________________
लाखणराउलप्रबन्धः।
१०१ इति प्रभूणामग्रे नाटकं रचितम् । पश्चाद् ईदृशं चोक्तम्-भगवन् ! मया किं कर्तव्यम् ? । प्रभुणोक्तम्-भो! त्वया पाश्चात्यभवे बहूनि पातकानि कृतानि, तेषां शुद्धिहेतोः श्रीशत्रुञ्जयमहातीर्थे सङ्घसाहाय्यकारी भव । तस्य कपर्दिनामा यक्षः सञ्जातः । अग्रीयकपर्दिना सह तस्य वर्ष १२ विग्रहः सञ्जातः । कोऽपि न पराजीयते ।
इतश्च मधुमत्यां नगर्या प्राग्वाटज्ञातीयश्रेष्ठी जावडिः, भार्या सीतादेवी, प्रवहण १८ पूरयित्वा समुद्रमध्ये प्रवहणसहितचित्रवल्ली (?) मध्येऽपतत् । क्रमेण वर्ष १८ सञ्जातानि । एकयाऽपि रीत्या निस्सरीतुं न शक्यते । 5 बहूनां देवानां आराधना कृता । पुनः कस्यापि साहाय्यं न जातम् । तदा चिन्तितम्-एकदा व्याख्यानमध्ये श्वेताम्बराचार्यैरिति भणितम् । यतः-'कान्तार०' इत्यादि । नूतनकपर्दिना रात्रौ स्वमं प्रदत्तम्-यदहो जावड ! पसिन पक्षेऽभ्रं दृश्यते तस्मिन्पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः ऋयाणकं वापितं जावडेन । प्रवहणानि लघुत्वेन न सञ्चरन्ति । कसिंश्चिद्वीपे समागत्य छगणकर्करै त्वा पञ्चमदिने समुद्रं निस्तीर्य मधुमत्यां नगर्या समागतो जावडः। छगणानि सुवर्णीभूतानि, कर्करा रत्नानि सञ्जातानि । तदनन्तरं सङ्गं कृत्वा श्रीशत्रञ्जये श्रीऋष-10 भदेवनमस्करणाय गतो जावडः। यावत् स्नात्रं करोति तावद् अग्रीयलेप्यमयबिम्बस्य नासिका गलिता। महाविषादो जातः । एतस्मिन् प्रस्तावे दशपूर्वधरेण श्रीवज्रस्वामिनाऽऽदिष्टो जावड:-अद्य रात्रौ कपर्दियक्षस्य भोगं कृत्वा कायोत्सर्गे स्थीयताम् । तत्करणानन्तरं रात्रौ कपर्दिना भणितम्-यदहो जावड! मम्माणाकरे मम्माणनगरे बाह्ये पूर्वदिशि या राइणिर्विद्यते तस्या अधः फलहिका मम्माणापाषाणमयं विद्यते, तां कारयित्वा इहानय । तस्या घटापने मूल्ये चानयने लक्ष ९ व्यये जाताः । पर्वतोपरि यावन्मानं दिनेऽध्यारोहयते 15 तावन्मानं रात्रौ वलति । श्रीवज्रस्वाम्यादेशात् रथकलचक्रस्याध एकत्र स्वयमन्यत्र श्रेष्ठिनी स्थिता । तद्भाग्यादेवतासाहाय्याच न निवृत्तो रथकलः । उपरिगतं विम्बम् । वज्रस्वामिगणधरेण प्रतिष्ठितम् । अग्रेतनं बिम्बमुत्थाप्यते नोत्तिष्ठति । षण्मासावधि भोगकरणेन श्रीवज्रस्वामिध्यानेन सर्वान् व्यन्तरान् आत्मायत्तीकृत्य षण्मासान्ते काप्याघे (1) कपर्दिनि क्रीडार्थ गते, नूतनकपर्दिवचनेनाद्यविम्बमुत्थाप्य नूतने स्थापिते, तदधिष्ठायके नूतने कपदिनि कृते, आद्य आराटि मुक्तवान् । तदनुभावात्पर्वतो द्विधा जातः । ध्वजारोपणप्रस्तावे जावडो भार्यासहित: 20 प्रासादोपरि नृत्यन् आद्यकपर्दिनोत्पाट्य वैताढ्यपर्वते उत्तरश्रेण्यां नीतः । एवं बिम्बस्थापनम् । (३०५) श्रीविक्रमादित्यनृपस्य कालादष्टोत्तरे वर्षशते व्यतीते। शत्रुञ्जये शैलशिलामयस्य कारापिता जावडिना प्रतिष्ठा ॥
॥ इति श्रीकपर्दियक्ष-जावडिप्रबन्धः॥
५२. लाखणराउलप्रबन्धः (B. P.)
___25 ६२२५) शाकम्भरीपुयां चाहमानो लक्ष्मणः। स वर्तनाय भार्यामादाय एकमन्त्यजं च सहायं कृत्वा देशान्तरं चलितः । मार्गवशानडूलपुरे सर परिसरे देवकुले दिनं विश्रान्तः । इतः सन्ध्यायां द्विजैरागत्योक्तम्-हे पान्थ! पुरस्य मध्ये समागच्छ । अत्र मेदानां प्रतिभयेन रात्रौ कोऽपि बहिर्न तिष्ठति । लाखणेनोक्तम्-वयं पथिका मार्गस्थाः। प्रतोल्यः सूर्योदये उद्घाट्यन्ते । अतोऽत्रैव स्थास्यामः । द्विजैरुक्तम्-अप्रमत्तैः स्थेयम् । तेषु गतेषु लाखणः सह सहायेन' सजीभूय स्थितः। इतो रात्री मेदधाटी प्रसृता । लाखणेन सह सहायेन युद्धं कृतम् । जन २० पतिताः । 30 तावुभावपि घातातौ पतितौ । प्रातर्द्विजैरेत्य पत्नी पृष्टा-कस्ते भर्ता ? कः सखा ? । तया दर्शितावुत्पाव्य नीतौ । पालितौ । रुद्धघातेन तेन द्विजा मुत्कलापिताः । तैरुक्तम्-क यास्यसि । तेनोक्तम्-यत्र निर्वाहो भविष्यति । वयमत्रैव करिष्यामस्त्वयाऽसाकं पुरे मेदोपद्रवो रक्ष्यः । स स्थितः । द्विजैस्तु ग्रासः कृतः। तेन जनाः ५ अन्ये
1B ससखायः। 2 B मेदानामुपद्रवो रक्षणीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org