________________
पुरातनप्रबन्धसङ्ग्रहे द्विजेष्वभुक्तेषु शूद्राणामन्नं दत्तम् । एषा वधूः न सामान्या । तयाऽऽराटिः कृता । सोमभट्टे समायाते उक्तम् । तेन तातादिना ताडयित्वा निष्कासिता । सा सुतद्वयमादाय, एकं कट्यां कृत्वा परमङ्गुल्यां, निःसृता । श्वश्या पुत्र: पृष्ठे सानुतापया प्रहितः-त्वरितं गत्वा समानय । इतः शिशुः सुतस्तृषितो नीरमयाचत । तया श्रीनेमिचरणौ स्मृत्वा मही पादेन दारिता । दीर्घिका प्रादुर्बभूव । सुतो नीरं पायितः । वृद्धेनोक्तम्-अहं क्षुधितः । तत्राम्रः 5 प्रकटीबभूव । तत्र सहकारलुम्बि गृहीत्वा पुत्रायार्पयत् । इतः पाश्चात्ये प्रियमायान्तं दृष्ट्वा भीता श्रीनेमिपादौ स्मृत्वा कूपे पुत्रैः सह झम्पां ददौ । सोऽपि स्त्री-भ्रूणघातिनं खं मन्यमानः पृष्ठौ झम्पां ददौ । अम्बा रैवतके श्रीनेमिचैत्येऽधिष्ठात्री जाता । सोमस्तस्या वाहने सिंहो जातः।
॥ इति देव्यम्बाप्रबन्धः॥
४९. उज्जयन्ततीर्थात्मकरणप्रबन्धः (P.) 10६२२१) सुराष्ट्रायां गोमण्डलन[ग]रे सप्तशतयोधैः सह सप्तपुत्रावृतस्त्रयोदशशतशकटयुतस्त्रयोदशकोटीस्वामी
धारानामा श्रावकः सङ्घ कृत्वा तीर्थ[न]मस्यै गतः । विमलाद्रौ युगादिं नत्वा रैवततलहट्टिकायां स्थितः। तीर्थ दिग्वस्त्रैः पूर्वमधिष्ठितमस्ति । तैरपि पञ्चाशद्वर्षभोगात् पश्चाद्वौद्धान् वादे जित्वा आत्मायत्तं कृतम् । दिगम्बराणां द्वादशवर्षाणि जातानि । श्वेताम्बरीयधाराकेनोक्तं चतुरशीतिमण्डलाचार्याणां समीपे-यदहं देवं
नन्तुं समेतः । तैरुक्तम्-दिगम्बरीभूयागच्छ । तेनाचिन्ति-प्राणान्तेऽपि स्वगुरुलोपं न कुर्वे । अन्यदुजयन्तनतिं 15 विना गृहे न यामि । चिन्तात्तॊ जातः। पुत्ररूचे-किं कारणम् । हे पुत्रास्तीर्थ नन्तुं न लभ्यते । पुत्रैरुक्तम्
दिग्वस्त्राधिष्ठिते तीर्थेऽपि किं कार्यम् ? । तातेन कथितम्-पूर्वमात्मीयमेव, इदानीमेभिरधिष्ठितम् । एवं तर्हि बलादपि यास्यामः, चिन्ता न कार्या । तत्पुत्रैमण्डलाचार्याणां कथापितम्-यद्वयं बलादपि तीर्थ वन्दिष्यामहे । तैर्निजभक्तखंगारस्य ज्ञापितम् । तेन किञ्चित्सैन्यं प्रहितम् । तैः पुत्रैस्तस्य सैन्येन साकं युद्धं प्रारब्धम् । सप्त पुत्राः सप्तशतयोधसहिता मारिताः। सङ्घपतिर्धाराको न भुङ्क्ते । तृतीयोपवासेऽम्बिकयाऽभाणि-वत्स! कन्यकुज20 देशे गोपालपुरे आमो राजा । स पूर्वभवे भूण्डपर्वते तपस्वी तपस्तत्वा नृपोऽभूत् । तस्य पार्श्वे बप्पभट्टिसरयः
सन्ति । तैरेते जीयन्ते नान्येन । एतेषां मत्रा व्यन्तराश्च सबलाः। इति ज्ञात्वा तत्र गच्छ । धाराकः सङ्घ मुक्त्वाऽष्टश्रावकैः सह तत्र गतः। श्रीसूरयस्तदा आमराजस्य सभायाश्चाग्रे रसेन व्याख्यां कुर्वाणाः सन्ति । धाराकेन नत्वा सङ्घाज्ञा तेषां दत्ता । राज्ञा साक्षेपमैषिष्ट । आचार्यैस्तत्पार्श्वतो वृत्तान्तः पृष्टः। तेन समूलं वृत्तान्तमुक्तम् । राज्ञा खभावश्रवणरैवतप्रभावाकर्णनहर्षपूरवशादभिग्रहो गृहीतः-श्रीनेमिनतिं विना न भोक्ष्ये । तद्भा25 र्यया कमलादेव्या कथितम्-सोमेश्वरनमस्करणं विना न भोक्ष्ये । ततः सर्वेऽपि चलिताः। लक्ष १ पोठियां,
उष्ट्रसहस्र २०, हस्ति ७००, घोटक लक्ष १, पदाति लक्ष ३, श्रावकसहस्र २० । राजा त्रिंशत्तमे दिने स्तम्भतीर्थे आगतः । रात्रावम्बिकयाऽभाणि-राजन् ! श्रीनेमिस्तव सत्त्वेनात्रैष्यति । प्रभाते पारणं कार्यम् । यत्र च गृहली पुष्पप्रकरथोपरि त्वया तत्र खनितव्यं हस्तेन नेमिः प्रग(क)टीभविष्यति । प्रभाते तदेव जातम् । नेमि नतः । राजपन्याऽभाणि-स्वामिन् ! पारणं क्रियताम् । त्वां विना कथं करोमि । तत् क्षणात्सोमेश्वरलिङ्गः प्रादु30रभूत् । तद्दिने नदीस्थाने सोमनाथेन च्छिरा (१) नीतो अभिज्ञानाय । तत्रेभ्यानां देवकुलद्वयकृते द्रव्यमर्पितम् ।
एतसिन्पुरे प्रासादद्वयं कारयितव्यम् । यथा वलमानाः पश्यामः । ततः प्रयाणकं जातम् । सङ्घसमीपे मानुषं प्रहितम् । सूरिभिर्मण्डलाचार्यपार्श्वे-यदि युध्यते तदा बहुजीवसंहारो भवति; अतो वादे जय-पराजयौ ज्ञेयम् । सभ्याः कृताः। मासं यावद्वादो जातः । श्रीनृपेण धाराकेन च प्रभूणामग्रे विज्ञप्तम्-बहवो दिना जाताः। प्रभुणाऽभाणि-अद्य निर्वाहयिष्यामि । एकत्रिंशे दिने प्रभुणा भणितं मण्डलाचार्याग्रे यदद्य मण्डले कुमारी उपवेश्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org