________________
जयचन्दप्रबन्धः। सेसु मणिहिं संकियउ मुक्कु हयखरि सिरि खंडिओं, तुओ सो हरधवलु धूलि जसु चिय तणि मंडिओं। उच्छलीउ रेणु जसग्गि गय सुकवि ब(ज)ल्हु सचउं चवइ,
वग्ग इंदु बिंदु भुयजुअलि सहस नयण किण परि मिलइ ॥ ६२०४) इतश्च वाराणस्यां प्रतोलीद्वारे चतसृषु वंशानां भारिका पञ्च शतानि प्रापक्षिष्यन्ते (प्रक्षिप्यन्ते?) सन्ध्यायां 5 यदि चूर्ण न क्षिप्यते तदा कूपकाः पतन्ति । एक...............पत्तनोपरि कटकमादाय प्रस्थितः । तत्पुरं भक्त्वा भाण्डागारमपारं वस्तुजातं चादाय प्रत्यावृत्तः । मार्गे जलवृष्टिर्जाता । इन्धनानि न प्राप्यन्ते । सूपका......... विना रसवतीं कथं कुर्मः ? । मत्रिणोक्तम्-भाण्डागारे किमप्यस्ति ? । चन्दनं पट्टदुकूलागरकाष्ठानि च बहूनि सन्ति । तानि च प्रज्वालयत । एवं रसवतीं कृत्वा.........लोकयितुं (2) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलकुट्टी दत्त्वा व्याघृतः सिरःस्थिता शेषतिलकुट्टयोऽपि श्यत् (१) तस्याः परिमलमाघ्राय तिलकुट्टी............ 10 चिन्तितं ममैष मनोरथो दुष्टः । एवं जाते नृपो रुष्टः। तत्कालमुत्तारके समागत्य सर्वस्वटिप्पां कृत्वा नपाय जन प्राहिणोत । तेन नपं नत्वा............इदं पत्रकमर्पितम । बीटकं च वनवासार्थे याचितमस्ति । नृपस्तव(त् )प्रेक्ष्य चकितः। ततः स्वयमायातः । मत्रिणा प्रणतः सन् इदमभ्यधात् ।............किमुक्तं यदेवं पत्रकमप्रेषीत् । देव ! मम मनसा नीचामिलापसूचकेन कथितम् । राज्ञा मानं दत्तम् । - ६२०५) अथैकदा सुहागदेव्या नृपो व्याहृतः-देव! राज्यं कस्स दास्यथ ? । नृपेणोक्तम्-कर्पूरदेव्यात्मजस्य । 15 मम पुत्रस्य कथं न ? । त्वं सङ्ग्रहणी, अतस्ते पुत्रोऽयोग्यः । सा त्वर्द्धराज्यस्वामिनी । धनेन परिपूर्णा । तया तदैव मनसि विधाय गर्जनके स्वपुरुषान् प्रहित्य सुरत्राणः सहाबदीन आनीतः। योऽन्तरा पृथ्वीराज विगृह्य योगिनीपुरे स्थितः । तया कथापितम्-मया आहूतः समागच्छेथाः।
इतः पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण वर्धापनकान्यारब्धानि । गृहे गृहे घृतेनोदम्बरक्षालनमारब्धम् । तूर्यरवः प्रववृते । मन्त्री राजकुले न याति । केनाप्युक्तम्-देव! पृथ्वीराजमरणं मत्रिणो विचारे नायातम । 20 एवं चतुर्थदिने मत्री राजकुलं प्राप्तः । राज्ञोक्तम्-मत्रिन् ! चिराद् दृष्टोऽसि । देव ! राजकार्यव्यग्रतया नायातं मया । देव! केयं खडखडा । राज्ञोक्तम्-किं न वेत्सि पृथ्वीराजमरणम् १ । एवं विधे वैरिणि मृते वर्धापनकानि किं न विधीयन्ते । मत्रिणोक्तम्-तमिन् हते विषादं कत्तुं युज्यते हर्षो वा ? । राज्ञोक्तम्-कथम् १ । देव ! प्रतोली भवति, तस्सामयोमयानि कपाटानि, अर्गला च अयोमया । यदा सा भज्यते, कपाटौ च पृथग्भवतः, तदा दुर्गस्य किं स्यात् । तथा देव ! स पृथ्वीराजस्तव अर्गलासम आसीत् । तसिन् विनष्टे गृहसूत्रं कर्तुं 25 युक्तं वा वर्धापनकम् । तिष्ठतु वर्धापनकम् । देव ! यदद्य पृथ्वीराजस्य तत्कल्ये आत्मनो ज्ञेयम् । मत्रिणा मेलापकः प्रारब्धः। तया सुरत्राणस्य कथापितम्-यदत्रैव स्थेयं परत्र न गन्तव्यम् । देव्या नृपो विज्ञप्तः-देव ! मेलापकः किं कुरुते ? । तुरुष्कः प्रत्यासन्नवस्वभूमौ विद्यते तव नामापि न गृह्णाति । कोशव्ययं मत्री वृथैव कुरुते । राज्ञा मत्री उक्तः सर्वः कोऽपि विसीदति मेलापकं विसर्जय । मत्रिणोक्तम्-अस्तु । अनेन कार्यमस्ति । पुनरेकदा तया नृपो व्याहृतः । मत्रिणोक्तम्-देव ! वर्षद्वयं अहं व्ययं करिष्ये । नृपेणोक्तम्-सोऽपि 30 मदीयम् । मत्रिणा सामन्तान् प्रेष्य नृपो व्याहृतः-देव ! बीटकस्य प्रसादं कुरु यथा तपोवने यामि । नृपेण देव्या वचसा विसृष्टः। वर्षद्वयादनु तया सुरत्राणः समाकारितः। स भारं विमुच्य जरीदकेन धावितः(?) । नृपस्य कटकेन सह युद्धे जाते सुरत्राणो भनः प्रणष्टः । इतः सुरत्राणपल्या पति चिन्तातुरं विलोक्य उक्तम्-देवास्ये श्यामता कथम् १ । सुरत्राणेनोक्तम्-युवत्या वार्त्तया समागताः परं पश्चाद्गमनं दुर्घटम् । देव! मम खमं जातं यत्-अह
पु. प्र.स.12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org