Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 190
________________ १३५ पातसाहिनामावलिः। (G.) सज्ज्ञकसङ्ग्रहस्यान्ते पातसाहिनामावलिः । (१) सं० १२६३ वर्षे पातसाहि साहबदीनेन गजणपुरात्समागत्य पृथ्वीराजं लाहउरमून्धउरयोरन्तराले निहत्य ढिल्ली गृहीता । वर्ष ३ राज्यं कृतम् । (२) ततः सं० १२६६ वर्षे मार्गमासे सुरत्राणसमसदीनो दाउदपुरात् ढियां समागतः। वर्ष २६ राज्यं कृतम् । (३) ततः संवत् १२९२ वर्षे श्रावणशुदि २ द्वितीयायां कटकादागत्य कूटं कृत्वा पूर्वसुरत्राणं हत्वा पातसाहि 5 पेरोजः समजनि । मास ६ राज्यं कृतम् । पश्चादाखेटके गतो यमुनातटे कयलोपरीग्रामे मारितः। (४) ततस्तत्पुत्री दउलती। दिनपञ्चकं यावद्राज्यं कृतम् । पश्चात्सा मुख्यैर्लम्पटत्वेन मलिका नाम्नी व्यापादिता। (५) ततः परं वर्ष ३ मास ६ शून्यं जातम् । तदा मलिककूबडीपुत्र मोजदीन मलिको ढिल्ल्यां समभूत् । सं० १२९६ वर्षे राज्यं वर्षद्वयं यावत्कृतम् । स नानामलिकभेदेन मृतः। (६) ततः पातसाहि पेरोजपुत्रः अलावदीनो नानामलिकेन राज्ये स्थापितः । वर्ष ३ राज्यं कृतम् । 10 (७) ततः सं० १३०१ वर्षे आसाढमासे पूर्वस्यां दिशि वहडाइचनगरान्मलिक समसदीनः समागतः । तेन दिल्यां वर्ष २१ राज्यं कृतम् । (८) ततः सं० १३२२ वर्षे फाल्गुनमासे त्रयोदश्यां शुक्रवारे नसरदीनसाहिना राज्यं कृतम् । वर्ष एकं यावत् । (९) ततः सं० १३२३ वर्षे चैत्रवदि २ द्वितीयायां ग्यासदीनो राजा जातः । वर्ष २० राज्यं कृतम् । (१०) सं० १३४३ वर्षे चैत्रमासे कोकामलिकभेदेन मोजदीन पातसाहिर्जातः । वर्ष ३ मास ३ राज्यं जातम् । 15 (११) सं० १३४६ वर्षे फाल्गुनशुदि ६ षष्ट्यां खलचीवंशीय मलिकजलालदीनेन राज्यं कृतम् । वर्ष ६ मास ९। स यमुनातीरे पंभराग्रामसमीपे मलिक अलावदीनेन मारितः। (१२) ततः जलालदीनपुत्रो रुक्मदीनो राज्यधरो बभूव । मास ३ राज्यं कृतम् । (१३) सं० १३५२ वर्षे सुरत्राणः अलावदीनो जातः । वर्ष [२१] राज्यं कृतम् । (१४) सं० १३७३ वर्षे माघशुदि ११ दिने पातसाहि अलावदीनपुत्रः सहावदीनः पातसाहिर्जातः । मास २॥० 20 राज्यं चकार । (१५) ततः सं० १३७३ वैशाखशुदि ३ दिने सुरत्राण अलावदीनपुत्रः कदुबदीनः पातसाहिर्जातः । वर्ष ५ राज्यं कृतम् । (१६) ततः सं० १३७८ वर्षे ज्येष्ठशुदि २ दिने कदुवदीन [पुत्रः] पोसरुषानु पातसाहि नसरदीनो राज्यधरः। मास ४ राज्यं कृतम् । (१७) सं० १३७८ वर्षे भाद्रपद शुदि २ द्वितीयायां देपालपुरस्थानात् तुगलकगा.........तो ढिल्ल्यां नसरदीनं हत्वा ग्यासदीन पातसाहिर्जातः । वर्ष ४ राज्यं कृतम् । लषणावती नगरात्समागतः सुरत्राणः पुत्रेण महमूंदेन तुगलाबाद.........मध्ये कूटयत्रप्रयोगेण मारितः। (१८) ततः सं० १३८० वर्षे आषाढशुदि २ द्वितीयायां महमूदपातसाहिर्जातः। वर्ष २७ राज्यं कृतम् । बालराजा जात......। (१९) ततः संवत् १४०७ वर्षे श्रीपातसाहि पेरोजनामाजनि । . 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220