________________
१०७
न्याये यशोवर्मनृपप्रबन्धः। (३२०) नमोऽस्तु हरिभद्राय तस्मै श्रीप्रभसूरये । मदर्थ निर्मिता येन वृत्तिललितविस्तरा ॥ तैः सह प्रववाज । पश्चादुपदेशमालावृत्तिः कृता । पश्चात्सूरिपदमनुपाल्य समाधिना दिवं गतः॥
॥ इति सिद्धर्षिप्रबन्धः॥
५६. शान्तिस्तवप्रबन्धः (P.) ६२३२) कोरण्टके वीरचैत्ये देवचन्द्रनामोपाध्यायः । तत्र श्रीसर्वदेवाचार्या वाराणस्याः सिद्धिक्षेत्रे गन्तुं मनसः । समायाताः। तत्र कियदिनाः स्थिताः । उपाध्यायः पदेऽस्थापि । देवसूरिरिति नाम कृतम् । स्वयं यात्रायां गताः। तत्पट्टे प्रद्योतनसूरयः। ते च विहरन्तो नड्डले गताः । तत्र श्रेष्ठी जिनदत्तः, प्रिया धारिणी, सुतो मानदेवः सूरीणामुपाश्रये गतः । धर्म श्रुत्वा प्रव्रज्यां जग्राह । सर्वसिद्धान्ततत्त्वज्ञो जातः । सूरीश्वरैः पदे स्थापितः । जया-विजयाख्यौ देव्यौ नमतः । अथ तक्षशिलायां पञ्चशतीतीर्थपवित्रितायां महान् रोगो जातः । न कोऽपि कस्यापि वेश्मनि याति । पुरीं शून्यप्रायां वीक्ष्य सङ्ग्रेनाचिन्ति-सर्वेऽप्यधिष्ठायका नष्टाः । इति चिन्तिते शासन-10 देव्या उपदिष्टम् सर्वे व्यन्तरास्तुरुष्कव्यन्तरैरुपद्रुताः । वर्षत्रयानन्तरं तुरुष्कभङ्गो भावी । इति ज्ञात्वा यदुचितं तत्कार्यम् । पुना रोगशान्त्यै उपायोऽस्ति । नड्डलनगरे श्रीमानदेवसूरीणां चरणोदकेन सिञ्चत खमानुपाणिः यथा डामरं नश्यति । एवमुक्त्वा तिरोदथे । तैः सर्वैः सम्भूय वीरदेवनामा श्रावको नड्डुले प्रहितः। स तत्र गतः । नैषेधकी कृत्वा मध्ये गतः। सूरयो ध्यानपरा दृष्टाः । जया-विजयादेव्यौ नमस्कर्तुमागते, उपवरककोणे उपविष्टे । यदा स मध्ये उपवरकं गतस्तदा देव्यौ दृष्ट्वा चमत्कृतः । अहो राजर्षयोऽमी । एतेषां पादोदकात्कथं शान्तिर्भ-15 विष्यति । मयि दृष्टे ध्यानमारब्धम् । सूरिणा ध्यानं मुक्तम् । ततः सावज्ञं वन्दिताः । देव्यौ तच्चित्तं ज्ञात्वाऽदृष्टबन्धनैस्तं बबन्धतुः । स प्रभुणा मोचितः। आगमनकारणे सूरिभिः पृष्टे, श्रावकवीरदेवेनोक्तम्-तक्षशिलासङ्घनोपद्रवरक्षार्थ प्रभुपादमूले प्रेषितः । मम वि[क]ल्पो जातः । जयादेव्या उक्तम्-यत्र भवादृशाश्छिद्रान्वेषिणः श्रावकास्तत्र गुरवो नागमिष्यन्ति । सूरिभिरुक्तम-वयमत्रस्थाः शान्ति करिष्यामः । श्रीशान्तिनाथ-पार्श्वनाथमत्रगर्भ श्री'शान्तिस्तव'मर्पयित्वा प्रहितः । स तस्यां गतः। तस्मिन् पठ्यमाने शान्तिर्जाता । वर्षत्रया नन्तरं] पुरी 20 तुरुष्कर्भमा । अद्यापि भूमिगृहे तस्यां पित्तलानि बिम्बानि सन्ति । ततः प्रभृति एष स्तवः सञ्जातः ।
॥ इति शान्तिस्तवप्रबन्धः ॥
५७. न्याये यशोवर्मनृपप्रबन्धः (B. BR. P.) ६२३३) कल्याणकटके पुरे यशोवर्मनृपतिस्तेन धवलगृहद्वारे न्यायघण्टा बद्धा । एकदा राज्याधिष्ठात्री देवी नृपव्रतपरीक्षार्थ धेनुरूपं कृत्वा वत्सस्य तत्कालजातस्य मार्गे कृत्वा स्थिता । नृपसूनुर्वहिलामारूढस्तत्रायातः । वेगेन 25 वहिला वत्सचरणयोरुपरि भूत्वा गता । वत्सस्तु मृतः । धेनुः कोकूयते, अश्रूणि मुञ्चति । केनाप्युक्तम्-राजद्वारे गत्वा न्यायं याचख । सा गता। तया शृङ्गाग्रेण घण्टा चालिता । नृपस्तु भोजनायोपविष्टः । शब्दं श्रुत्वा बभाषे-रे! कोऽयं घण्टां चालयति । सेवकैर्विलोक्योक्तम्-देव! कोऽपि न, भुज्यताम् । नृपः प्राह-निर्णयं लब्ध्वा भोक्ष्ये । नृपः स्थालं त्यक्त्वा प्रतोल्यां स्वयमायातः । कमप्यदृष्ट्वा धेनुं प्राह-केन पराभूतासि । तं मम दर्शय । साग्रे भूता, नृपः पृष्ठौ लग्नः । तया वत्सो दर्शितः। नृपेणोक्तम्-केनेयं वाहिनी वाहिता ? । स पुरो भवतु 130
1 B वाहिन्यधिरूढः। 2 B वाहिनी। 3 B याता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org