नकुले ॥
(d) सङ्ग्रहगता अवशिष्टाः प्रबन्धाः ।
$ २४०) श्रीवाक्पतिराजकविना भारतं कर्तुं प्रारब्धम् । तावता निशि द्वैपायनः समागतः । तेनोक्तम्- किमर्थं पादमवधारिताः । तेनोक्तम् - तव पार्श्वे याचितुम् । किम् ? यत् त्वं भारतं मा कृथाः । पुस्तकमर्पय । तेन तथाकृतम् । गीर्वाणवाण्यपि निषिद्धा । ततो गौडवधनामा प्राकृतग्रन्थो विहितः ।
15 ६ २४१) श्रीसारंगदेवप्रधानो राज्ञा रामदेवेन पृष्टो निजस्वामिनः कीर्तिस्फूर्ति अवादीत् । राज्ञोक्तम्- सर्वं भव्यम्, परं पानं करोति । पानकः शशाङ्ककलङ्कः । तेनोक्तम् - देव ! सत्यम्, परं मातृ-भगिनीं जानाति । रामदेवस्य पितृव्यसुता लुखाईराणी अन्तःपुरेऽस्ति । इति श्रुत्वा लज्जितः ।
६२४२) अथ अभयदेवनामा द्विजः प्रभासे सरस्वत्यां स्नानं विधाय समागत्य च श्रीसोमेश्वरं नमस्कृतः । तद्धर्मशिलायाः पुरः शफरी जीवन्ती पतिता तस्यैव शरीरे लग्ना मृता च । तेन सानुकम्पेन प्रायश्चित्तं पृष्टम् । 20 केनापीति गदितम् - सुवर्णरूपमयी दीयते शफरी । तेन न मानितम् । ततः सर्वत्र प्रायश्चित्तहेतोर्भ्रमन् श्रीस्तम्भतीर्थे गुरुर्जीववधमांसभक्षणप्रायश्चित्तं सिद्धान्ते वाचयन्नभूत् । तेन श्रुतम् । यद्यस्य जीवस्य यावन्तीन्द्रियाणि भवन्ति, तद्वधे तावन्मितशतोपवासा विधीयन्ते । तन्मानितम् । ततो दीक्षात्ता | श्रीअभयदेवसूरयो जाताः ।
(२४३) कुम्भीपुरे यशोधनो व्यवहारी । तस्य पुत्रो विद्यानन्दो विस्तरेण परिणीतः । दीपालिकायामागता वधूः । तेनोक्तम्- कथा कथ्यतामिति । तया लज्जया नोक्तम् । सा मुक्ता । ततः पित्राऽपरां परिणायितः । पूर्व25 वदुक्ते सापि मुक्ता । पुनः पित्रा दूरं गत्वा कन्यां याचयित्वा परिणायितः । तया पृष्टया कथितम् - कीदृशीं कथां कथयामि ? अनुभूतां श्रुतां वा, दृष्टां वा । तेनोक्तमनुभूताम् । एवमुक्ते तया मन्दं २ द्रव्यं पितृगृहे प्रविष्टं कृतम् । एकदा निशि गृहं ज्वालितम् । तदनु निर्धनतयात्मचतुर्थकुटुम्बं निःसृतम् । कस्मिन्नपि नगरपाद्रे संम्बलमिषेण पिता गतः, मातापि गता, सोऽपि तां विहाय गतः । सा तु द्रव्यबलेन राजकुमारवेषं विधायावलगां जग्राह । तस्य पिता महिषवित्तोऽजनि । माता मासोपवासिन्यजनि । स कोरिको जातः । त्रयमपि तया संगृहीतम् । वर्षान्ते 30 तमाकार्य कथितम् । अद्यापि कथां कथयामि नो वा । जातम् । एवं पुनः व्यवहारी जातः विहितो भार्यया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org