Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 167
________________ ११२ 10 तस्य समीपे देवदत्त उपविष्टः । कर्णवारा कथिता । व्यवहारिणश्चत्वारोऽप्याकारिताः । पृथक् पृथगुपवेशिताः । तेषां समीपे पृ०, तैः क० - वयं साक्षीकृत्य तस्य प्रियायोग्यं समर्पितानि । भव्यम् । तेन खबुद्ध्या पडसूधीलोअको 5 विभज्य चतुर्णां समर्पितः। कथितं च- यावन्मात्राणि सन्ति तावन्मात्राणि कुर्वन्तु । चत्वार्यपि रत्नानि तैः कूटसाक्षिभिरन्यादृशानि २ कृतानि । तेन कर्णवारीपुत्रेण कथितम् - भोः वणिक्पुत्र ! रत्नानि सकालेऽपि समर्पय, मा राजग्राज्यो (ह्यो) भव । एते कूटसाक्षिणश्च राजग्राह्या भविष्यन्ति । ततस्तेन श्रेष्ठियोग्यानि रत्नानि समर्पितानि । पादयोश्च पतितः । कर्णवारीपुत्रस्य पदं जातम् । अतः सत्यां कर्णवारां कुर्वतां द्रव्यप्राप्तिर्यशच इह लोके परलोकेsपि । श्रेष्ठ्यपि रत्नानां सौख्यं विलसित्वा स्वर्गभाग्जातः । ॥ इति कर्णवाराविषयकप्रबन्धः ॥ पुरातनप्रबन्धसङ्ग्रहे (३२७) सिंहशिशुरपि निपतति मदकुलझङ्कारभूषिते करिणि । न पुनर्नखमुखविलषि (लिखितभूतलकुहरस्थिते नकुले ॥ (d) सङ्ग्रहगता अवशिष्टाः प्रबन्धाः । $ २४०) श्रीवाक्पतिराजकविना भारतं कर्तुं प्रारब्धम् । तावता निशि द्वैपायनः समागतः । तेनोक्तम्- किमर्थं पादमवधारिताः । तेनोक्तम् - तव पार्श्वे याचितुम् । किम् ? यत् त्वं भारतं मा कृथाः । पुस्तकमर्पय । तेन तथाकृतम् । गीर्वाणवाण्यपि निषिद्धा । ततो गौडवधनामा प्राकृतग्रन्थो विहितः । 15 ६ २४१) श्रीसारंगदेवप्रधानो राज्ञा रामदेवेन पृष्टो निजस्वामिनः कीर्तिस्फूर्ति अवादीत् । राज्ञोक्तम्- सर्वं भव्यम्, परं पानं करोति । पानकः शशाङ्ककलङ्कः । तेनोक्तम् - देव ! सत्यम्, परं मातृ-भगिनीं जानाति । रामदेवस्य पितृव्यसुता लुखाईराणी अन्तःपुरेऽस्ति । इति श्रुत्वा लज्जितः । ६२४२) अथ अभयदेवनामा द्विजः प्रभासे सरस्वत्यां स्नानं विधाय समागत्य च श्रीसोमेश्वरं नमस्कृतः । तद्धर्मशिलायाः पुरः शफरी जीवन्ती पतिता तस्यैव शरीरे लग्ना मृता च । तेन सानुकम्पेन प्रायश्चित्तं पृष्टम् । 20 केनापीति गदितम् - सुवर्णरूपमयी दीयते शफरी । तेन न मानितम् । ततः सर्वत्र प्रायश्चित्तहेतोर्भ्रमन् श्रीस्तम्भतीर्थे गुरुर्जीववधमांसभक्षणप्रायश्चित्तं सिद्धान्ते वाचयन्नभूत् । तेन श्रुतम् । यद्यस्य जीवस्य यावन्तीन्द्रियाणि भवन्ति, तद्वधे तावन्मितशतोपवासा विधीयन्ते । तन्मानितम् । ततो दीक्षात्ता | श्रीअभयदेवसूरयो जाताः । (२४३) कुम्भीपुरे यशोधनो व्यवहारी । तस्य पुत्रो विद्यानन्दो विस्तरेण परिणीतः । दीपालिकायामागता वधूः । तेनोक्तम्- कथा कथ्यतामिति । तया लज्जया नोक्तम् । सा मुक्ता । ततः पित्राऽपरां परिणायितः । पूर्व25 वदुक्ते सापि मुक्ता । पुनः पित्रा दूरं गत्वा कन्यां याचयित्वा परिणायितः । तया पृष्टया कथितम् - कीदृशीं कथां कथयामि ? अनुभूतां श्रुतां वा, दृष्टां वा । तेनोक्तमनुभूताम् । एवमुक्ते तया मन्दं २ द्रव्यं पितृगृहे प्रविष्टं कृतम् । एकदा निशि गृहं ज्वालितम् । तदनु निर्धनतयात्मचतुर्थकुटुम्बं निःसृतम् । कस्मिन्नपि नगरपाद्रे संम्बलमिषेण पिता गतः, मातापि गता, सोऽपि तां विहाय गतः । सा तु द्रव्यबलेन राजकुमारवेषं विधायावलगां जग्राह । तस्य पिता महिषवित्तोऽजनि । माता मासोपवासिन्यजनि । स कोरिको जातः । त्रयमपि तया संगृहीतम् । वर्षान्ते 30 तमाकार्य कथितम् । अद्यापि कथां कथयामि नो वा । जातम् । एवं पुनः व्यवहारी जातः विहितो भार्यया । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220