________________
श्रीहरिभद्रसूरिप्रबन्धः।
५३. चित्रकूटोत्पत्तिप्रबन्धः (P.) ६२२८) कान्यकुब्जे काश्यां शम्भलीशो नृपो राज्यं करोति । इतः शिवपुरे कतिचिद्रामाधीशश्चित्राङ्गदो नृपः। एकदा तस्य सभायां कोऽपि योगी समेतः । स नित्यमेति राजानं न वक्ति । षण्मासान्ते नृपेण सेवाकारणं पृष्टः स आह-देव! निर्जनं कुरु । तथा कृतम् । राजन् ! मम गुरुणा विद्या दत्ताऽस्ति । तस्याः पूर्वसेवा जाता, उत्तरसेवा तिष्ठति । सा तु त्वां द्वात्रिंशल्लक्षणं विना न भवति । राज्ञा मानितम् । देव्यष्टमीदिनेऽसिहस्तेन त्वया कूटाद्रा-5 वागम्यम् । ओमित्युक्ते स गतः। देव्या पटान्तरितया तच्छुतम् । तया अमात्याने उक्तम् । मत्रिणोक्तम्-यदा नृपो याति तदा मम कथ्यम् । नृपः सन्ध्यायां शिरोतिमिषेण तां विसृज्य, यदा चलितस्तदा देव्या मत्री ज्ञापितः । स पश्चाच्चचाल । नृपोऽन्यग्रे गतो योगिनमैक्षिष्ट । मत्र्यपि च्छन्नं स्थितः । योगी नृपमग्निकुण्डपार्श्वे विमुच्य स्नानाय गतः। मत्री प्रकटीभूय नृपमाह-देव! अयं कपटी । त्वां हत्वा स्वर्णपुरुष कर्ता । अतो गम्यते । नृपः प्राह-वाग् मे मा यातु । मत्री आह-यदाऽसौ कथयति फेरकान् देहि तदा त्वया कथ्यम्-अहं न वेमि, 10 भवानग्रे भवतु । इत्युक्त्वा मत्री वृक्षान्तरितोऽभूत् । योगी समेतः । तेन ध्यानमारब्धम् । अग्निकुण्डमुद्दीपितम् । नृपं प्राह-फेरकान् देहि । त्वमपि मम दर्शय नाहं वेद्मि । स उत्थाय तथा कर्तुं लमः। उभावपि त्वरितं धावतः।
वानराभिमुखं नृपमप्रेरयत् । तावन्मत्रिणा राज्ञा च सोऽन्तः क्षेपितः। स स्वर्णनरोऽभूत। उभावपि तं लात्वा गृहमागतौ । तत्प्रभावाद्वित्तं जातम् । स पश्चात् पुरस्थानमवलोकयन् पर्वतमधिरूढः । तत्र यावान् दुर्गों दिने निष्पद्यते तावानिशायां पतति । पूजया तत्रत्यो व्यन्तरस्तुष्टः । तेनोक्तम्-अहं पुरस्य भारं सोढुं न क्षमः । 15 अतः स्थानान्तरे कुरु । तत्र जलाद्यं पूरयिष्यामि । पश्चादुर्गः पर्वतोपरि अन्यत्र प्रारब्धः। चित्रकूटेति नाम कृतम् । वासे जायमाने उपरि लोका न मान्ति । पश्चान्नृपेणोक्तम्-कोटीध्वजा मध्ये वसन्तु, लक्षेश्वरा बहिः । एवं कोटीध्वजानां गृहसहस्रम् । एवं पुरे निष्पन्ने काशीश्वरेण शम्भलीशेन दुर्गों वेष्टितः । स स्वर्णपुरुषं याचते । विग्रहे वर्ष १२ जाते राज्ञा घासं शिरसि दत्त्वा वनराः प्रहिताः, मध्यतनं स्वरूपमादातुम् । यावत्ते घासयुता मत्रिगृहाधस्तात् सन्ति तावद्गवाक्षस्थितया मत्रिपुत्र्या पिता उक्तः-तात! पर्वताधस्तादेते वाणिज्यकारका 20 एतान् दिनान् किं स्थापिताः । शुल्कमादाय किं न प्रेष्यन्ते । तेन सित्वोक्तम्-एतत्परचक्रं मत्वा, मया त्वं दुर्गस्यैव मध्ये दत्ता। तव पुत्रोऽपि जातः। परमेतन्न याति । तां वार्ता श्रुत्वा तैर्नृपाने उक्तम् । स निराशीभूय गन्तुं प्रवृत्तः। स्वदलं प्रेषयत् । स दुर्गमवलोकयन् यदा गन्तुं लग्नः, तावता गवाक्षस्थितया बाकरीवेश्यया सूक्तमुक्तम्(३०६) गण्डूपदा किमधिरोहति मेरुशृङ्गं किं वारबेरज(?)गिरौ निरुणद्धि मार्गम् ।
_ शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रनहिलतां त्यज शम्भलीश!॥ . 25 नृपः प्राह-तथा कुरु यथा दुर्ग गृह्णामि । तया प्रोक्तम्-कटकं सन्नद्धं कुरु । अयमत्रत्यो मध्याह्ने प्रतोलीत्रयमुद्धाव्य दानं दत्ते । यदाहं स्नात्वा केशविवरणं करोमि तदा ढौकनीयम् । सङ्केते मिलिते दुर्गो भेलितः। चित्राङ्गदस्तु स्वर्णपुरुषं कण्ठे बवा वाप्यन्तः पपात । नृपेण सा खनितुमारब्धा । तत आदेशो जातः-विरम वा कटकं हनिष्यामि । स नृपश्चित्राङ्गदपुत्र राज्येऽधिरोप्य स्वपुरीं गतः। ततोऽभिपठ्यते-'चित्रकूटमिदं भद्रे' इति । ॥ इति चित्रकूटोत्पत्तिप्रबन्धः॥
30
५४. श्रीहरिभद्रसूरिप्रबन्धः (B.) ६२२९) चित्रकूटे हरिभद्रो द्विजश्चतुर्दशविद्यापारीणो महावादी । तस्य इयं प्रतिज्ञा यस्याहं भणितं न परिच्छिनगि तस्य शिष्यो भवामि । तत्र श्रीबृहद्गच्छे श्रीजिनभद्रसूरयः कृतचतुर्मासकाः सन्ति । तेषां प्रवर्तनी याकिनी साध्व्यु[पा] श्रयेऽस्ति । एकदा प्रतिक्रमणानन्तरं काऽपि साध्वी आवश्यकं गुणयति । तया गाथा उक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org