________________
१०४
पुरातनप्रबन्धसङ्ग्रहे ___(३०७) चक्किदुगं २, हरिपणगं ५, पणगं चक्कीण ७, केसयो ६, चक्की ८।
केसव ७, चक्की ९, केसव ८, दुचक्कि ११, केसी अ १२, चक्की अ १२॥ इयं गाथा हरिभद्रेण गुण्यमाना श्रुता । अजानस्तत्र प्रविष्टः । प्रवर्त्तन्या उक्तम्-कः प्रविशत्यत्र ? । तेनोक्तम्-अतिचिगचिगापितम् । प्रवर्त्तन्या उक्तम्-नूतनं लिप्तं चिगचिगायते । प्रसादं कृत्वा अस्सा अर्थ कथयत । 5 यदि श्रवणेच्छा तदा गुरूणां पार्थादवगन्तव्या । स गतः । प्रातर्गुरूणां पौषधागारे गतः । उक्तम्-इमां गाथां व्याख्यानयत । गुरुभिरुक्तम्-किं प्रतिज्ञायाः । तेनोक्तम्-सा तथैव । तर्हि एषा सिद्धान्तगाथा पूर्वापरसम्बन्धं परीप्स्यते स च दीक्षां विना तपश्चरणं च विना न भवति । तर्हि मे दीक्षां दीयताम् । तदा ब्रह्मलोकः सम्भूय उक्तवान्-वयं दातुं न दद्मः । हरिभद्रेणोक्तम्-कथं न दत्थ ।।
(३०८) पक्षपातं परित्यज्य मध्यस्थीभूयमेव च ।
विचार्य युक्तियुक्तं यद् ग्राह्यं त्याज्यमयुक्तिमत् ॥ (३०९) पक्षपातो न मे वीरे न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ (३१०) दुर्योधनखकुलनाशकरो बभूव विष्णुहरस्त्रिपुरदाहकरः किलासीत् ।
__ क्रौंचो गुहोऽपि दृढशक्तिहरं चकार वीरस्तु केवलजगद्धितसर्वकारी ॥ ___15 (३११) स्वार्थारम्भप्रणतशिरसां पक्षपातात् सुराणांहप्तात्मानं करजकुलिशैर्दानवेन्द्र निहन्तुम् ।
सि...तस्त्रिभुवनगुरुः सोऽपि नारायणोऽस्मिन् रागद्वेषप्र......कस्य न स्यात्पशुत्वम् ॥ (३१२) विष्णुः समुद्यतगदायुतरौद्रपाणिः शम्भुल्लन्नरशिरोऽस्थिकपालमाली ।
अत्यन्तशान्तचरितातिशयस्तु वीरः कं पूजयाम उपशान्तमशान्तरूपम् ॥ . (३१३) मातृमोदकवद् बाला ये गृह्णन्त्यविचारितम् ।
ते पश्चात्परितप्यन्ते सुवणेग्राहको यथा ॥ (३१४) नेत्रैर्निरीक्ष्य विषकण्टककीटसर्पान् सम्यग् यथा ब्रजति तान् परिहृत्य सर्वान् ।
कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् ज्ञात्वा विचारयत पर........वादः॥
भो! मया सम्यग् यत्तद्विमृष्टम् । (३१५) न वीतरागादपरोऽस्ति देवो न ब्रह्मचर्यादपरं [चरित्रम् ] ।
नाभीतिदानात्परमस्ति दानं चारित्रिणो नापरमस्ति पात्रम् ॥ इति द्विजान् सम्बोध्य दीक्षां जगृहे । कृतयोगोद्वहनः सिद्धान्तसारमधीतच गुरुणा पदे स्थापितः । श्रीहरिभद्रसूरय इति नाम कृतम् । तैश्चतुर्दशशतानि कृतानि सिद्धान्तरहस्यभूतानि [प्रकरणानि] । चिन्तितम्-क एतान् लेखयिष्यति ? । वणिक् दरिद्री एको दृष्टः । तस्य व्याहृतम्-मत्कृतान् ग्रन्थान् लेखय । गुर्वाज्ञा प्रमाणमित्युक्ते, गुरुभिरुपदिष्टम्-अद्य मण्डपिकायां ये मधूच्छिष्टमयाः स्तम्भाः समायान्ति तानादाय गृहे 30 शोध्य पश्चादागन्तव्यम् । तथाकृते स हिरण्यकम्बाभिर्धनवान् जातः । तेन रूप्यपत्रेषु स्वर्णाक्षरैस्तानि लेखितानि । गुरुभिश्चित्रकूटोपरि प्रासादे औषधानि सम्मील्य स्तम्भः कृतः । तत्र प्रक्षिप्य मुक्तानि । स स्तम्भो न पानीयेन गलति, न च्छिद्यते, नाग्निना दह्यते । ।
20.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org