Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown
________________
15
पुरातनप्रबन्धसङ्ग्रन्हे द्यूतकाराः प्रातः शिरो ग्रहीष्यन्ति । अतो दीक्षा स्तोककालमप्यस्तु । गुरुभिर्नक्षत्राण्यवलोक्य प्रभावकं मत्वा दीक्षितः। प्रातः श्राद्धास्तं दृष्ट्वा गुरूनूचुः-प्रभोऽद्य कल्ये परिवारः किं स्तोकोऽस्ति, यदस्य घटानुकारिमाणि. क्यस्य दीक्षा दत्ता ? । भवतु यादृशस्तादृशो वा । इत उपवेशने स्वाध्यायपुस्तिकां दृष्ट्वा 'उपदेशमाला'मादिमध्यावसानां विलोक्य पाठं ददौ । गुरुभिश्चिन्तितमहोप्रज्ञाऽस्य । इतो द्यूतकाराः समायाताः। भो ! बहिरेहि । किं 5 पाखण्डेन छुट्यसे । श्रावकैरुक्तम्-किं देयम् । पञ्चशती द्रम्माणाम् । वयं दास्यामः । कस्यापि कारणे दीनोऽसौ मुच्यते । पुनरमाकं पार्श्वे समेष्यति । श्रावकैरुक्तम्-यासति ततो यातु । द्यूतकारैरुक्तम्-तर्हि असाभिर्मुक्तः । ते गताः । स सिद्धान्तमधीतवान् , प्रमाणग्रन्थाश्च । सिद्धेनोक्तम्-भगवन् ! बौद्धा महावादिनः श्रूयन्ते । तत्र गत्वा तानिर्जित्य समेष्यामि । गुरुभिरुक्तम्-जैनानामेष धर्मो न यत् कस्यापि सम्मुखं गम्यते । य उपविष्टानां समभ्येति सोऽभ्येतु । सनिबन्धात् व्रजन सूरिभिरुक्तः यदि तत्र गतः परावर्त्य से तैस्तदा वयं मुत्कलापनीयाः। 10 इदं किमादिष्टम् ? । बौद्धानां देशे गतः। तेषां खरूपं दृष्टम् । (३१७) मृद्वी शय्या प्रातरुत्थाय पेया मध्ये भुक्तं पानकं चापराहे ।
द्राक्षाखण्डं शर्करां चार्धरात्रौ मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥ एवंविधानाशीर्वादांश्च शुश्राव(३१८) ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पच्यानइशारानरचनमिमं त्रातापिनो रक्षसि। मिथ्या कारुणिकोऽसि निर्गुणतरस्त्वत्तः कुतोऽन्यः पुमान्
सेयं मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः॥ (३१९) आत्मा नास्ति पुनर्भवोऽस्ति सततं कर्मास्ति कर्ता विना
गन्ता नास्ति शिवाय चास्ति गमनं बुद्धोऽस्ति बद्धो न च । इत्येवं गहनेऽपि यस्य न मुनेाहन्यते शासनं
खद्योतैरिव भास्करस्य किरणा बुद्धो जिनः पातु वः॥ तथा 'शुष्का शष्कुली भक्षयतो भगवतो बौद्धस्य पञ्चज्ञानानि समुत्पन्नानि' इत्यादि श्रुत्वा बौद्धाचार्य जगौयदहं जैनः, परं त्वदर्शनमादरिष्यामि । तैर्दृष्टै पाय निवेदितः-यदसौ जैनः स्वदीक्षा ग्रहीष्यति । नृपेण गौरवं
कृतम् । दुकूलानि परिधापितः, अलंकृतश्चाभरणैः । प्रातलेग्नं बौद्धदीक्षायाः। रात्रौ तेन गुरूणां वचः स्मृतम् । 25 प्रातः पणबन्धं तेषां निवेद्य चलितः। श्रीमाले श्रीजिनसिंहसूरीणां पार्श्वे प्राप्तः । आचार्य ! मुत्कलाप्यसे; मया
तेषां शासनं तत्वभूतमवगतम् । गुरुभिरुक्तम्-किञ्चिदसानपि ज्ञापय । तेनोक्तम् । गुरुभिः प्रत्युत्तरे दत्ते आहभगवन् ! नैतद्वचोऽहं ज्ञापितः । अनेन वचसा तान् निर्जित्य समेष्यामि । गुरुभिः पूर्वबद्धं कृत्वा प्रेषितः । तत्र तैः परावर्तितः। पुनर्गुरुसमीपे आयातः। तैस्तु बोधितः । एवं सप्तवेला एहिरे-याहिरांचके । अष्टमवेलायां बौद्धेरुक्तमिहैव तिष्ठ तत्र वा । तेनोक्तम्-चतुरो वादिनो मया सह प्रेषयत । तानादाय श्रीमाले पौषधागारे 30 आयातः । उक्तं द्वारस्थेन-आचार्य! मुत्कलाप्यसे । तैरुक्तम्-मध्ये आगच्छ । मध्ये आयातः । नतिं विनाप्युपविष्टः । गुरवो 'ललितविस्तरा'वृत्तेः पुस्तकमुपवेशने विमुच्य स्वयं तनुगमनिकायां चलिताः । तेन सोल्लुण्ठमभिहितम्-एभिबौद्धाचाराक्रान्तानां तनुगमनिका सुलभा एव । सूरयो गताः । स पुस्तिकां वाचयितुं प्रवृत्तः। 'सिवमयल'इत्यालापवृत्तिमनुचिन्त्य बौद्धः सह वादं कृत्वा गुरुप्वनागच्छत्सु तानिरुत्तरीचक्रे । गुरुष्वागतेषु, अभ्युत्थानं कृतम् । गुरवो विज्ञप्ता: एकोऽहमामं आत्मपञ्चमो भूत्वा समागमम् । उक्तं तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220