________________
सिद्धर्षिप्रबन्धः।
१०५
६२३०) एकदिा] सूरीणां भागिनेयौ व्रतं जगृहतुः । सूरिभिः प्रमाणान्यध्यापितौ । ताभ्यां बौद्धानां प्रमाणानि दुरवबोधानि श्रुतानि । गुरव उक्ताः-भगवन् ! भवतामादेशेन बौद्धदेशे गत्वा तेषां प्रमाणान्यधीत्य जैनाभिप्रायेण कृत्वा यास्यावः । गुरुभिर्वारितावपि निर्बन्धं कृत्वा चेलतुः । बौद्धदेशे गतौ । तत्राव्यक्तवेषौ विद्यामठे पठितुं प्रवृत्ती । स्वस्थाने समेतौ ग्रन्थपरावर्तने प्रवृत्तौ । बौद्धाधिष्ठाच्या तारादेव्या वायुयोगात् पत्रमुडाप्य लेखशालायां क्षिप्तम् । 'नमो जिनाय' इति दृष्ट्वा छात्रैरुपाध्यायस्य दर्शितम् । तेनोक्तम्-कोऽपि जैनश्छन्न-5 मधीते । ततोत्र वाटिकाद्वारि जिनप्रतिमां मण्डयध्वम् । सर्वेऽप्युपरि चरणं दत्त्वा बजतः । जैनस्तु न यास्यति, तदा ज्ञास्यते । सर्वेऽपि चरणं दत्त्वा निःशङ्कं गताः। उभाभ्यां विमृष्टम्-वयं ज्ञाता अस्माकमेतत्परीक्षार्थ कृतम । ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । उपरि चरणं दत्त्वा गतौ । निजाश्रयात् शास्त्राण्यादाय निर्गतौ । बौद्धाचार्यैर्नृपं प्रत्युक्तम्-यत् देव ! शासनसर्वस्वमादाय द्वौ श्वेताम्बरौ नष्टौ । नृपस्तु अनुपदं जातः । इतो हंसेनोक्तम्-वत्स! अहं रहितस्त्वं कस्यापि शरणे प्रविशेथाः । हंसस्तु युवा मृतः । परमहंसः कस्मिन्नपि पुरे 10 प्रविश्य शरणे गतः । पृष्ठिलग्नं कटकमायातम् । बहिस्तनेन याचित:-भोः। त्वमपि बौद्धभक्तः । तदमुं धर्मविद्वेपिणमर्पय । तेनोक्तम्-शरणागतं नार्पये । यादृशस्तादृशो वाऽस्तु । परमहंसेनोक्तम्-मम बौद्धाचार्यैर्वादोऽस्तु । यद्यहं पराजीयते तदा मार्यः । बौद्धैर्जितो मारितः । इतस्तस्य रुधिरालिप्ता रजोहतिः कयाचिद्देव्या शकुनिकारूपया चित्रकूटे पौषधागारे परित्यक्ता । गुरुभिरुपलक्षिता । निषद्यादर्शनात् ज्ञातमरणाः शिष्याणां रौद्रध्यानं गताः। बौद्धानामुपरि प्रकुपिताः । इत उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता । तत्र मत्रवलेन आकाशमार्गेण बौद्धा 15 एत्य कटाह्यां पतन्ति पतङ्गवत् । एवं सप्तशतानि । ततो गुरुभितिवृत्तान्तः श्रावक एकः शिक्षा दत्त्वा प्रहितः। स मध्ये प्रवेष्टुं न लभते । तेनोक्तम्-गुरूणां श्रीजिनभद्रसूरीणां पार्थादहमागतोऽसि । मध्ये मोचितः । तेनोक्तम्-प्रभो! अहमालोचनार्थी गुरूणां सकाशे गतः । मया प्रायश्चित्तं याचितम् । गुरुभिरहं भवतां पार्श्वे प्रहितः। प्रसादं विधाय मम प्रायश्चित्तं दीयताम् । प्रभो ! मया पञ्चेन्द्रियजीवस्य विराधना कृता । साऽत्यर्थ यते । गुरुभिरुक्तम्-सुबहु प्रायश्चित्तमेष्यति । तर्हि भवतां किं भविष्यति यदि मम इयत् । ततो ज्ञातम्-मम गुरुभिवृत्तमवग-20 तम् । तदा हि अवामुखीजाताः। श्रावकेणोक्तम्-गुरुभिः कथापितम् , कथं समरादित्यचरितं नावगतम् । तेन एकस्मिन् भवे पिष्टमयः कुर्कुटो हतः, एकविंशतिवारान् पिष्टकुर्कुटसङ्क्रान्तेन व्यन्तरेण वैरं कृतम् । तत् स्मृत्वा श्रीहरिभद्राचार्या वधानिवृत्ताः । पुनः सङ्घ मील्य प्रायश्चित्तं कृतवन्तः। तदनु 'समरादित्यचरितं' वैराग्यामृतमयं चक्रुः । कालेनानशनं कृत्वा दिवं गताः । इति प्रतीतम् । (३१६) महत्तराया याकिन्या धर्मपुत्रेण धीमता । आचार्यहरिभद्रेणाष्टकवृत्तिरियं कृता॥ 25
:: ॥ इति श्रीहरिभद्रसूरीणां प्रबन्धलेशः॥
५५. सिद्धर्षिप्रबन्धः (B. BR.) ६२३१) अथ सिद्धर्षेः [प्रबन्ध ] उच्यते-श्रीमालपुरे दत्त-शुभंकरौ भ्रातरौ महर्द्धिको श्रीमालज्ञातीयौ । इतश्च शुभंकरस्य सुतः सीधाकः । दत्तस्य सूनुर्माघः। स सीधाको बाल्यतोऽपि द्यूतव्यसनी पित्रा कृष्णाक्षरितः । एकदा रममाणेन हारितम् । पितुर्ग्रहाचौर्यं विधाय दत्तम् । अन्यदा रममाणेनोक्तम्-द्रम्म ५०० यावत् क्रीड-30 यध्वम् । द्रम्मान् ददामि, शिरो वा ददामि । तैरुपवेशितो द्यूतकारैः, तेन हारितम् । द्रम्मा याचिताः । रात्रौ श्रीवीरप्रासादे धरणकं दत्त्वा सुप्तेषु द्यूतकारेषु सिद्धः प्रासादभित्तेसम्पां ददौ । पौषधागारमध्ये पतितः । गुरुभिर्व्याकृतः-कस्त्वम् ? । तेन स्वनाम उक्तम् । ग्रहणयोग्यं किमस्ति । तेनोक्तम्-तथ्यम् , परं मम दीक्षां यच्छत ।
पु० प्र० स०14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org