________________
पुरातनप्रबन्धसङ्घहे (२८८) दीहरफणिंदनाले महिहरकेसरदिसामुहदलिल्ले।
ऑपिअइ कालभमरो जणमयरंदं पुहइपउमे ॥ ततो विश्वहितं जिनधर्ममाद्रियस्व । तेनोक्तम्-पूज्यादेशः प्रमाणम् । ततो गुरुणोक्तम्-आरनालमिश्रतन्दुलेनैकेनौषधानि पिष्ट्वा पादलेपे खगमनसिद्धिः । ततस्तेन कृतज्ञतया विमलाद्रिसमीपे महासमृद्धं श्रीवीरप्रतिमाधि5ष्ठितं गुरुमूर्तियुतचैत्यान्वितं श्रीपादलिप्ताभिधं पुरं चक्रे । तत्र श्रीवीराग्रे श्रीगुरुभिः श्रीवीरस्तवश्चक्रे । 'गाहाजु
अलेणे त्यादि । अत्र सुवर्णसिद्धिराकाशयानं च गुप्तमस्ति । तथा गुरोः श्रीनेमिचरितं श्रुत्वा कौतुकारैवतकाद्रेरघा स्वर्णसिद्ध्याकाशयानबलेन सर्व दशार्णमण्डपादि नागार्जुनश्चक्रे । अद्यापि लोकैस्तत्सर्वमप्यालोक्यते ।।
६२१२) अन्यदा प्रतिष्ठानपुरे श्रीशातवाहनराज्ये चत्वारः शास्त्रसंक्षेपकृतो महाकवयः समेताः । राज्ञः पुरस्तैः श्लोकस्यैकैकः पादः पठितः । तथाहि10 (२८९) जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया ।
बृहस्पतिरविश्वासः, पंचालः स्त्रीषु माईवम् ॥ एवं तदुक्ते राज्ञा महादाने दत्ते भोगवती वाराङ्गना न स्तौति । केवलं पादलिप्तानेव स्तौति । तं मुक्त्वाऽऽकाशगामी विद्यासिद्धो महाकविः सर्वगुणनिधिरन्यो न हि । इति ज्ञाते राज्ञः सन्धिविग्रहकः शंकरो नाम मत्सरी
असहमानोऽवादीत् । ततो मानखेटपुरात् कृष्णभूपति मुत्कलाप्य शातवाहनेन श्रीपादलिप्ता आनीताः। नगर15 द्वारे बृहस्पतिर्विद्वान् परीक्षार्थ रौप्यकचोलके घृतं विलीनं प्रहितवान् । प्रभुभिर्धारिणीविद्यया तन्मध्ये सूत्रप्रोतां
सूची प्रक्षिप्य प्रहिता । इति जये भूपः प्रवेशं महोत्सवेन कारितवान् । उपाश्रये स्थिताः। नित्यं भूपश्चरणोपास्ति कुरुते । तत्र नव्या 'तरङ्गमाला कथा' कृता, व्याख्याता च । पाञ्चालकविः मत्सरेण न स्तौति । मदन्थाद् उद्धृत्यानेन कृता । अन्यदा कपटमृत्युना प्रभूणां तद्गृहद्वारे शिविकागमने पाञ्चालेन शोकाद् उक्तम्(२९०) आकरः सर्वशास्त्राणां रत्नानामिव सागरः। गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥
तथा(२९१) सीसं कहव न फुटं जमस्स पालित्तयं हरंतस्स ।
जस्स मुहनिज्झराओ तरंगलोला नई बूढा ॥ पाश्चाल! तव वचनाद् अहं मृतोऽपि जीवित इति गुरोरुत्थाने महीभुजा निष्कास्यमानो मित्रं भणिस्वा 25 पाञ्चालो गुरुभिर्दानमानाभ्यामावर्जितः। ततो गुरवो निर्वाणकलिकाम् , सामाचारीम् , प्रश्नप्रकाशज्योति शास्त्रं च
कृत्वा आयुःक्षयं परिज्ञाय नागार्जुनेन समं श्रीशत्रुञ्जयं गताः। तत्र नाभेयं नत्वा द्वात्रिंशदिनान्यनशनं कृत्वा देहं मुक्त्वा द्वितीयकल्पे इन्द्रसामानिकः सुरो जातः।
॥इति श्रीपादलिप्तगुरूणां प्रबन्धः॥ (G.) सङ्ग्रहे पादलिप्तसूरिवृत्तम् । 80 ६२१३) एकदा श्रीपादलिप्तसूरयो यात्रायां गगने गच्छन्तः पुरुषाकारच्छायया दृष्टाः। ततो नागार्जुनेन वन्दन
हेतोः प्रार्थिताः । तैरुक्तम्-यात्रां विधाय वलंतः समेष्यामः । तथाविहिते कूटबुधा जलेन स्वागतमिषाचरणप्रक्षालनं कृतम् । तद्वर्णगंधरसाखादतः सप्तोत्तरशतमौषधीनां परिज्ञातम् । ततस्ताः सर्वा अपि संमील्य चरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org