________________
१३५
पातसाहिनामावलिः। (G.) सज्ज्ञकसङ्ग्रहस्यान्ते पातसाहिनामावलिः । (१) सं० १२६३ वर्षे पातसाहि साहबदीनेन गजणपुरात्समागत्य पृथ्वीराजं लाहउरमून्धउरयोरन्तराले
निहत्य ढिल्ली गृहीता । वर्ष ३ राज्यं कृतम् । (२) ततः सं० १२६६ वर्षे मार्गमासे सुरत्राणसमसदीनो दाउदपुरात् ढियां समागतः। वर्ष २६ राज्यं कृतम् । (३) ततः संवत् १२९२ वर्षे श्रावणशुदि २ द्वितीयायां कटकादागत्य कूटं कृत्वा पूर्वसुरत्राणं हत्वा पातसाहि 5
पेरोजः समजनि । मास ६ राज्यं कृतम् । पश्चादाखेटके गतो यमुनातटे कयलोपरीग्रामे मारितः। (४) ततस्तत्पुत्री दउलती। दिनपञ्चकं यावद्राज्यं कृतम् । पश्चात्सा मुख्यैर्लम्पटत्वेन मलिका नाम्नी व्यापादिता। (५) ततः परं वर्ष ३ मास ६ शून्यं जातम् । तदा मलिककूबडीपुत्र मोजदीन मलिको ढिल्ल्यां समभूत् ।
सं० १२९६ वर्षे राज्यं वर्षद्वयं यावत्कृतम् । स नानामलिकभेदेन मृतः। (६) ततः पातसाहि पेरोजपुत्रः अलावदीनो नानामलिकेन राज्ये स्थापितः । वर्ष ३ राज्यं कृतम् । 10 (७) ततः सं० १३०१ वर्षे आसाढमासे पूर्वस्यां दिशि वहडाइचनगरान्मलिक समसदीनः समागतः । तेन
दिल्यां वर्ष २१ राज्यं कृतम् । (८) ततः सं० १३२२ वर्षे फाल्गुनमासे त्रयोदश्यां शुक्रवारे नसरदीनसाहिना राज्यं कृतम् । वर्ष एकं यावत् । (९) ततः सं० १३२३ वर्षे चैत्रवदि २ द्वितीयायां ग्यासदीनो राजा जातः । वर्ष २० राज्यं कृतम् । (१०) सं० १३४३ वर्षे चैत्रमासे कोकामलिकभेदेन मोजदीन पातसाहिर्जातः । वर्ष ३ मास ३ राज्यं जातम् । 15 (११) सं० १३४६ वर्षे फाल्गुनशुदि ६ षष्ट्यां खलचीवंशीय मलिकजलालदीनेन राज्यं कृतम् । वर्ष ६ मास
९। स यमुनातीरे पंभराग्रामसमीपे मलिक अलावदीनेन मारितः। (१२) ततः जलालदीनपुत्रो रुक्मदीनो राज्यधरो बभूव । मास ३ राज्यं कृतम् । (१३) सं० १३५२ वर्षे सुरत्राणः अलावदीनो जातः । वर्ष [२१] राज्यं कृतम् । (१४) सं० १३७३ वर्षे माघशुदि ११ दिने पातसाहि अलावदीनपुत्रः सहावदीनः पातसाहिर्जातः । मास २॥० 20
राज्यं चकार । (१५) ततः सं० १३७३ वैशाखशुदि ३ दिने सुरत्राण अलावदीनपुत्रः कदुबदीनः पातसाहिर्जातः । वर्ष ५
राज्यं कृतम् । (१६) ततः सं० १३७८ वर्षे ज्येष्ठशुदि २ दिने कदुवदीन [पुत्रः] पोसरुषानु पातसाहि नसरदीनो राज्यधरः।
मास ४ राज्यं कृतम् । (१७) सं० १३७८ वर्षे भाद्रपद शुदि २ द्वितीयायां देपालपुरस्थानात् तुगलकगा.........तो ढिल्ल्यां
नसरदीनं हत्वा ग्यासदीन पातसाहिर्जातः । वर्ष ४ राज्यं कृतम् । लषणावती नगरात्समागतः
सुरत्राणः पुत्रेण महमूंदेन तुगलाबाद.........मध्ये कूटयत्रप्रयोगेण मारितः। (१८) ततः सं० १३८० वर्षे आषाढशुदि २ द्वितीयायां महमूदपातसाहिर्जातः। वर्ष २७ राज्यं कृतम् ।
बालराजा जात......। (१९) ततः संवत् १४०७ वर्षे श्रीपातसाहि पेरोजनामाजनि ।
.
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org