________________
श्रीअभयदेवसूरिप्रबन्धः। लेपोऽकारि । तदनु स दर्दुरवदुत्प्लत्य पतितः । एवं गुरुभिदृष्टः । गुरुभिरुक्तम्-किमेतत् ? । तेन निजकूटं प्रकाशितम् । गुरुभिः सुशिष्यं विज्ञाय तन्दुलजलेन लेपः कथितः । ततो गगनगामिनी विद्याऽजनि । ____एकदा वर्षासु पौषधशालाद्वारि जले क्रीडमानं शिष्यप्रायं पृष्टाः कैरपि वादिभिः-श्रीपालित्तय सूरिवरा वसतौ संति ?-इति पृष्टाः सूरयः तानन्यमार्गेण वाहयित्वा स्वयं सिंहासने कपटनिद्रया सुप्ताः । तैः समागस्य कुर्कुटवरो विहितः । श्रीमरिभिमार्जारस्वरोऽकारि । वचनेन भक्षिताः । ततः पृष्टमिति । तद्यथा-'पालित्तय 5 कहसु फुडं० ॥ ततो गुरुभिरुक्तम्-'अयसाभिओगसंतावियस्स० ॥ एतया नमस्सया पराजिताः । नमो विधाय गताः।
४५. श्रीअभयदेवसूरिप्रबन्धः (B. BR. ) ६२१४) श्रीबुद्धिसागरसूरिभिः श्रीजिनेश्वरसूरिभिश्च वसतिनिवासे कृतेऽन्यदा श्रीजिनेश्वरसूरयो विहारेण धारापुरीं गताः। तत्र श्रेष्ठी महीधरः, भार्या धनदेवी, तत्पुत्रोऽभयकुमारनामा । अन्यदा श्रेष्ठी गुरुवन्दनाय गतः । 10 संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाक्रियो जातः । गुरुभिराचार्यपदस्थापने श्रीअभयदेवसूरिर्विहरन् पल्यपुरे श्रीवर्द्धमानसूरिषु दिवं गतेष्वभयदेवसूरीणां तत्र स्थितानां महादुर्भिक्षे सिद्धान्तास्तद्वृत्तयोऽपि त्रुटिताः। यदवस्थितं तदपि दुःखबोधत्वात् खिलं जातम् । शासनदेवी रात्रौ प्रभुं जगौ-यदङ्गद्वयं मुक्त्वा नवाङ्गानां वृत्तिं कुरु । सूरिराह-श्रीसुधर्मखामिकृतसिद्धान्तविवरणे मन्दमतित्वादुत्सूत्रप्ररूपणादनन्तसंसारित्वम् । परं त्वामनुल्लङ्घयां करिष्यामि । देव्यो- 15 क्तम्-यत्र सन्देहस्तत्राहं मर्त्तव्या । यथा श्रीसीमन्धरस्वामिपार्थाद् सन्देहमङ्गं कुर्वे । प्रभुभिर्ग्रन्थपूर्णतावधि यावदाचाम्लाभिग्रहोऽग्राहि । सम्पूर्णेषु ग्रन्थेषु शासनदेव्या पुस्तकलेखनाय रत्नखचिता स्वर्णमयी ऊतरी समवसरणे मुक्ता । सर्वत्र दर्शिता कोपि मूल्यं न कुरुते । तथा राजमहाराजश्री[भी] मेन द्रम्मलक्षत्रयदाने पुस्तकानि लेखयित्वा समग्रदेशाचार्याणां दत्तानि ।
६२१५) अथ श्रीअभयदेवसूरयो धवलकके आगताः । आचाम्लतपसा रात्रिजागरणेन च प्रभूणां रक्तविकारो 20 जातः । तदा जनो वदति-यदुत्सूत्रप्ररूपणया शासनदेव्या रुष्टया देहं विनाशितम् । गुरुमिः शोकेनाऽनशनाथं रात्रौ धरणेन्द्रः स्मृतः । तेन सर्परूपेण देहलिहने गुरुभिख़तम्-कालेन दष्टः । धरणेन्द्रेण खमे आदिष्टम्यन्मयाऽयं तव रोगो ग्रस्तः। एकं जिनोद्धारं कृत्वा प्रभावनां कुरु। श्रीकान्तीपरीयधनेन वणिजा समदान्तरा यानपात्रस्तम्भे व्यन्तरोपदेशेन धनेन मूर्तित्रयमाकृष्टम् । एका चारूपग्रामे । द्वितीया श्रीपत्तने अंबिलीतले श्रीनेमिनः । तृतीया स्तंभनग्रामे सेडिकानदीतटे तरुजाल्यन्तरा भूमिमध्ये न्यस्ताऽस्ति तां प्रकाशय । अत्र 25 महातीर्थ भविष्यति ।
(२९२) पुरा नागार्जुनो योगी रससिद्धो धियां निधिः।
- रसमस्तम्भयद्भूम्यन्तःस्थबिम्बप्रभावतः॥ ततः स्तम्भनकाख्यो ग्रामस्तेन न्यस्तः । तदेषाऽपि तव कीर्तिः स्यात् शाश्वती पुण्यभूषणा । अन्यादृष्टा वृद्धा सुरी मार्ग कथयिष्यति । श्वेतश्वारूपः पुरः क्षेत्रपालोऽपि प्रातः संघस्य पुर आयातः। वाहनसहस्रेकयुताः 30 सूरयो वृद्धा-श्वेतश्वानदार्शतमार्गाः सेडीतीरमायाताः। वृद्धा-श्वानौ तिरोहितौ । तत्र गोपालाः पृष्टाः-यद किमपि पूज्यमस्तीह ? । तेषामेकेनोक्तम्-अत्र जाल्यां किमप्यस्ति । यतोऽत्र ग्रामे महिणल्लपट्टिलकस्य गौर्नित्यं चतुर्भिस्तनैः क्षीरं क्षरति। गृहे न दुह्यते । तत्र तैः क्षीरं दृष्ट्वोपविश्य श्रीमदाचार्यैः 'जयतिहुअण' इत्यादिवृत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org