________________
दे॒व्यम्बाप्रबन्धः ।
९७
रसं विधाय देवं निरामयं विधास्यामि । रसे जाते रसं गृहीत्वा राजसदसि समागतः । तत्रागतेन रसकूपको भग्नः । राज्ञोक्तम्-आः किमेतद्विहितं भवता ? । तेनोक्तम् - राजन् ! किमौषधेन कार्यम् ? । देवो निरामयो जातः । रसगन्धदर्शनेन च कृष्णच्छायामिषात् क्षयरोगो निःसृत्य गतः ।
एकदा श्रीनृपस्य शिरसि शिरोर्त्तिरतीव जाता । ततो वाग्भटेनोक्तम् - राजन् ! शिरसि दर्दुरी जाताऽस्ति । ततस्तेन शस्त्रकर्म्मणा तालु उत्तारितम् । दर्दुरी दृश्यते परं न निःसरति । धर्तुं न शक्यते । तदनु जलभृतस्थालं धृतम् । तत्रापि नायाति । ततो जामात्रा लघुवाग्भटेन तदवलोक्य निजरुधिरभृतस्थालं दर्शितम् । तद्गन्धेन सा तत्रागता । राजा निरामयो जातः । ततः पृष्टेन लघुवाग्भटेनोक्तमिति - यदियं रक्तजा, रक्तं विना जले नायाति । ततः प्रमुदितो वृद्धवाग्भटः सकला अपि कलाः शिक्षयति ।
४७. रैवततीर्थप्रबन्धः (P.)
(२१९) अथ श्रीने रैवतकाचलस्थस्योत्पत्तिर्यथा - भारते क्षेत्रेऽतीतचतुर्विंशतिकायां तृतीयतीर्थङ्करसागर - 10 समये उज्जयिन्यां नरवाहनो नृपः । अन्यदा तस्मिन् पुरे सागरजिनः समवसृतः । स नन्तुं ययौ । व्याख्यायामनु केवलिपर्षदं वीक्ष्य पृष्टम् - प्रभोऽहं केवली कदा ? | स्वामिनाऽऽदिष्टम् - आगामिचतुर्विंशतिकायां श्रीनेमिजिनतीर्थे निर्वाणं ज्ञानं च भविष्यति । इति ज्ञात्वा ततस्तस्मिन् भवे श्री सागरतीर्थेशपार्श्वे दीक्षां गृहीत्वा, तपः कृत्वा, पञ्चमदेवलोके दशसागरोपमायुरिन्द्रो जातः । तेन तत्र स्थितेनावधिज्ञानेन पूर्वभवं ज्ञात्वा वज्रमयीं मृत्तिकामानीय श्रीअरिष्टनेमिपूजानिमित्तं विम्बं कारितम् । स्वर्गे दशसागरोपमं यावत्पूजितम् । आत्मनश्चायुः प्रान्तमवधिना 15 विज्ञाय श्रीनेमेक्षा ज्ञान- निर्वाणकल्याणकत्रयस्थानं विलोक्य श्रीरैवतकगह्वरे स्वर्गानेमिप्रतिमां गृहीत्वा समेतः । तत्र गह्वरमध्ये चैत्ये गर्भगृहत्रयं कृत्वा रत्न- मणि-स्वर्ण - मयविम्बत्रयं कृत्वा तत्र [ स्थापितं ]..... काञ्चनबलानकं कृतम् । तत्र वज्रमृत्तिकामयविम्बं स्थापितम् । ततः स इन्द्रः स्वर्गाच्युत्वा बहु संसारं भ्रान्त्वा श्रीनेमितीर्थसमये महापल्लिदेशे क्षिति[पु]रनगरे..... • श्री मिस्तत्र समवसृतः । पुण्यसारो वन्दितुं समागतः । श्रीनेमिना उपदेशो दत्तः । श्रीनेमिपार्श्वे धर्मावाप्तिः । पृष्टाः स्वामिनः पूर्वभववृत्तान्तः20 रैवतके गत्वाऽऽत्मकृतं नेमिविम्बं पूजयित्वा नमस्कृत्य खनगरे समागत्य, सुतं राज्ये निवेश्य, नेमिपार्श्वे दीक्षां गृहीत्वा तपसा कर्म्मक्षयं कृत्वा .. ... र्जितम् । मोक्षं गतः । श्रीनेमे रैवतकाचले कल्याणत्रिकं समजन | पुण्यवद्भिस्तत्र लेप्यमयं विम्बं चैत्यं च कारितम् । लोके च पूज्यमानं जातं. कस्मीर देशात् कल्पप्रमाणेन रैवतकगिरौ श्रीनेमिं नमस्कर्तुं समागतः । तत्र बिम्बं स्नात्रजलेन गलितं दृष्ट्वा मासद्वयक्षपणं कृतं ...
स्वर्णमयं विम्बं समानीय स्थापितम् । यतः -
(२९९) नववाससएहिं नवुत्तरेहिं रयणेण रेवयगिरिम्मि । संठविअं मणिबिंबं कंचणभवणाओ नेऊण ॥
तथा वामनावतारे वामनेन रैवते श्रीनेम्यग्रे बलिबन्धनसामर्थ्यार्थं तपः कृतम् ।
४८. देव्यम्बाप्रबन्धः ( B. BR )
$ २२०) सुराष्ट्रामण्डले कोडीनारपुरे सोमभट्टो द्विजः । स श्रावकस्य देवशर्मद्विजस्य पुत्रीमम्बिकानाम्नीं 30 परिणीतवान् । पुत्रद्वयमस्ति । इत एकदा तस्य गृहे किञ्चित्पर्वास्ति । तत्र पाके निष्पन्ने तपोधनौ विहर्तुमायातौ । श्वश्रू गृहे नास्ति । अम्बया महाभक्त्या प्रतिलाभितौ । प्रातिवेश्मिकया श्रश्वये निवेदितम् । वैश्वदेवेऽपूजिते
पु० प्र० स० 13
Jain Education International
25
For Private Personal Use Only
www.jainelibrary.org