Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 182
________________ परिशिष्टम्. १. प्रबन्धचिन्तामणिगुम्फित कतिपयप्रबन्धसंक्षेपः । १२७ (३००) सान्तु राजपा० स्वकारितप्रासादे वाराङ्गनास्कन्धन्यस्तहस्तं कमपि चैत्यवासिनं ददर्श । देवान् चन्दित्वा स नतः । स लज्जितः श्रीमलधारहेमान्ते प्रव्रज्य संवेगात् श्रीशत्रुञ्जये १२ वर्ष तपस्तेपे । (४०५) रे रे चित्त कथं भ्रातः प्रधावसि पिशाचवत् । अभिदं पश्य चात्मानं रागत्यागात्सुखी भव ॥ (४०६) संसारमृगतृष्णासु मनो धावसि किं सुधा । सुधामयमिदं ब्रह्मसरः किं नावगाहसे ॥ देववन्दनाय तत्र गतः श्रीसान्तूस्तं प्रेक्ष्य विस्मयः । सः - (४०७) जो जेण सुद्धधम्मंमि ठाविओ संजएण गिहिणा वा । सो चेव तरस जायइ धम्मगुरू धम्मदाणाओ ॥ || लज्जाप्रबन्धः ॥ 1000000 ३०१) जित ८४ वादः कुमुदचन्द्रः श्रीदेवसूरिशिष्यरत्नप्रभः प्रदोषे गुप्तवेषो रात्रौ कु० मठे । तेन कस्त्वमित्युक्ते । अहं देवः । को देवः । अहम् । अहं कस्त्वं श्वा । श्वाकः । त्वम् | त्वं कः । अहं देवः । इति 10 चक्रभ्रमदोषात् । (४०८) हंहो श्वेतपटाः किमेष कपटाटोपोक्तिसण्टङ्कितैः संसारावटकोट रेऽतिविकटे मुग्धो जनः पात्यते । तत्त्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमवियुगलं रात्रिंदिवं ध्यायत ॥ (४०९) कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यंहिणा कः कुन्तेन सितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ (४१०) खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः । इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गीचरं तस्मिन् भ्रमरायते नरपते ! वाचस्ततो मुद्रिता ॥ Jain Education International श्रीसिद्ध राजसभावादावसरे कुमुदः श्रीहेमचन्द्रं प्रति । पीतं तक्रम् । श्वेतं तक्रम्, पीता हरिद्रा । युवयोः को 20 वादी ? | श्रीदेवसूरिभिरयं बालः । अनेन को वादः । त्वमेव वालो योऽद्यापि कटीद० वस्त्रं न धत्ते । (४११) नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फातिमनोहरं नयपथप्रस्तार भङ्गीगृहम् । यस्मिन् केवलिन विनिर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तजिनशासनं च भवतश्चौलुक्य ! जीयाच्चिरम् ॥ 5 For Private & Personal Use Only 15 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220