________________
(P.) सङ्ग्रहगता अवशिष्टा विधि-परोपकारादिविषयकप्रकीर्णप्रबन्धाः ।
- ५९. विधिविषये उदाहरणम् । ६२३५) पोतनपुरे नरवाहनो नृपः । सुमित्रो मत्री । अन्यदा अन्तःपुरे पुत्री जाता । नृपेणोत्सवे कारिते, षष्ठीदिनेऽमात्यस्य विसयो जातः । षष्ठीदिने विधिरेत्य ललाटेऽक्षराणि क्षिपति । तदेतत्सत्यं असत्यं वा-इति सन्देहे, स्वयं खड्गमाधाय छन्नं स्थितः। अर्द्धरात्रौ स्त्रीरायाता । सा कुङ्कुममादायाक्षराणि क्षिप्वा यान्ती मत्रिणा 5 प्रणामपूर्व पृष्टा-देवि ! प्रसादं कृत्वा कथय, कान्यक्षराणि क्षिप्तानि? । तयोक्तम्-मा पृच्छ । निर्बन्धेन पृष्टा आह-इयं कोरिकसुतस्य पत्नी भविष्यति । इत्युक्त्वा तिरोदधे । प्रातर्मत्री विषण्णस्तं वृत्तं नृपाय आचख्यौ । नृपेणोक्तम्-तस्य सुतो जातमात्रोऽस्ति, स बालोऽपि व्यापाद्यः । इत्युक्ते मत्रिणोक्तम्-देव! बालहत्यां कः करोति । तदैव व्यापादयिष्यामः । क्रमेण कन्या वर्द्धिता, सोऽपि वर्द्धितः । राजगृहे कर्माणि कुरुते । षोडशवार्षिक तसिन्नमात्येनोक्तम्-देव! स डिम्भः कथं व्यापादनीयः । इतः कस्मैचिन्नृपपुत्राय कन्या दत्ता। षण्मासान्ते 10 लग्नं मत्वा नृपेण स भूर्जानर्पयित्वा (१) विधिनिमत्रणाय उक्तः-रे वत्स! विधि निमत्र्यागच्छ । तेनोक्तम्खामिन् ! सा कास्ते । तन्न जाने-मत्रिणोक्तम् । लङ्कायां स चलितः । अग्रे गच्छन् कस्मिंश्चित्पुरे श्रेष्ठिहवे उपविष्टः । तेन पृष्टम्-क्व यास्यसि । तेन खभावोक्तौ गृहे नीत्वा श्रेष्ठिना भोजितः । उक्तम्-विध्यग्रे मम सन्देशो वाच्यःमदीयं भवनं कथं ज्वलति । तेनोक्तम्-कथयिष्ये । तं श्रुत्वाऽग्रे गच्छन् पुरमेकमुद्धसं दृष्ट्वा मध्ये प्रविष्टः । शोभाभिरामं पश्यन् राजाङ्गणे नृपसिंहासनाध्ये निविष्टः । सन्ध्यायां पुरशोभा जाता । नृपः समाययौ । तेन नम-15 स्कृतः। कोऽसि त्वम् ? । स्वरूपे उक्ते स०-मम सन्देशो विध्यग्रे वाच्यः-यन्मे पुरं प्रातर्दिशो दिशं कथं याति। तच्छ्रुत्वा प्राति]श्चलितः। समुद्रोपकण्ठे गतः। चिन्तातुरो मत्स्येनैकेन व्याहृतः-भो मनुष्य! कोऽसि त्वम् ? खभावोक्तौ तत्रापि तेनाप्युक्तम्-यदि मे सन्देशं कथयसि तदा तत्र नयामि । तेनोक्तम्-वद । तेनोक्तम्-मदीये जठरे दापः कथम् । स पृष्ठिमधिरोप्य उपकण्ठे मुक्तः। तेनोक्तम्-वलनं कथम् ? । सप्तप्रहरान् प्रतीक्षयिष्ये । इति श्रुत्वा स गतः। इतः प्रतोलीराक्षसेषु धावितेषु तेनोक्तम्-विधेः स्वरूपं समर्प्य वलन्नेष्यामि । तैर्मध्ये मुक्तः । स 20 रावणनृपालयसप्तमभूमौ कुचेला कोद्रवदलनपरां विधि राक्षसनिवेदितां ननाम । खरूपेऽर्पिते सा हृष्टा जाता । वत्स! त्वं गच्छ । लग्नसमये एष्यामि । सन्देशान् पृष्ट्वा समुद्रोपकण्ठे गतः। तत्र तं मत्स्यं दृष्ट्वा, तेन पृष्टः-मत्सन्देशं कथय । पूर्वभवे त्वं विद्यापारगो ब्राह्मणः । विद्यादाने कृपणो जातः। मृत्वा मत्स्यो जातः । पूर्वभवविद्यया तव देहो दह्यते । यदि विद्यां ददासि, तदा ते स्वास्थ्यं भविष्यति । सोऽपि जाति स्मृत्य तस्यैव विद्यामदात । पुनः परतटे नीतः स विद्यावान् । पुनः शून्यपुरे सन्ध्यासमये नृपाय मिलितः। तेन शून्यताकारणे 25 पृष्टे, उक्तम्-अत्रैव पुरे तव पिता दुर्गरोधे सन्नह्य बहिनिःसृतः । धारातीर्थे मृतः । मस्तकं विना त्वया अपि संस्कारः कृतः। करोटिका कालदण्डचण्डालगृहेऽस्ति । तया डिम्भानि रब्बापानं कुर्वन्ति । पश्चात्तव तातो व्यन्तरो जातः । स यथा यथा तां करोटिकां ताप्यमानां पश्यति तथा तथा क्रुद्धः सन् पुरं शून्यं विधत्ते । रात्री तया शीतया जातया स्वास्थ्यं करोति । नृपेण तामानीयाग्निसंस्कारः कृतः । तस्मिन् पुरे खास्थ्ये जाते, स्वपुत्री दत्त्वा बहुपरिकरः प्रेषितः । पुनः श्रेष्ठिपुरे गतः । श्रेष्ठिनातिथ्ये कृते वार्ता पृष्टा । तेनोक्तम्-वित्तवानपि त्वं 30 कृपणस्तव गृहे देवगुरुसुहासिण्यादयो निःश्वस्य शापं यच्छन्ति-ज्वलत्वस्य गृहम् । तेन सत्यं मत्वा दानेश्वरो जातः । वपुत्रीं दत्त्वा प्रेषितः । इतो लग्नदिने स खपुरे गतः। जनैर्वरो मत्वा मध्ये नीतः । केनाप्यलक्षितेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org