________________
पुरातनप्रबन्धसङ्ग्रहे कोऽपि न वक्ति । नृप आह-तदा भोक्ष्ये यदा स प्रकटीभविष्यति । लङ्घने जाते प्रातः कुमारेणोक्तम्-देवाहमपराधी । मम दण्डं कुरु । नृपेण वाहिनीमानाय्य सार्ताः पृष्टाः-कोऽय दण्डः। तैरुक्तम्-देव! राज्यधर एक एव कुमारस्तस्य को दण्डः। नृपः प्राह-कस्य राज्यम् , कस्य सुतः। मम न्याय एव महान् । यद्भवति तद्भूत। तैरुक्तम्यो यस्य कुरुते, तस्य तद्विधीयते । नृपेणोक्तम्-इह खपिहि । स सुप्तः । नृपेणोक्तम्-वाहिनीमुपरि वेगेन वाह5 यत । कोऽपि न कुरुते । नृपस्तदाह-(B नृपः कामाश्राविण्यामिदमवादी-) मे पुत्रस्नेहो न, विनश्यतु वा जीवतु । यावत्स्वयमुपविश्य वेगेन वाहयति कुमारचरणयोरुपरि तावद्देवी प्रकटीभूय पुष्पवृष्टिं चक्रे । न गौर्न वत्सः । राजन् ! मया तव चित्तपरीक्षणं कृतम् । नृपस्य सुतो वल्लभो न्यायो वा' । पुत्रादपि न्यायस्तव वल्लभः । चिरं राज्यं कुरु ।
॥ एवं न्याये यशोवर्मप्रबन्धः॥
५८. अम्बुचीचनृपप्रबन्धः (Ba. P.) ६२३४) एकदा द्वारिकायां कृष्णो राज्यं करोति । पाण्डवपितृव्यो विदुरः कृष्णेन प्रधानः कृतः। दिन प्रति १६ गद्याणा ग्रासे कृतास्तस्यापरं न किमपि । एकदा विदुरेणोक्तम्-त्वं मेऽधिकं न ददासि, अतः कस्याप्यन्यस्य पार्थे यास्यामि । कृष्णः प्राह-तव प्राप्तिरियती, नाधिकास्तीति । विदुरेणोक्तम्-प्राप्तिरस्ति परं त्वया वारिता । तर्हि
राजान्तरं व्रज-इत्युक्तः । कृष्णेन स प्रहितः । कृष्णेन सर्वेषां भूपतीनां कथापितम्-यद्विदुरस्य १६ गद्याणाधिक 15 न देयम् । स सर्वत्र भ्रान्त्वा समायातः । कृष्णाग्रे बभाषे-मम त्वं काल इव पृष्ठे लग्नः । तवाज्ञयाऽधिकं कोऽपि न
यच्छति । कृष्णः प्राह-तर्हि द्विजरूपं कुरु । अहमपि तव बटुको भविष्यामि । हस्तिकल्पपुरेऽम्बुचीचो नृपतिर्महात्यागी। परं कर्णयोर्न शृणोति । तृषितस्त्वम्बु इति वक्ति, बुभुक्षितश्चीचु इति वदति । तस्य पुरे आवाभ्यां गम्यते। गतौ तत्र । विदुरो भव्यविप्रवेषं चकार, कृष्णस्तु बटुकरूपम् । विदुरेण नृपस्याशीर्दत्ता । नृपेण प्रधानसम्मु
खमालोकितम् । प्रधानरुक्तम्-कलशे करं क्षिप्वा चीरिकाया आकर्षणं कुरु । विदुरेणाधः करं क्षिप्त्वा कृष्टा, 20 विलोकिता। ग० १६ तत्र लिखिताः । बटुकरूपेण कृष्णेनोपरितनी गृहीता। तत्र चीरिकायां कोटिलिखिता । प्रधानैरवादि-अकिश्चित्करोऽयम् । एष च भाग्यवान् । अस्माकं दाने षोडश निकृष्टाः । कोटिः सर्वोत्तमा । ततः प्रत्यावृत्तौ । कृष्णेनोक्तम्(३२१) न विद्या धनलाभाय जनजाड्यसमृद्धये ।
आत्मानमम्बुचीचं च मां च दृष्ट्वा मुखी भव ॥ 25 त्वं विदुरोऽहं कृष्णो नृपस्त्वकिश्चित्करः । इति विमृश्य विदुरः स्वस्थो जातः ।
॥ इति अम्बुचीचप्रवन्धः ॥
1-2 एतद्वाक्यद्वयं P आदर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org