Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 166
________________ कर्णवाराविषये उदाहरणम् । ६२. दानविषये उदाहरणम् । (३२४) पश्चादत्तं परैर्दत्तं लभ्यते वा न वा खलु । खहस्तेनैव यद्दत्तं तद्दत्तमुपतिष्ठति ॥ (३२५) सद्यस्तृप्यति भोक्तारं यस्योद्देशेन दीयते । सत्यं वदामि कौन्तेय! यो ददाति स भुञ्जते ॥ ६२३८) कयाचित्प्रोषितभर्तृकया पत्यागमनकारणं विलोकयन्त्या दिना घनतरा गताः। भर्तुः पार्थात्पश्चादेको जनस्तस्याः समाचारदर्शनार्थं समायातः । सा अन्यासक्ता दृष्टा । तया चिन्तितम्-अहमनेन ज्ञाता । स पुनरपि भारं प्रति चलनाय लग्नः। तस्य चलतो द्वौ मोदको समर्पितौ सम्बलार्थम् । एको विषमिश्रितो द्वितीयो न । यथेष विषमिश्रितमोदकभक्षणेन विनश्य भर्तुरग्रे गृहस्वरूपं न कथयति । स चलितः । तस्यैव ग्रामगोन्द्रके निर्विण्णो भर्ता तस्या उपविष्टो दृष्टः । क्षुधाऽऽक्रान्तः । तत्र द्वौ जनावुपविष्टौ । तेनैको मोदकस्तस्या भर्तृयोग्यं 10 दत्तः। एकस्तेन भक्षितः । विषमिश्रितमोदकभक्षणेन लहरितः । मूच्छां प्राप्तः । तावता दण्डपाशिकैर्धतः ससखा । लोको मिलितः । तस्योपद्रोतुं लमः । मारणार्थ नीतो जनः । भार्यायाः शुद्धिर्जाता । मोदकभक्षणेन दूरदेशादायातो मम भर्ता विनष्टः । स जनो मारणार्थं नीतोऽस्ति । तया चिन्तितम्-मम विरूपदानतस्तात्कालिकं फलं जातम् । अहमेनं जनं मुंश्चापयामि । तया तत्र गत्वा कथितः-यादृशं दानं दत्तम् , तस्य तात्कालिकं फलं दृष्टं तादृशम् । जनो मुश्चापितः । लोकानामग्रे कथितम्-यादृशं दीयते तादृशं प्रत्यक्षं दृश्यते; यादृग् दत्तं 15 तादृग् लब्धम् । तस्याः सत्यकथनेन विषं जपित्वोत्तारितम् । स निरामयो जातः । तदनन्तरं सा तस्य विषये एकचित्ता गृहस्थधर्म पालयति । यादृग्दीयतेऽन्यस तादृक् प्रत्यक्षं दृश्यते इति भावः ।। (३२६) अपलपति रहसि दत्तं प्रत्ययदत्तेन संशयं कुरुते । तस्य हि नश्यति सर्व मूलतस्तानिशम्यैताम् ॥ ६३. कर्णवाराविषये उदाहरणम् । ६२३९) देवदत्तेन व्यवहारिणा प्रवहणगतेन एकस्यात्मीयवणिकपुत्रस्य हस्ते चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । तेन वणिक्पुत्रेण चतुर्गामधू(कू)टजनानां लञ्चां दत्त्वा साक्षिणः कृताः । यदा देवदत्तः समायाति तदा युष्माभिरिति कथनीयम्-वयं साक्षिणः कृत्वा, तव कलत्रयोग्यानि चत्वारि रत्नानि प्रदत्तानि । कियद्भिर्दिनैः प्रवहणे समायाते देवदत्तः कुशलेनागतः । कलत्रपार्श्वे पृष्टम्-मया तव योग्यानि चत्वारि रत्नानि प्रहितानि, आनय तानि, प्रविलोक्यन्ते रत्नपरीक्षकाणां दर्श्यते । तया कथितम्-मम योग्यं केनचिन्न समर्पितानि 125 वणिक्पुत्रः पृष्टः । तेन कथितम्-मया चतुरो नगरमध्यस्थान् व्यवहारिणः साक्षिणः कृत्वा तव प्रियायोग्यानि समर्पितानि । तैरपि कथितम्-तव प्रियायोग्यानि समर्पितानि वयं साक्षीकृत्य निश्चयेनासिन्नर्थे न सन्देहः । तेन चिन्तितम्-अहमनेन वणिक्पुत्रेण साक्षिभिश्च [मुषितः] कोऽपि नगरमध्ये न यो न्यायान्यायं विलोकयति । कर्णवारां सत्यां कुरुते । केनचिजनेन कथितम्-कर्णवारी मृतः । पुनस्तस्य लघुपुत्रो विद्यते एकः । देवदत्तस्तस्य गेहे गतः। पुत्रस्य मात्रा स आवर्जितः। तया कथितम्-किमर्थं समायातः। कर्णवारां प्रच्छनाय । 30 तया कथितम्-अरे वत्स! तव पिता नगरमध्यस्थां समग्रां कर्णवारां कुर्वन् लोकानां मध्याहुतरं द्रव्यं समानयत् । त्वं किमपि न कुरुषे । अन्यत्त्वां लघु भणित्वा कोऽपि न मन्यते । मातरहमपि तस्य पुत्रो भवामि । समग्रं निर्णयं करिष्ये । यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220