Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 186
________________ परिशिष्टम्. १. प्रबन्धचिन्तामणिगुम्फितकतिपयप्रबन्धसंक्षेपः । (४२६) देशं खमपि मुश्चन्ति मानम्लाने महाशयाः। दिवावसाने व्रजति द्वीपान्तरमहर्मणिः॥ धारायां गतः। पुस्तकग्रहणकार्पणपूर्व श्रीभोजात्कियद् द्रव्यमानेयमित्युक्ता भार्या गतोपलक्षिता नृपेण । विषादः । पुस्तकाद्यपत्रे काव्यम्(४२६) कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिल लितानां ही विचित्रो विपाकः ॥ अस्यैव काव्यस्य सर्वो-मूल्यम् । परं लक्षं १, सा मार्गे याचकैः । नाक्षराणि-प्रस्मृतः किमथवा० ॥ गृहागता पत्या प्रशंसिता । अन्यदा भिक्षा०-अर्था न सन्ति न च मुं० ॥ (४२७) दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यति ॥ व्रजत व्रजत प्राणाः ॥ ततो मृतः । नृपेण तजातेभिल्लमाल इति ॥ पण्डितमाघप्रबन्धः॥ 5 ६३१३) डाहलदेशे देमतराज्ञी महायोगिनी गणकवचसोनम्भितगर्भा १६ यामान् यावत् श्रीकर्णजन्म । 10 अष्टमयामे सापि मृता । मुखे हारावाप्तिर्नयन० ॥ श्रीकर्णप्रबन्धः ॥ 15 ६३१४) श्रीसिद्धराजोपरोधेन श्रीहेमव्याकरणं १ वर्षेण सम्पूर्णम् । (४२८) भ्रातः पाणिनि ! संवृणु प्रलपितं कातन्त्रकन्था वृथा ___मा कर्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् । कः कण्ठाभरणादिभिर्वठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः॥ ___६३१५) मालवान्महास्थाने श्रीसिद्धराजा जैनप्रा० धजं प्रेक्ष्य कुपितः। विप्राः-देव अयं ध्वजारोपः पुरापि । यतो नगरपुराणे(४२९) पञ्चाशदादौ किल मूलभूमेर्दशोर्द्धभूमेरपि विस्तरोऽस्य । उच्चैस्त्वमष्टैव तु योजनानि मानं वदन्तीति जिनेश्वराद्रेः॥ ततो जैनप्रा० ध्वजाः। ६३१६) डाहलदेशीयनृपसमस्यागता । 'आयुक्तः प्राणदो लोके ।' पूरिता श्रीप्रभुभिः । ६३१७) जाम्बान्वयिश्रीसजनदण्डेशेनोद्ग्राहितवर्षत्रयसुराष्ट्राद्रव्येण काष्ठप्रासादमपनीय श्रीनेमिप्रासादोद्धारः। चतुर्थवर्षे आनायिते सजने नृपेण द्रव्ये मार्यमाणे तत्रत्यागतव्यवहारिभिर्दीयमाने । द्रव्यं पुण्यं वावधारयतु खामीत्युक्ते सजने राजा पुण्यमग्राहीत् । ततः पुनरप्यधिकारः। तीर्थद्वये योजन १२ ध्वजा दत्ता। 30 १ टिप्पण्याम्-अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान सङ्कुचति दुर्ललितः करो मे । ___ याजा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं परिदेवितेन ॥ क्षुरक्षामः पथिको मदीयभवनं पृच्छन् कुतोऽप्यागतस्ततिक गेहिनि किंचिदस्ति यदयं भुक्ने क्षुधापीडितः । वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूलविलोललोचनगलवाष्पाम्भसा बिन्दुभिः ॥ श्रीमालेषु धनवत्सु सत्सु क्षुधाविनष्टे पुरुषरते भिल्लमा० । २ टिप्पणी-दण्ड-मुण्ड-डम्भनानि सोमेश्वरे दृष्टा सिदेशस्य गिरिनारे हर्षः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220