________________
पुरातनप्रबन्धसज्जन्हे म्मदपुत्रमहमदं यदि सेनान्यं करोषि तदा ते जयः स्यात् । तदा ते आकारिताः । तेषां पञ्चशती मिलिता । देव्योक्तम्-स वामनेत्रे काणोऽस्ति । स आकारितः दलपतिश्च कृतः। इतः शेषमपि कटकमानीतम् । इतः सुहागदेव्योक्तम्-देव! राज्यं कस्य । कर्पूरदेव्यास्तनयस्य । यदि मत्स्नोर्ददाति भवान् तदाऽद्यापि परचक्र चलति । राझोक्तम्-त्वयाऽऽनीतम् १ । तया प्रोक्तम्-अन्येन केन । तदा स्त्रीचरितं नीतिं च स्मृत्वा-ज्येष्ठपुत्रमभिषिच्य, 5 तामदृष्टव्यमुखाऽऽसीरित्युक्त्वा दृष्ट्वा(? ज्येष्ठा )याः सुतं राज्ये निवेश्य, पतिमारिकायास्तस्याः सुतं वृद्धि (०द्धं १) सहादाय नृपो युद्धाय निस्ससार । महति संयुगे जायमाने नृपेणोक्तम्-रे गलितकंसस्य ६४ जोटकानि निश्वानानां किं स्फुटितानि ? । [कथं]न श्रूयन्ते । देव ! वाद्यमानानि सन्ति परं शृङ्गिणीगुणैरुपलप्सा(रुद्धा)नि । नृपस्तत् श्रुत्वा उदरे शस्त्रिको क्षिप्त्वा पुत्रं चाग्रे करिण्यधिरोप्य यमुनायां करिणमक्षेप्सीत् ।
स पश्चत्वमाप । ज्येष्ठपुत्रोऽपि निःसृत्य युद्धे विनष्टः । संवत् १२४८ वर्षे चैत्र शुदि १० दिने वाराणसीमा10 दाय सुरत्राणः प्रवेशं कतुं प्रवृत्तः । कर्पूरदेवी यमगृहं प्रविष्टा । द्वितीया सुहागदेवी लघुपुत्रमादाय प्रतोल्यां स्थिता। सुरत्राणेनोक्तम्-केयम् १ । देव ! यया त्वमिहानीतः। सुरत्राणेन वदने निष्ठीवनं कृत्वा एकसै धगडाय, या पत्युर्न जाता सा मे भविष्यति इति वदता, प्रदत्ता । पुत्रस्तु तुरुष्कः कृतः।
.. ॥ इति श्रीजैत्रचन्द्रनृपतेः प्रबन्धः ॥ (G.) सङ्ग्रहे जयचन्द्रनृपवृत्तम् । 16 ६२०६) अन्यदा कोपकालाग्निरुद्र १, अवंध्यकोपप्रसाद २, रायगृहबोलादि विरुदानि श्रीपरमर्दिनः श्रुत्वा
श्रीजयचन्दोऽसहमानस्तदुपरि ससैन्यश्चचाल । तद्देशभंगं कुर्वाणः कल्याणकटकनाम्नी राजधानीमाजगाम स क्रमेण । परं कोऽपि विज्ञप्तिकां कर्तुं न शक्रोति यत्कटकमागतम् । परं स्वयं परमर्दिराजा परसैन्यं दृष्ट्वा दुग्गातः...... । ततो राजा सैन्येन रुद्धः। वर्षमेकं जातम् । पश्चात्परमर्दिना राज्ञा मल्लदेवमहामात्येन सह मंत्र विधाय तत उमापतिधरं मंत्रिराजमाकार्य इत्युक्तम्-यत् मंत्रिविद्याधरसमीपं गत्वा तस्स किंचित्कथयित्वा त्वं 20 सैन्यमुत्थापय । ततः स 'आदेशः प्रमाण मित्युक्त्वा सायं प्रतीहारमुक्तः सन् मंत्रिविद्याधरसमीपमगमत् । उमापतिधरमंत्रिणा एकं सुभाषितं पत्रे विलिख्य मंत्रिराज्ञो विद्याधरस्याने मुक्तम् । तदिदम्(२८०) उपकारसमर्थस्य तिष्ठन् कार्यातुरः पुरः। मूर्त्या यामतिमाचष्टे न तां कृपणया गिरा ॥
एतदर्थमवधार्य निशीथे एव पल्यंकस्थितो राजा समुद्धृत्य क्रोशपंचके मुक्तः । प्रातः राजा दुग्गं न पश्यति । ततः पृष्टम् । मंत्रिणा विद्याधरेणोचे सर्व स्वरूपम् । राजा क्रुद्धः । ततो विद्याधरः प्राह-राजन् ! कथं 25 ममोपरि कोपं कुरुषे । कणवृत्तिः क्वापि न गताऽस्ति । ततो राजाह-अतोऽहं क्रुद्धः, यतस्त्वया मम लीला विनाशिता । अनेन सुभाषितेन मम राज्यमपि कथं नार्पितम् । एतद्भणने बिरुदानि मुक्तानि । मानं राज्यं च सर्व मुक्तम् । इति भणित्वा जयचन्द्रः स्वस्थानमगमत् ।
४२. वराहमिहिरवृत्तम् (G.) ६२०७) पुरा वराहमिहिरो विद्यार्थी ज्योति शास्त्रं पठन् उपाध्यायगोरक्षणां करोति । तत्र नित्यं लग्नं मण्डयित्वा 80 पठिताभ्यासं करोति । एकदा सिंहलग्नं मण्डितम् । प्रमादाद्विसर्जनं विस्मृतम् । गृहगतेन तेन भोजनसमये स्मृतम् । तत्र गतः । शिलोपरि निविष्टः सिंहो दृष्टः । निर्भयेन सता सिंहोदराधो लग्नं विसर्जितम् । सूर्यस्तुष्टः । षण्मासं विमानस्थितेन नक्षत्रग्रहतारागणं विलोक्य समागतेन 'वाराहीसंहिता'प्रमुखज्योतिःशास्त्राणि निर्ममे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org