Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown
________________
5 ९३१०) प्रतिष्ठाने श्रीशातवाहनो राजपा० आसन्ननद्यां झपहासे ज्ञानसागरसाधुना त्वं पूर्वं काष्ठवाहको नित्यं सक्तीमनम् । अन्यदा मासोपवासिनं मुनिं प्रेक्ष्य पूर्वभवे कस्यापि न दत्तम् । यतः(४२१) रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त ! खेदमुपयासि कथं वृथा त्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ तद्दानात्त्वं श्रीशातवाहनः । देवग्रस्तझषेण ह० ।
10
१३०
पुरातनप्रबन्धसङ्ग्रहे
९३०९) कश्चित्कार्प ० श्रीसोमेश्वरयात्रायां यान् पथि लोहकारौकसि निशि भार्यया स्वपतिं छुर्या हत्वा कार्यटिकशी छुरी मुक्ता बुम्बापातः । तलारकैस्तस्य करौ छिन्नौ । तेन दैवोपालम्भे निशि श्रीसोमेशः पूर्वं एकेनाजा कर्णयोर्धृता परेण मारिता । ततः साऽजेयं नारी, येन मारिता स पतिः । त्वया कर्णौ धृतौ । तवागमे उल्लसितकोपे त्वत्करौ तौ । ततो मे उपालम्भः कथमिति । कृपाप्रबन्धः ॥
15
(४२३) दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् ॥ (४२४) पूर्वपुण्यविभवव्ययबद्धाः सम्पदो विपद एव विमृष्टाः । पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥
ततः प्रभृति पात्रदानादि || श्रीशातवाहनपात्रदानप्रबन्धः ॥
९३११) खेडमहास्थाने देवादित्यसुता रूपवती बालविधवार्कसन्मुखावलोके तेनैव भुक्ता, गर्भे, वने मुक्ता । पुत्रजन्म । साष्टाब्दः । लेखशालिकपराभूतो मातृपार्श्वे पितृनामानवगम्य मर्तुकामोऽर्केण करे कर्करोऽर्पितः । साप20 राधे शिलान्यथा तवैव शिलेत्युक्तः । ततः स शिलादित्यः । तत्पुरनृपेण परीक्षायै तथा कृते मृते राज्ञि स एव राजा; अर्कदत्ताश्वारूढो नभश्वर इवेच्छाविहारी महाप्रतापी जैनमुनिवासितः श्रीशत्रुञ्जयोद्धारकः। कदाचित्सौगतैः श्वेताम्बरपराभवे श्रीशत्रु अधिष्ठितम् । तद्भागिनेयो मल्लनामा क्षुल्लः । वेषपरावर्तेन बौद्धपार्श्वे पठन् निशीथे खे यान्त्या भारत्योक्तः के मिष्टाः । वल्लाः । पुनः षण्मासान्ते निश्येव केन सह । घृतगुडाभ्यामित्युक्ते तुष्टायां भारत्यां जिताः सौगता निःकाशिता देशात् शिलादित्ये सभापतौ । तत आचार्यपदं श्रीमल्लवादिसूरिः ।। मल्लवादिप्रबन्धः ।
25
(४२२) मीनानने प्रहसिते भयभीतमाह श्रीशातवाहनमृषिर्भवतात्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद्भवन्तमुपलक्ष्य झषो जहास ॥ जातस्मृतिः । अहोदानम् । यतः
९३१२) श्रीमालपुरे माघपण्डितः । पित्राऽपि [ टि० - कुमुदपण्डितेन ] स्वपुत्रापन्निराकरणाय वर्षशतदिन - मितनाणकहारकान् दत्त्वा भोगायानेकशो दत्त्वा च विपेदे । तद्दिदृक्षयांगतश्रीभोजं सबलं रञ्जयामास । मरकतबद्धा भूमिर्दिव्या । काचबद्धा सञ्चारकभूः । दैवज्ञोक्तप्रान्ते पादे श्वयथुः । पुण्यक्षये देशमोचः । यतः
1
१ टिप्पण्यां-भोजान्ते भोजनम् । शीतत प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्रौ स्तोकान्नं स्निग्धम् * । प्रतलमाच्छादनम् । शुषिरत्रम्बकस्तम्भान्तः प्रविष्टाभितापेन न शीतार्तो राजा ।
* टिप्पण्या उपरि टिप्पणी-५०० गवां दुग्धं २५० पानं यावत् ४ गावः । तापिते तस्मिन् कण्डारकेण शालिर्विधीयते पाके शर्करादिना संस्कृते स्तोके परिवेषिते राजा तृप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220