________________
पुरातनप्रबन्धसङ्घहे तयोक्तम् । ताभ्यां रससिद्धिनिश्चिता । तस्य वधोपायं पृच्छन्तौ भ्रमतः । केनाप्युक्तम्-अस्य दर्भावरान् मृत्युः । नागार्जुनेन द्वौ कुतपौ भृतौ ढंकपर्वतस्य गुहायां क्षिप्तौ । पृष्ठचराभ्यां ताभ्यां ज्ञातौ वलमानो दर्भाङ्कुरेण जने मृतः । कुतपो देवतया हृतौ ।।
(२८१) अजाते चित्रलिखिते मृते च मधुसूदन!।
. क्षत्रेषु त्रिषु विश्वासश्चतुर्थो नोपलभ्यते ॥ देवतया कुपितया, द्वावपि पश्चात्तापपरौ-आवाभ्यां किमकारि यः खटिकासिद्धः कलावान् स हतः, तं हत्वाऽऽवाभ्यां किं साधितमिति-चिन्तयन्तौ मारितौ ।।
॥ इति नागार्जुनप्रबन्धः ॥
४४. श्रीपादलिप्तसूरिप्रबन्धः (B.) (२८२) जयन्ति पादलिप्तस्य प्रभोश्चरणरेणवः ।
श्रियः संवनने वश्यचूर्णतः प्रणताङ्गिनाम् ॥ ६२१०) तत्र कोशला नाम नगरी । विजयब्रह्मा भूपः। तत्र प्रसिद्धः प्रफुल्लः श्रेष्ठी । रूपेणाप्रतिमा [प्रतिमाणा नाम] भार्या परं वन्ध्या । अनेकौषधदेवपूजोपयाचितैरपि नापत्यमाप। अन्यदा विखिन्ना श्रीपार्श्वनाथचैत्ये
वैरोळ्यादेवीं कर्पूरागुरुभिः सम्पूज्योपवासाष्टाह्निकां चक्रे । ततो देवी प्रकटीभूय पुत्रवरं ददौ, इत्याख्यातवती च15 पुरा नमिविद्याधरान्वये श्रीकालिकाचार्यसन्ताने विद्याधरगच्छे श्रुतसमुद्रपारगश्रीआचार्यनागहस्तिगुरूणामनेकलब्धिवतां पुत्रेच्छया पादप्रक्षालनजलं पिब । ततः प्रातरुपाश्रये गत्वा तपोधनहस्तस्थितं पादोदकं पीतम् । प्रभुनमस्कृतः । धर्मलाभपूर्वमित्यादिदेश-यतो दशहस्तान्तरे पयःपानेन तव पुत्रो दशयोजनान्तरे यमुनापरतीरेऽनेकप्रभावनिधानं वर्द्धिष्यते । तथान्ये तव पुत्रा नव भविष्यन्ति । तयाऽभाणि-प्रथमपुत्रो भवतां दत्तः। गुरुभिर्भणितम्-संघमुख्यो भविता । जातः पुत्रः । प्रभूणामर्पितः । अष्टवार्षिको नीत्वा शुभलने प्रव्रज्यां दत्त्वा 20 च मण्डननामगणिसमीपे मुक्तः पठनाय । वर्षमध्ये श्रुतपारगो जातः । अन्येधुरारनालं गुर्वादेशेनानीयेर्यापथिकीं प्रतिक्रम्य गुर्वग्रे गाथां पठितवान्
(२८३) अंबं तंबच्छीए अपुप्फि पुप्फदंतपंतीए।
__ नवसालिकंजीयं नववहूइ कुड्डएण मे दिन्नं ॥ इति श्रुत्वा गुरुभिः प्राकृतशब्देन पलित्तो इति-शृङ्गाराग्निना प्रदीप्त इत्युक्तः । ततोऽसौ दशमे वर्षे पदस्था25 पनायां मथुरागमने सङ्घोपकारं [क]त्वाऽऽकाशगमनसिद्धौ कतिचिदिनानि स्थित्वा पाटलीपुत्रपत्तने गतः । तत्र मुरंडो राजा । तस्य केनापि गुप्तमुखदंडकार्पणे प्रभुणा श्रीपादलिप्तेन उष्णोदकेन मदनं स्फेटयित्वा बुद्ध्योन्मोचने तथा गंगेटीसमा(?)गुरूणां समीपे मूलपर्यन्तपरिज्ञापनाय प्रेषणे नद्यां तारयित्वा मूले बुडिते बुद्ध्या मूलं परीक्षा । श्रीमदाचार्यैस्तन्तुग्रथिततुम्बकोन्मोचने प्रहिते केनापि नोन्मुक्तम् । ततो मुरंडनृपतिः समीपमागत्योन्मोचिते प्रभूणां गौरवं चक्रे । अन्यदा राज्ञः शिरोवेदनायां श्रीगुरुभिराकारितैः शिरोवेदनाविनाशार्थमात्मीयजानुस्त30 जेन्या पुनः पुनः स्पृष्टा
(२८४) जह जह पएसिणिं जाणुअंमि पालित्तउ भमाडेइ ।
तह तह से सिरवयणा पणस्सए मुरंडरायस्स ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org