________________
पादलिप्तसूरिप्रबन्धः। अन्ये मंत्ररूपामिमां गाथां जपन्ति, ततः शिरोवेदना याति । प्रभावतो राजा नित्यं भाक्तिं करोति । एकदोपाश्रयागतेन राज्ञा पृष्टम् एते तपोधना भवतां भणितं दानमानादि विना कुर्वन्ति ? । इति पृष्टे गंगा कुतो वहति ? । तपोधनेन गंगायां गत्वा दण्डकं तारयित्वा-पूर्वाभिमुखी वहति-इति गुरोरने कथितम् । (२८५) निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ।
संपाइअव्वं सीसो जह तह सव्वत्थ कायव्वं ॥ इत्थं नृपो गुरुभिः समं तिष्ठन् दिनानि गच्छन्ति न ज्ञातवान् । अन्यदा लाटदेशे ओंकाराख्यनगरे प्रभवो बालैः समं क्रीडन्ति । देशान्तराद्वन्दितुमायातश्रावकाणामुत्तरं कृत्वा सिंहासनोपवेशे पुनरायातश्रावकोपलक्षणे वाला क्रीडतीति सत्यभाषणे बालगुरोर्वचसा जहर्षुः । अन्यदा गुरवो मार्गे गच्छत्सु शकटेषु तपोधनेषु विहाँ गतेषु क्रीडनसमेतवादिनो विप्रतार्य पटीं प्रावृत्य सिंहासने सुप्ताः । वादिभिरागत्य पुनर्विभातकथकताम्रचूडसूरः (स्वरः) कृतः । प्रभुभिर्बिडालखरे कृते वादिनो मानहीना जाताः। पश्चात्तैरुक्तं मध्ये कः ? गुरुभिरुक्तम्-देवः । तैरु-10 तम्-को देवः । गुरुभिरुक्तम्-अहम् । तैरुक्तम्-कोऽहम् । गुरुभिरुक्तम्-श्वा । तैरुक्तम्-कः श्वा । गुरुभिरुक्तम्-त्वम् । तैरुक्तम्-कस्त्वम् । गुरुभिरुक्तम्-देवः । इति पुनरावृत्त्या निर्जिताः। तथापि गाथामेकां पप्रच्छु:(२८६) पालित्तय कहसु फुडं सयलं महिमंडलं भमंतेणं ।
दिट्ठो सुऔं व कत्थवि चंदणरससीअलो अग्गी॥ सूरयोऽविलम्बेनोत्तरं ददुः(२८७) अयसाभिओगमणदूमिअस्स पुरिसस्स सुद्धहिअयस्स । होइ बहुं तस्स फुडं चंदणरससीअलोअग्गी॥
इति वादिजयः कृतः। ६२११) अन्यदा श्रीशत्रुञ्जये तीर्थयात्रां कृत्वा कृष्णभूपरक्षितं मानषे(खे)टपुरं श्रीपादलिप्तगुरवः प्राप्ताः । तदनु शत्रुञ्जये रैवतके संमेतेष्टापदे च तीर्थयात्रां चिकीर्षवः सुराष्ट्रादेशमायाताः । तत्र ढंकानामपुरी विहरन्तः समेतास्तत्र नागार्जुनो योगी भावी गुरुशिष्यः । तद्वृत्तं चेदम्-संग्रामराजपुत्रः, प्रिया सुव्रता, शेषाहि-20 खमसूचितपुत्रस्य नागार्जुननामकरणम् । स वर्षत्रयदेश्यः क्रीडन्-सिंहार्भकं विदार्य तन्मांसं खादन् पितृवारितः। यत्क्षत्रकुले नखी न भक्ष्यते । तदायातसिद्धपुरुषेणाख्यातम्-मा विषीद, तव पुत्रो रससिद्धो भावी । तदनु कलाविद्भिः कुर्वन् संगीतं रससिद्धो जातः । सूरिं तत्रायातं ज्ञात्वा पर्वतभूमौ स्थितः । स्वशिष्येण पादलेपेच्छु। तृणरत्नपात्रे सिद्धरसं ढौकितवान् । गुरुणा सित्वा भित्तावास्फाल्य शतखण्डे कृते शिष्यं विच्छायमुखमावर्य भोजनं दापयित्वा व्यावर्तमानस्य काचपात्रे निरोधं कृत्वा प्राभृतं प्रेषितम् । उद्घाट्य विलोकिते क्षारगन्धेन निरोधं 25 ज्ञात्वा कुम्पको भग्नः । दैवयोगाद्वहिसंयोगे सा समूत्रा मृत् सुवर्णं जाता । नागार्जुनेन ज्ञातम् । तस्य प्रभोर्मलमूत्रादिसंगेन पाषाणादयोऽपि सुवर्णीभवन्ति । अहमेतावन्ति दिनानि यावदनेकौषधोपक्रमं मुधा कृतवान् । अस्य प्रभावे का कथा । ततोऽसौ विनयनम्रो मदं त्यक्त्वा प्रभुपादसेवाचरणक्षालनादिकां देहशुश्रूषां करोति । श्रीसूरयः साधुषु विहाँ गतेष्वाकाशयानेन पूर्वोक्तपंचतीर्थेषु यात्रां कृत्वा नित्यमायान्ति । ततो नागार्जुन: पादलेपौषधानि जिज्ञासुश्चरणक्षालनोदके पीते वादेनौषधानि ज्ञात्वा पादलेपे च कृते ताम्रचूडवदुचैःप्रदेशादु-30 पतन् गुल्फे जानौ च पीडितो रक्तक्लिन्नो गुरुभिदृष्टः । उक्तश्च-अहो पादलेपे गुरुं विनापि सिद्धः। तेनोक्तम्-भगवन् ! गुरुं विना कुतः सिद्धिः । गुरुणोक्तम्-अहं तव बुद्धा तुष्टो विद्यां ददामि । यदि मे जिनशासनभक्तिं गुरुदक्षिणां ददासि । यत:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org