________________
पुरातनप्रबन्धसङ्घहे द्वात्रिंशता स्तवे कृते श्रीपाश्वे प्रकटीभूते, समग्र [सङ्घ] सहितैर्वन्दिते, देहरोगो गतः। तत्र स्नात्रपूजाधं कृत्वा प्रासादार्थ द्रव्यं मीलयित्वा महिषपुरात् श्रीमल्लवादिशिष्य आनेश्वराभिधो नियुक्तः। कर्मान्तरं कारयामास । शुभ मुहूर्ते श्रीअभयदेवसूरयो बिम्ब स्थापयामासुः । धरणेन्द्रादेशात् स्तोत्रमध्यात्तद्वयं मन्त्रगर्भित निष्काशितम् । तमिन् प्रत्यक्षीभवने, त्रिंशद्वृत्ता स्तुतिर्जाता । सा पठ्यमाना क्षुद्रोपद्रवविनाशिनी । ततः प्रभृत्यदस्तीर्थ 5 मनोवाञ्छितपूरणं जातम् । रोगशोकादिदुःखदावधनाधनः। अद्यापि कल्याणके प्रथमकलशो धवलककीयस्य सङ्घस्य । बिम्बासनस्य पश्चाद्भागेऽक्षरपंक्तिरैतिह्यात् श्रूयते । पूर्व कथैषा प्रथिता जने । (२९३) नमस्तीर्थकृतस्तीर्थे वर्षे द्विकचतुष्टये । (२२२२)
आषाढश्रावको गौडोऽकारयत् प्रतिमात्रयम् ॥ . (२९४) श्रीमानभयदेवोऽपि शासनस्य प्रभावकः।
पत्तने श्रीकर्णराज्ये धरणोपास्तिशोभितः ॥ (२९५) विधाय योगनीरोधं धिकृतापरवासनः । परलोकमलंचक्रे धर्मध्यानैकधीनिधिः ॥
॥ श्रीअभयदेवसूरिप्रबन्धः ॥
४६. वाग्भटवैद्यवृत्तम् (G.) 15 ६२१६) पुरा मालवके वाग्भटनामायुर्वेदवेदी प्रथमं कुपथ्येन निजदेहे रोगानुत्पादयति, औषधेन पुनर्निवारयति । एवमेकदा जलोदरमुत्पादितम्, तदौषधं विहितम् । कुटुंबकस्येति उक्तं च-यन्मम चतुःप्रहरं यावत् जलं याचितमपि न देयम् । दैवयोगेन कुटुंबस्य तद्वचो विस्मृतौ गतम् । प्रहरचतुष्टयानन्तरं जलोदरे क्षीणेऽपि जलं न पायितः । पिपासापीडितो मृतश्च । अतः(२९६) कचिदुष्णं कचिच्छीतं कचित् कथितशीतलम् ।
कचिद् भेषजसंयुक्तं कचिद्वारि न वारितम् ॥ ६२१७) राज्ञः श्रीभोजस्य सिंहद्वारि वाग्भटवैद्यपरीक्षार्थमश्विनीकुमारौ पक्षिरूपं विधाय नित्यं नित्यं वारत्रयं 'कोऽभुक्' इति रवं विधाय गच्छतः । राज्ञा तदनवगत्य सर्वेऽपि विद्वांसः पृष्टाः । कोऽपि किमपि न कथयति । तदा वाग्भटेनोक्तम्
(२९७) अशाकभोजी घृतमत्ति योऽन्धसा
पयोरसान् शीलति नातिपोऽम्भसाम् । अभुक विरुट वातकृतां विदाहिनां
मलप्रमुक् जीर्णभुगल्पशीररुक् ॥ ततोऽश्विनीकुमाराभ्यां निजरूपमाविर्भूय वाग्भटोऽतिप्रशंसितः ।
६२१८) अथ वृद्धवाग्भटजामात्रा लघुवाग्भटेन कृष्णच्छायाप्रवेशदर्शनेन राज्ञः क्षयरोगोत्पत्तिनिवेदिता । 30 राज्ञोक्तम्-ततो मम वर्षत्रयमेवायुरस्ति । तेनोक्तम्-नैवं राजन्!
(२९८) यावदुच्चसति प्राणी तावत् कुर्यात् प्रतिक्रियाम् ।
कदाचिदैवयोगेन दृष्टारिष्टोऽपि जीवति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org