________________
पुरातनप्रबन्धसङ्ग्रहे ग्रन्थिबन्धनं कार्य तत्र गतेनोन्मोचनं कार्यम् । नमो अरिहंताणं इति कथनीयं मुखे । इत्युदित्वा सूरयो गताः । इतः शकुनिकागृहीतसर्पमुखाद्गरलं तन्मये पपात । तेनाज्ञातेन पीतम् । स मृतः, अणपनी-पणपन्नीव्यन्तराणां मध्येऽवतीर्णः । इतः कलकलं कुर्वाणाः सर्वेऽपि राजभवनं ययुः । यदस्माकं कोलिको निरपराधो व्रतिभिर्मारितः । तेन अनार्येण सूरयो धृत्वा वधाय आदिष्टाः। स कोलिकस्तु नमस्कारप्रभावान्मृत्वा व्यन्तरो जातः । प्राग्भवं 5 निरूप्य गुरूणां परिभवं दृष्ट्वा ग्रामोपरि शिलां चकार । राजप्रमुखः सर्वो जन आत्तॊ जातः । इतो व्यन्तरेणोक्तं मारयिष्यामि । कथम् ? । मम गुरून् शीघ्रं मुञ्चत यथा न मारयामि । एते ममोपकारिणः । एतेषां प्रसादान्मया देवत्वं प्राप्तम् । ततः सर्वैर्गुरवः क्षामिता नृपप्रभृतिभिः । इति च लोकसमक्षं जगौ___(३०३) मजासी मंसरओ इक्केण वि चेव गंठिसहिएण ।
सोहं तु तंतुवाओ सुसाहुवाओ सुरो जाओ ॥ 10 व्यन्तरस्तु नमस्कृत्य गतः । स यक्षः कपर्दीनाम दत्त्वा श्रीवज्रस्वामिभिस्तीर्थे स्थापितः । इतः पूर्वकपर्दी
आयातः। बिम्बपरावृत्तं दृष्ट्वा आराडि विधाय निस्सृतः । तदा पर्वतस्तु द्विधा जज्ञे । सदाफला वनस्पत्यपि तदा ज्वलिता । अतः कपर्दिना गुरव उक्ताः-प्रभो ! ममापराधं क्षान्त्वा इहैव मां स्थापयत । गुरुभिरुक्तम्त्वमनर्हः । तव मिथ्यात्वं गच्छतो वारा न लगति । त्वयाऽत्र न कार्यम् । अहमन्यत्र गत उद्वेगकारी भविप्यामि । गुरुभिरुक्तम्-त्वं याहि । ततः स देवपत्तने गतः । तत्र तैय॑न्तरैरपरद्वारे क्षेपितः । तत्र कपर्दिबारिका 15 जाता । इतः प्रतिष्ठा जाता । तथा महाध्वजवेलायां श्रेष्ठी सपत्नीक उपरि गत्वा नर्तितुं प्रवृत्तः । ततः पूर्वकपदिनाऽपहृत्य क्षीरोदार्णवे क्षिप्तः । लोके इति ख्यातिर्जाता-भौतिकेनापि पिण्डेन स्वर्ग गतः । एवं द्रम्मलक्ष १९ व्ययेन श्रीयुगादिदेवबिम्ब प्रतिष्ठाप्य स्थापितम् ।
॥ इति श्रीशत्रुञ्जयोद्धारप्रबन्धः॥
५१. कपर्दियक्ष-जावडिप्रबन्धः (Br:) 20 ६२२४) मधुमत्यां नगयां कपर्दिनामा कोलिकः । आडि-कुहाडिनान्यौ कलत्रे अभक्ष्यापेयसक्तः। तत्प्रस्तावे योगन्धराचार्यास्समाजग्मुः। अन्यदा तंगणिकायां गच्छद्भिः पूज्यैर्भार्यावचनस्ताड्यमानः कोलिको दृष्टः । आचार्यैभणितम्-अहो कोलिक ! आगम्यतामसत्समीपे । तेन चिन्तितम्-किमपि याचिष्यन्ति वस्त्रादिकम् । आचार्येण श्रुतेन विलोकितम्-कियदायुरस्य । ततः पश्यन्ति घटिकाद्वयं यावत् । अहो कोलिक! प्रत्याख्यानस्य प्रथमं पदं नमो अरिहंताणं इति त्वया भणनीयम् । मद्यं पिबताऽभक्ष्यं भक्षयता ग्रन्थिश्छोटनीयः । नमो अरिहं25 ताणमिति भणित्वा भक्षणपानानन्तरं तथैव ग्रन्थिर्वन्धनीय इति प्रतिश्रुते, सूरिषु गतेषु शकुनिकागृहीतसर्पमुखाद्गरलं मांसखंडमध्ये पपात । तद्भक्षणादसौ मृतः । अणपन्नी-पणपन्नीव्यन्तरमध्ये प्रबलो व्यन्तरो जातः । अवधिना दृष्टम्-गंठिसहितपसः प्रभावादहं देवो जातः । इतश्च तद्भार्याभ्यां राजकुले गत्वेति कथितम्-महाराज! पाखण्डिभिरावयोर्भर्त्ता मारितः । किमपि कथितं तन्न जानीमः । मिथ्यादृष्टीनां च वचनात् राज्ञा गुप्तौ
कृताः सूरयः । तेन व्यन्तरेणात्मशरीरमधिष्ठाय राज्ञोऽग्रे भणितम्-यन्महाराज! क्षाम्यन्तां आचार्याः । अन्यथा 30 तव नगरोपरि शिलां पातयिष्यामि । राज्ञा पादयोर्विलग्य सूरयः क्षामिताः। शिला संहृता । लोकविदिता गाथा भणति(३०४) मंसासी मज्जरओ इक्केणं चेव गंठिसहिएण।
सोहं तु तंतुवाओ सुसाहुवाओ सुरो जाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org