________________
पुरातनप्रबन्धसङ्ग्रहे किश्चिमोक्तम् । हस्तमेलकवेलायां पुरे पूर्ववरः समाययौ । स केनाप्यसत्कृतो मध्ये समागतः । विवाहं मत्वा युद्धसजो जातः । इतो विधिना समेत्य नृप उक्तः-राजन् ! मा विषीद; भो मत्रिन् ! त्वमपि मा विषीद । किं विसरसि त्वया पृष्टाऽहम् ? । मयोक्तं पूर्व मद्वाक्यमन्यथा कथं भवति । एषाऽस्यैव भवतु । अन्यां परिणाप्य द्वितीयः प्रेषितः । इति विधिर्यद्विधत्ते तद्भवति, मनुष्यकृतं न भवति ।
६०. परोपकारविषये उदाहरणम् । (३२२) नीचाः शरीरसौख्यार्थमृद्धिव्यापाय मध्यमाः।
कस्मैचिदद्भुतार्थाय यतन्ते पुनरुत्तमाः ॥ ६२३६) कश्चित्परोपकारी न्यायी पुमान् अन्यायनगरे गतः। तत्र राजाप्रभृति सर्वेऽप्यन्यायिनो वसन्ति । तेन स्वजीवनार्थ विक्रेतुं कोहलकानि समानीतानि । विक्रेतुं लग्नः । 'ईछ' सम्बन्धेन नवकोहलकानि गतानि । 10 चत्वारो विलोक्यन्ते । खेटके पतितः। स आत्मानं विक्रेतुं कामोऽपि न छुटति । तेन पुरुषेण चिन्तितम्-कथं
अथापि प्रतीकारं करोमि ? । श्मशानभूम्यां गतः । तत्र मृतकानां दा दातुं न ददते । मृतकमहत्त्वानुमानेन द्रव्यं याचते । लोकैः पृष्टम्-कस्त्वम् ? । राज्ञीशालकः । तस्य द्रव्यं ददाति । ततोऽनन्तरं दापो भवति । तेन कियद्भिर्दिनैर्द्रम्माः सहस्रदशो मेलिताः । राज्ञः (ज्ञा?) पुरोहितः पृष्टः । तद्भूम्यां समागतः । द्रम्मानां सहस्रं याचते । पञ्चशत्या निर्वाहः । राज्ञोऽये लोकेन रावा कृता । राज्ञा शब्दितः । स मुक्तकेशः कौपीनवासाः 15 प्रत्यक्षपिशाच इव दृष्टः । पृष्टः-कस्त्वम् । राज्ञीशालकः । कोऽपि राज्ञीशालको वर्त्तते कस्मिन्नगरे । तेनोक्तम्-'नव कोहलां ईछ तेर' एवं कुत्रापि वर्तते । तेन समस्ता द्रम्मा राज्ञः समर्पिताः । तस्य राज्ञा व्यापारो दत्तः । नगरेऽन्यायो रक्षितः । समस्तलोकानामुपकारकरो बभूव ।
20
६१. उद्यमविषये उदाहरणम् । (३२३) उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
पुरुषस्य चोपविष्टस्य देवता न च सिद्धिदाः ॥ ६२३७) केनापि पुंसा देवी चामुण्डा आराधिता । परितोपं गता क०-याचस्व । तेन कथितम्-यच्चिन्तयामि तत्प्राप्तिः । तव भविष्यति इति कृत्वा देवीभवनान्निःसृतः। चिन्तितम्-मम शरीरे सर्वाङ्गीणानि आभरणानि भवन्तु । जातानि । गृहस्योपरि व्रजन्मार्गे सार्थेन सह चौरैदृष्टः । सार्थो गृहीतः। स उपविश्य स्थितः । केपि नंष्ट्वा गताः, केऽपि योधिताः । स लकुटैः कुट्टयित्वा गृहीतः । आभरणानि गतानि । शरीरे दूमितो गाढं देवीं 25 भञ्जनाय लोढी गृहीत्वा गतः । देव्या कथितम्-कथं मां भञ्जसे ? । त्वया चौरात् कथं न रक्षितः १ । यदि युद्धं
कुरुत त्वं तदा स्कन्धाभ्यामवतरामि, यदि पलायनं कुरुत तदा पादाभ्यामवतरामि । उपविश्य स्थितस्तदाऽहं किं करोमि ? । देव्या स भङ्ग कुर्वनिषिद्धः । ततः स्वगृहे गतः । यदि उद्यमः क्रियते तदा सिद्धिर्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org