________________
वनस्वामिकारितशत्रुञ्जयोद्धारप्रबन्धः ।
.९९ कुमारी यस्य तीर्थ दत्ते तस्य तीथं जातम् । तैर्भणितम्-एतत्प्रमाणम् । प्रथमं दिग्वस्त्रैमण्डले मण्डिता कुमारी । पात्रं नापूरि तैः । ततः श्रीवप्पभट्टसूरयो वसतौ ध्याने उपविष्टाः । सङ्घशो वासान् दत्त्वा प्रहितः । तेन कन्याशीर्षे वासाः क्षिप्ताः । ततः पात्रेणाभाणि(३००) इक्कोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स।
संसारसागराओ तारेइ नरं व नारिं वा ॥ (३०१) उजितसेलसिहरे दिक्खा नाणं निसीहिआ जस्स ।
तं धम्मचकवादि अरिहनेमि नमसामि ॥ इति गाथाद्वयं तस्या मुखात्सर्वैरपि श्रुतम् । तद्दिनादात्मीयं तीर्थ सञ्जातम् ।
॥ इति उजयन्ततीर्थात्मकरणप्रबन्धः ॥
10
20
५०. वनखामिकारितशत्रुञ्जयोद्धारप्रबन्धः (P.) ६२२२) अथैकदा दशपूर्वधराः श्रीवज्रस्वामिगुरवो मधुमत्यां नगर्या समायाताः । श्रीशत्रुञ्जयदेवं नन्तुं गताः । देवं नमस्कुर्वद्भिर्भोजमेकमागतं दृष्टम् । देवार्चकः पृष्टः-रे! किमिदम् । देव ! प्रत्ययान् पूरयति । चिन्तितम्जिनशासनस्य मुख्यमिदं तीर्थम् , परं तत्र कपर्दी मिथ्यात्वी जातः एतन्न सुन्दरम्-इति विचिन्त्य मुहुयानगरे पुनरायातः। चिन्तितं ध्यानबलेन-अस्य तीर्थस्य क उद्धारः कर्ता। अस्य नगरनिवासी सौराष्टिकप्राग्वाटो भावडश्रेष्ठिपुत्रो जावडः । तं मत्वा देशनामध्ये उक्तम् । तच्छ्रुत्वा जने गते जावडस्तु स्थितः-प्रभो! यदादिष्टं 15 अन्यः कोऽप्यहं वा । भवानेव । भगवन् ! ममाष्टादश प्रवहणानि क्वापि सन्ति न वा, तन ज्ञायते । वर्ष १२ जातानि । अधुना भोजनमपि कष्टेन भवति । स एव............गृहे गतः। अङ्गशौचं कृत्वा यावद्देवपूजायां प्रवृत्तः तावद्वर्धापनिकेनेत्युक्तम्-यत् प्रवहणान्यष्टादश क्षेमेणागतानि । श्रेष्ठिना विम्बस्याग्रे जलं मुक्तम् ।
(३०२) ...गरबालणि वलिणि वलि कित्तीसु अन्भडभंज।
___अत्तागमणु न जाणिउं तुह पनरह मुह पंच ॥ __ यत्तेषु द्रव्यमेष्यति तत्तीर्थार्थे । भुक्त्वा वाहणवस्तून्युत्तार्य गुरूणां [पार्थे] गतः । प्रभो! योग्यता जाता। उद्धाराय यतध्वम् । गुरुभिर्विमृष्टम्-आदौ बिम्ब पोतके (?) क्रियते । तन्नागपुरप्रत्यासन्नमकडाणाग्रामे मम्माणीनामखाणौ बिम्ब निष्प.........स्ते मूले द्रामलक्ष एकं व्ययति । तत्राश्वानवीरक्रियेण (?) क्रीत्वा विम्बमानीयताम् । जावडिस्तु द्रव्यमादाय तत्र गतः । विम्बं क्रीत्वा आनिनाय । कपर्देरनुभावाद्धिम्बं यावती भूमि दिने च[टति] तावती रात्रौ पश्चाद्याति । गुरुभिरुक्तम्-श्रेष्ठिन् ! उपवासं कृत्वा धौतवसनानि परिधायैकस्य 25 चक्रस्य तले त्वया स्थेयम् , अपरस्य श्रेष्ठिन्या । प्रीतौ दम्पती तथा स्थितौ । तयो............त्थितं स्वरूपेण । प्रातरुत्थायोपरि नीतम् । इतः श्रीवज्रस्वामी श्रीमरुदेव्याधिष्ठायकं ध्यानबलाद्धोगवलाच स्वायत्तं चके। क्रमेण शेषा अपि स्वायत्तीकृताः। ते तु कपर्दिनमन्वेषयन्ति । स तं यातं वा । एवं षण्मासप्रान्ते कपर्दी क्रीडायां गतः । शेषव्यन्तरैः स्थानं शून्यं मुक्तम् । इतो लेप्यबिम्बं मण्डपे समानीतं शैलमयं मध्ये स्थापितम् ।
६२२३) तत्र नूतनकपर्दी स्थापितः । स पूर्व टीम्बाणाग्रामे-कोऽपि मधुमत्यां कथयति-कोलिक आसीत् ।30 तस्य द्वे भार्ये-एका हा[डिः] अपरा कुहाडिः । स चीवरं प्रत्यहं वणयति । उभयतस्ताभ्यां प्रान्ताया......करे मद्यभुम्भल्यो वर्त्तते। यदा यस्याः समीपे सयाति सा तदा तं पाययति । इतश्च सुव्रताचार्यास्तनुगमनिकायां गताः। तैदृष्ट्वा विमृष्टम् । एष अविरतः । अस्थायुः कियत् । घटीद्वयं विमृश्य आहूय उक्तः-भोस्त्वया अनिच्छता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org