Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 160
________________ सिद्धर्षिप्रबन्धः। १०५ ६२३०) एकदिा] सूरीणां भागिनेयौ व्रतं जगृहतुः । सूरिभिः प्रमाणान्यध्यापितौ । ताभ्यां बौद्धानां प्रमाणानि दुरवबोधानि श्रुतानि । गुरव उक्ताः-भगवन् ! भवतामादेशेन बौद्धदेशे गत्वा तेषां प्रमाणान्यधीत्य जैनाभिप्रायेण कृत्वा यास्यावः । गुरुभिर्वारितावपि निर्बन्धं कृत्वा चेलतुः । बौद्धदेशे गतौ । तत्राव्यक्तवेषौ विद्यामठे पठितुं प्रवृत्ती । स्वस्थाने समेतौ ग्रन्थपरावर्तने प्रवृत्तौ । बौद्धाधिष्ठाच्या तारादेव्या वायुयोगात् पत्रमुडाप्य लेखशालायां क्षिप्तम् । 'नमो जिनाय' इति दृष्ट्वा छात्रैरुपाध्यायस्य दर्शितम् । तेनोक्तम्-कोऽपि जैनश्छन्न-5 मधीते । ततोत्र वाटिकाद्वारि जिनप्रतिमां मण्डयध्वम् । सर्वेऽप्युपरि चरणं दत्त्वा बजतः । जैनस्तु न यास्यति, तदा ज्ञास्यते । सर्वेऽपि चरणं दत्त्वा निःशङ्कं गताः। उभाभ्यां विमृष्टम्-वयं ज्ञाता अस्माकमेतत्परीक्षार्थ कृतम । ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । उपरि चरणं दत्त्वा गतौ । निजाश्रयात् शास्त्राण्यादाय निर्गतौ । बौद्धाचार्यैर्नृपं प्रत्युक्तम्-यत् देव ! शासनसर्वस्वमादाय द्वौ श्वेताम्बरौ नष्टौ । नृपस्तु अनुपदं जातः । इतो हंसेनोक्तम्-वत्स! अहं रहितस्त्वं कस्यापि शरणे प्रविशेथाः । हंसस्तु युवा मृतः । परमहंसः कस्मिन्नपि पुरे 10 प्रविश्य शरणे गतः । पृष्ठिलग्नं कटकमायातम् । बहिस्तनेन याचित:-भोः। त्वमपि बौद्धभक्तः । तदमुं धर्मविद्वेपिणमर्पय । तेनोक्तम्-शरणागतं नार्पये । यादृशस्तादृशो वाऽस्तु । परमहंसेनोक्तम्-मम बौद्धाचार्यैर्वादोऽस्तु । यद्यहं पराजीयते तदा मार्यः । बौद्धैर्जितो मारितः । इतस्तस्य रुधिरालिप्ता रजोहतिः कयाचिद्देव्या शकुनिकारूपया चित्रकूटे पौषधागारे परित्यक्ता । गुरुभिरुपलक्षिता । निषद्यादर्शनात् ज्ञातमरणाः शिष्याणां रौद्रध्यानं गताः। बौद्धानामुपरि प्रकुपिताः । इत उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता । तत्र मत्रवलेन आकाशमार्गेण बौद्धा 15 एत्य कटाह्यां पतन्ति पतङ्गवत् । एवं सप्तशतानि । ततो गुरुभितिवृत्तान्तः श्रावक एकः शिक्षा दत्त्वा प्रहितः। स मध्ये प्रवेष्टुं न लभते । तेनोक्तम्-गुरूणां श्रीजिनभद्रसूरीणां पार्थादहमागतोऽसि । मध्ये मोचितः । तेनोक्तम्-प्रभो! अहमालोचनार्थी गुरूणां सकाशे गतः । मया प्रायश्चित्तं याचितम् । गुरुभिरहं भवतां पार्श्वे प्रहितः। प्रसादं विधाय मम प्रायश्चित्तं दीयताम् । प्रभो ! मया पञ्चेन्द्रियजीवस्य विराधना कृता । साऽत्यर्थ यते । गुरुभिरुक्तम्-सुबहु प्रायश्चित्तमेष्यति । तर्हि भवतां किं भविष्यति यदि मम इयत् । ततो ज्ञातम्-मम गुरुभिवृत्तमवग-20 तम् । तदा हि अवामुखीजाताः। श्रावकेणोक्तम्-गुरुभिः कथापितम् , कथं समरादित्यचरितं नावगतम् । तेन एकस्मिन् भवे पिष्टमयः कुर्कुटो हतः, एकविंशतिवारान् पिष्टकुर्कुटसङ्क्रान्तेन व्यन्तरेण वैरं कृतम् । तत् स्मृत्वा श्रीहरिभद्राचार्या वधानिवृत्ताः । पुनः सङ्घ मील्य प्रायश्चित्तं कृतवन्तः। तदनु 'समरादित्यचरितं' वैराग्यामृतमयं चक्रुः । कालेनानशनं कृत्वा दिवं गताः । इति प्रतीतम् । (३१६) महत्तराया याकिन्या धर्मपुत्रेण धीमता । आचार्यहरिभद्रेणाष्टकवृत्तिरियं कृता॥ 25 :: ॥ इति श्रीहरिभद्रसूरीणां प्रबन्धलेशः॥ ५५. सिद्धर्षिप्रबन्धः (B. BR.) ६२३१) अथ सिद्धर्षेः [प्रबन्ध ] उच्यते-श्रीमालपुरे दत्त-शुभंकरौ भ्रातरौ महर्द्धिको श्रीमालज्ञातीयौ । इतश्च शुभंकरस्य सुतः सीधाकः । दत्तस्य सूनुर्माघः। स सीधाको बाल्यतोऽपि द्यूतव्यसनी पित्रा कृष्णाक्षरितः । एकदा रममाणेन हारितम् । पितुर्ग्रहाचौर्यं विधाय दत्तम् । अन्यदा रममाणेनोक्तम्-द्रम्म ५०० यावत् क्रीड-30 यध्वम् । द्रम्मान् ददामि, शिरो वा ददामि । तैरुपवेशितो द्यूतकारैः, तेन हारितम् । द्रम्मा याचिताः । रात्रौ श्रीवीरप्रासादे धरणकं दत्त्वा सुप्तेषु द्यूतकारेषु सिद्धः प्रासादभित्तेसम्पां ददौ । पौषधागारमध्ये पतितः । गुरुभिर्व्याकृतः-कस्त्वम् ? । तेन स्वनाम उक्तम् । ग्रहणयोग्यं किमस्ति । तेनोक्तम्-तथ्यम् , परं मम दीक्षां यच्छत । पु० प्र० स०14 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220