________________
१०२
पुरातनप्रबन्धसङ्ग्रहे स्थापिताः । प्रतोली दातुं न यच्छति । मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु पाश्चात्ये उपद्रवं करोति । तैः कथापितम्-यद्वयं नडलसीमायां नैष्यामः । त्वया नों ग्रामेषु नागम्यम् । क्रमेण जनाः २० स्थापिताः पार्थे । समीपग्रामेषु वला विहिताः । मेदानां कथापितम्-मम करदेषु ग्रामेषु नोपद्रवः कार्यः। एकदा धाटीमादाय मेदपाटे गतः । तत्र धाटी भन्ना । लाखणो घातजर्जरः कृतः पतितः । इतस्ते यावदुच्छसितुं जनाः 5 प्रवृत्तास्तावदसणि देव्या गोत्रजया शकुन्तिकारूपं कृत्वोपरि निपत्य रक्षितः । रात्रौ उत्थाय मन्दं मन्दं वपुरं गतः । एकदा देव्या व्याहृतम्-त्वां महान्तं विधास्से चिन्ता न कार्या । प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कला समेष्यति । त्वया कुण्ड्यः कुङ्कुमजलै त्वा प्रतोल्युपर्युपविश्य स्थेयम् । अग्रे गच्छतां हयानां छटा देयाः। येषां ता लगिष्यन्ति तेषां वर्णपरावों भविष्यति । मध्ये प्रवेशं च विधास्यन्ति । प्रातस्तथैव कृतम् । बहवोऽश्वाः प्रविष्टाः
पुरान्तः । तथा महान्तमेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम्-भव भव इति । तदनु प्रविशन्तः स्थिताः । 10 वाहरायां समागतायां पृष्टम्-अस्माकमश्वाः प्रविष्टा भविष्यन्ति । लाखणेनोक्तम्-मध्ये समेत्य पश्यत । तैरश्वसाधनं निरैक्षि द्वौ हयौ लब्धौ । तावादाय गताः । येषां छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । एवमश्वसहस्र१२" जाताः । महदाधिपत्यं जातम् ।
६२२६) एकदा स्वगृहोपर्युपविष्टेन काचिद्विप्रवधूः स्नान्ती दृष्टा । पश्चाविजानाहूय प्रोक्तम्-अहं भवतां पुरं त्यक्षामि । तैरुक्तम्-कथम् ?, तवेह गतस्य किं विनष्टम् । यदि मे भूमिमर्पयत बाह्ये गृहार्थे वासाय वा तदा 15 तिष्ठामि । द्विजैः पुरस्य बाह्ये वासाय भूरर्पिता । तत्र धवलगृहमारब्धम् । काष्ठदले निष्पद्यमाने, भित्तयः पृथुला
जाताः । पट्टास्तु हस्खाः । सूत्रकारै चिन्ति-किमुत्तरं करिष्यामः । वेश्या एका पृष्टा-वयं केनोपायेन निस्तरिष्यामः । तयोक्तम्-न भेतव्यम् । सा वर्धापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता । पृष्टा राज्ञा-किमिदमद्य । देव! लाखणगृह" वर्द्धितम् । कथम् ? । पश्यत, भित्तयः पृथुलाः पट्टा न्यूनाः । स तदेव शकुनं मत्वा
तां सत्कृत्य प्राहिणोत् । तत्र राजकुलद्वारे गोत्रदेवीप्रासादो महान् कारितः । तथाऽष्टादश जैनाः प्रासादा 20 महान्तो निष्पन्नाः, प्राकारश्च । एवं क्रमेण नड्डलराज्यं जातम् ।।
६२२७) एकदा कस्यापि श्रेष्ठिनः पुत्री कुमारिका दृष्टा । सा पाणिग्रहार्थे याचिता । तया पिता व्याहृतः-मम श्रावकत्वं प्रयाति, पुत्राश्वामिषभक्षिणः स्युः । अतो यदिति मन्यते-यन्मे पुत्रा मातृशाले वर्द्धनीयाः। इति मानिते सा परिणीता । सुते जाते मातृशाले प्रेष्यते । तत्र सर्वे पुत्रास्तस्या वर्द्धिताः । राउलेनोक्तम्-तव पुत्राणां किं ग्रासं ददामि ? । भाण्डागारे मुञ्च, तथा वणिजां च पति दापय । राउलेन तथा कृतम् । वणिग्भिः सह विवाहादि25 सम्बन्धा जाताः । ते भाण्डागारिका जाताः। तस्य सुता आसल-राउलप्रभृतयः ३२ (द्वात्रिंशत् ) जाताः । *ते वलापर्वतस्य तीरे पृथक् २ स्थापिता दुर्गेषु तदा । तस्यान्वये राउलकेहण-केतूनाम्ना शाखाद्वये राज्यद्वयं जातम् । नडले सुवर्णगिरौ च*। लाखणपूर्वजाः-वासुदेव नरदेव वीकम वल्लभराज दुर्लभराज चान्दण गोऊ" अजयरा वीघरा सिंघरा । लाखण-बलिराज सोही माहिन्द अणहिल जीन्दराज आसराज आहूण कीतू समरसीह उदयसीह चाचिगदेव सामतसीह काह्नडदेव-इत्यादि ।
॥ इति लाखणराउलप्रवन्धः॥
30
1 B कुरुते। 2 B त्वस्माकं । 3 B विंशतिः। 4 B जर्जरितः । 5 B असिणि । 6 B तुरगाणां। 7 B भवतु भवतु इत्युक्तं। 8 B वहारया समागतया। 9 B अवलोकयत । 10 B विलोकितं। 11 B एवं सहस्र१२ अश्वानां जाताः। 12 B वेश्मो०। 13 B ब्राह्मणी। 14 B यातस्य । 15 B वासार्थे । 16 B सूत्रधारैः। 17 P 'गृहं' नास्ति । 18 B सुतमुत्पद्येत पितृगृहे प्रेषयति । 19 B ते तत्र वर्द्धिताः। 20 B ततो राउलेन पंक्तिपिता । 21 B वणिभिः सह पाणिग्रहः पुत्राणां कारितः। * एतदन्तर्गता पंक्तिः B प्रतौ न लभ्यते। 22 B वासदेव। 23 B नास्ति । 24 B गाउ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org