________________
कर्णवाराविषये उदाहरणम् ।
६२. दानविषये उदाहरणम् । (३२४) पश्चादत्तं परैर्दत्तं लभ्यते वा न वा खलु ।
खहस्तेनैव यद्दत्तं तद्दत्तमुपतिष्ठति ॥ (३२५) सद्यस्तृप्यति भोक्तारं यस्योद्देशेन दीयते ।
सत्यं वदामि कौन्तेय! यो ददाति स भुञ्जते ॥ ६२३८) कयाचित्प्रोषितभर्तृकया पत्यागमनकारणं विलोकयन्त्या दिना घनतरा गताः। भर्तुः पार्थात्पश्चादेको जनस्तस्याः समाचारदर्शनार्थं समायातः । सा अन्यासक्ता दृष्टा । तया चिन्तितम्-अहमनेन ज्ञाता । स पुनरपि भारं प्रति चलनाय लग्नः। तस्य चलतो द्वौ मोदको समर्पितौ सम्बलार्थम् । एको विषमिश्रितो द्वितीयो न । यथेष विषमिश्रितमोदकभक्षणेन विनश्य भर्तुरग्रे गृहस्वरूपं न कथयति । स चलितः । तस्यैव ग्रामगोन्द्रके निर्विण्णो भर्ता तस्या उपविष्टो दृष्टः । क्षुधाऽऽक्रान्तः । तत्र द्वौ जनावुपविष्टौ । तेनैको मोदकस्तस्या भर्तृयोग्यं 10 दत्तः। एकस्तेन भक्षितः । विषमिश्रितमोदकभक्षणेन लहरितः । मूच्छां प्राप्तः । तावता दण्डपाशिकैर्धतः ससखा । लोको मिलितः । तस्योपद्रोतुं लमः । मारणार्थ नीतो जनः । भार्यायाः शुद्धिर्जाता । मोदकभक्षणेन दूरदेशादायातो मम भर्ता विनष्टः । स जनो मारणार्थं नीतोऽस्ति । तया चिन्तितम्-मम विरूपदानतस्तात्कालिकं फलं जातम् । अहमेनं जनं मुंश्चापयामि । तया तत्र गत्वा कथितः-यादृशं दानं दत्तम् , तस्य तात्कालिकं फलं दृष्टं तादृशम् । जनो मुश्चापितः । लोकानामग्रे कथितम्-यादृशं दीयते तादृशं प्रत्यक्षं दृश्यते; यादृग् दत्तं 15 तादृग् लब्धम् । तस्याः सत्यकथनेन विषं जपित्वोत्तारितम् । स निरामयो जातः । तदनन्तरं सा तस्य विषये एकचित्ता गृहस्थधर्म पालयति । यादृग्दीयतेऽन्यस तादृक् प्रत्यक्षं दृश्यते इति भावः ।। (३२६) अपलपति रहसि दत्तं प्रत्ययदत्तेन संशयं कुरुते ।
तस्य हि नश्यति सर्व मूलतस्तानिशम्यैताम् ॥
६३. कर्णवाराविषये उदाहरणम् । ६२३९) देवदत्तेन व्यवहारिणा प्रवहणगतेन एकस्यात्मीयवणिकपुत्रस्य हस्ते चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । तेन वणिक्पुत्रेण चतुर्गामधू(कू)टजनानां लञ्चां दत्त्वा साक्षिणः कृताः । यदा देवदत्तः समायाति तदा युष्माभिरिति कथनीयम्-वयं साक्षिणः कृत्वा, तव कलत्रयोग्यानि चत्वारि रत्नानि प्रदत्तानि । कियद्भिर्दिनैः प्रवहणे समायाते देवदत्तः कुशलेनागतः । कलत्रपार्श्वे पृष्टम्-मया तव योग्यानि चत्वारि रत्नानि प्रहितानि, आनय तानि, प्रविलोक्यन्ते रत्नपरीक्षकाणां दर्श्यते । तया कथितम्-मम योग्यं केनचिन्न समर्पितानि 125 वणिक्पुत्रः पृष्टः । तेन कथितम्-मया चतुरो नगरमध्यस्थान् व्यवहारिणः साक्षिणः कृत्वा तव प्रियायोग्यानि समर्पितानि । तैरपि कथितम्-तव प्रियायोग्यानि समर्पितानि वयं साक्षीकृत्य निश्चयेनासिन्नर्थे न सन्देहः । तेन चिन्तितम्-अहमनेन वणिक्पुत्रेण साक्षिभिश्च [मुषितः] कोऽपि नगरमध्ये न यो न्यायान्यायं विलोकयति । कर्णवारां सत्यां कुरुते । केनचिजनेन कथितम्-कर्णवारी मृतः । पुनस्तस्य लघुपुत्रो विद्यते एकः । देवदत्तस्तस्य गेहे गतः। पुत्रस्य मात्रा स आवर्जितः। तया कथितम्-किमर्थं समायातः। कर्णवारां प्रच्छनाय । 30 तया कथितम्-अरे वत्स! तव पिता नगरमध्यस्थां समग्रां कर्णवारां कुर्वन् लोकानां मध्याहुतरं द्रव्यं समानयत् । त्वं किमपि न कुरुषे । अन्यत्त्वां लघु भणित्वा कोऽपि न मन्यते । मातरहमपि तस्य पुत्रो भवामि । समग्रं निर्णयं करिष्ये । यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org