________________
नागार्जुनप्रबन्धः। अथ वराहमिहिरस्य पुत्रो जातः । ततः पित्रा जातके चतुरशीतिवर्षाणि आयुर्वर्तितम् । तदनु जिनदीक्षादीक्षितश्रीभद्रबाहुपार्श्वे व‘पनिकाकृते मनुष्यः प्रहितः । तद्वचः श्रुत्वा सूरिभिरुक्तम्-जातस्य सप्तदिनानि आयुरस्ति । सप्तदिनान्तेऽस मार्जारिकया मरणं भविष्यति । तेन सर्वत्र मार्जारिका रक्षिता । निर्णीतवेलायां अर्गलिकामार्जारिकया मरणमजनि । ततो विषण्णेन तेन पुस्तकैः सह काष्ठभक्षणं प्रारब्धं यावता तावता तत्रागतेन श्रीभद्रबाहुना कथितम्-कथं काष्ठसाधनं कुरुषे ।। शास्त्राणि न वितथानि । परं या दोरिका भवताभिज्ञाने विहि । ताऽभूत् सा कुब्जिकया महाकष्टेन प्राप्ता। तदा वेलाव्यतिक्रमोऽजनि । तया तु सप्तदिनान्येवायुस्ततो मानितम् ॥
४३. नागार्जुनप्रबन्धः (Br.) ६२०८) ढंकपर्वते श्रीशत्रुञ्जयशिखरैकदेशे राजपुत्ररणसिंहस्य भोपलानाम्नी सुता जातानुरागो वासुकिर्नागराजः सिषेवे । पुत्रो जातः । नागार्जुन इति नाम कृतम् । स च वासुकिना सुतस्नेहात् सर्वासामौषधानां पत्राणि फलानि भोजितः। तत्प्रभावेन सर्वसिद्धिभिरलङ्कृतः सिद्धपुरुष इति ख्यातः । पृथिवीं विचरन् पृथिवीस्थान-10 पत्तने सातवाहननृपस्य कलागुरुर्जातः । स च विद्याध्ययनार्थ पादलिप्तकपुरे पादलिप्ताचार्य विद्यार्थी सेवते । स गुरुः पादतललेपबलेन तपोधनेषु विहरितुं गतेषु श्रीशत्रुञ्जयादिषु देवान्नत्वा स्थानमायाति । आगताना नागार्जुनश्चरणक्षालनं कृत्वा स्वाद-वर्ण-गन्धादिभिः सप्तोत्तरं शतमौषधानाममीलयत् । तेनोपदेशं विनाऽपि जलेन चरणलेपे कृते कुर्कुटोत्पातमुत्पत्य पतितो व्रणजर्जरिताङ्गो गुरुभिः पृष्टः-किमेतत् १ । पूज्यपादप्रसादः । कथम् । यथास्थिते उक्ते गुरवस्तस्य कौशल्येन रञ्जिताः । गुरुभिरुक्तम्-गुरून् विना कलाः कथं 15 फलदाः स्युः। प्रसादमाधातु गुरवः । भवतो मिथ्यात्ववासितस्य कलां न दमि । श्रावकत्वमङ्गीकुरु । तेन तथा कृते, तन्दुलजलेन लेपं कृत्वा गगने खैरं व्रजति स ।
६२०९) एकदा खैरं विचरता गुरुमुखात् श्रुतम्-यत् रससिद्धि विना दानेच्छा न पूर्यते । तदनु रसं परिकर्मयितुं प्रवृत्तः। खेदन-मर्दन-जारण-मारणानि चक्रे। परं स्थैर्य न बध्नाति । गुरवः पृष्टास्तैरुक्तम्-दुष्टनिर्दलनसमर्थश्रीपार्श्वनाथस्य दृष्टौ साध्यमानः सर्वलक्षणोपलक्षितया महासत्या मृद्यमानो रसः स्थिरीभूय 20 कोटिवेधी भवति । तत् श्रुत्वा स श्रीपार्श्वनाथप्रतिमामन्वेष्टुमारेमे । इतश्च नागार्जुनेन खपिता वासुकिया॑तः । प्रकटीभूतः। पृष्टं च-श्रीपार्श्वस्य काश्चिदिव्यां प्रतिमां कथय । तेनोक्तम्-पुरा द्वारावत्या श्रीसमुद्रविजयेन श्रीनेमिनाथमुखात् श्रीपार्श्वप्रतिमा प्रासादे स्थापयित्वा पूजिता। पूर्दाहानन्तरं समुद्रेण प्लाविता । प्रतिमा तथैव समुद्रमध्ये स्थिता । कालेन कान्तीपुरीवासिनो धनपतिनामकस्स सांयात्रिकस्स यानपात्रं देवतातिशयात् खलितम् । अत्र जिनविम्ब तिष्ठतीति दिव्यवाचा निश्चित्य, तत्र नाविकान् निक्षिप्य आमतन्तुभिः सप्तभिर्वद्धो-25 द्धृता प्रतिमा । स्वपुरे नीत्वा प्रासादे स्थापिता । चिन्तातीतो लाभो जातः । स नित्यं नित्यं पूजां करोति । ततः सर्वातिशयसम्पन्नं तद्विम्बं ज्ञात्वा नागार्जुनो रससिद्ध्यै सेडीनदीतटेऽपहृत्यानीतवान् । तस्य पुरतः श्रीशातवाहनस्य नृपस्य चन्द्रलेखां देवीं महासती व्यन्तरीसानिध्यादानीय प्रतिनिशं रसमर्दनं कारयति । एवं तत्र भूयो भूयो गतागतेन देव्या बांधव इति प्रतिपन्नः। तया तेषामौषधानां मर्दने कारणं पृष्टम्-कोटिवेधी रसोऽसौ । अन्यदा देव्या स्वपुत्रयोरुक्तम्-यत्सेडीनदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति । तौ रसलुब्धौ 80 नागार्जुनान्तिकमागतौ। कपटेन रसं जिघृक्ष छन्नं भ्रमन्तौ यस्था रन्धनीगृहे नागार्जुनो भुनक्ति तामालपतः । त्वं नागार्जुनरसवतीं लवणबहुलां कुर्याः । यदा तां क्षारां वक्ति तदा कथनीयम् । षण्मासान्ते क्षारेत्युक्तया
+ जैनानां मते देवानां मनुजेन सह सम्बन्धो न युज्यते-टिप्पनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org