________________
पुरातनप्रबन्धसङ्ग्रहे
४१. जयचन्दप्रबन्धः (P.) ६२०२) कान्यकुब्जदेशे वाराणसी पुरी नवयोजनविस्तीर्णा द्वादशयोजनायामा । तत्र श्रीविजयचन्द्रांगजो राष्ट्रकूटीयो जैत्रचन्द्रो राज्यं करोति । तस्य कर्पूरदेवी परमप्रीतिपात्रम् । अथ नगरवास्तव्य स्य] कस्यापि शालापतेः पुत्री सुहागदेवी पुरीप्रत्यासन्ने ग्रामे परिणीताऽस्ति । सा एकदा भ; अपमानिता रुष्टा पितृगृहं प्रति चचाल । 5 मार्गे यान्त्या गोमयोपरि फणी कृतफणस्तच्छीर्षे खञ्जरीटस्तं दृष्ट्वा चिन्तितवती-यदि कोऽपि दक्षो मिलति तदा पृच्छामि । इतः पुराद्विद्याधरो नामा द्विजस्तद्ग्रामे भिक्षार्थ व्रजन्मार्गे मिलितः । तया पृष्टं शकुनं वेत्सि । तेन
ओमित्युक्ते, तयाभिहितम्-अस्य किं फलम् ? । तेनोक्तम्-इदमतीव सुन्दरम् । इतः सप्तमे दिने त्वं नृपतेः सर्वेश्वरी भविष्यति । परं मम किम् ? । तयोक्तम्-यदि मे त्वयोक्तम् , तदा ते श्रीकरणम् । तेनोक्तम्-ममाभिज्ञानं नाम च शृणु-अहं द्विजपाटके उत्तराश्रिते देवधरद्विजभागिनेयो विद्याधरो नाम । सा 'एवं' प्रतिश्रुत्य गता 10 पिटगृहम् । सप्तमे दिने राजपाट्यां नृपेण व्रजता गृहद्वारे वनदेवीव दृष्टा । सानुरागो धवलगृहं गत्वा शालापतिमाहूय पुत्रीं ययाच । तेन दत्ता, धवलगृहं नीता । तया नृपो द्विजाय प्रतिपन्नं निवेदितः । राज्ञा विद्याधरा आहूताः । शतसप्तकं मिलितम् । देवी सौभाग्यदेवी प्राह-स विद्याधरो वामनेत्रे काणोऽस्ति । तेषामपि शतत्रयमायातम् । उत्तरस्यां द्विजपाटके देवधरस्य भागिनेयः ममानीयताम् । अश्ववाराः प्रहिताः । स सजीभूय स्थितोऽस्ति । अश्ववाराहृतम्-भो विद्याधर! राजा आकारयति । तस्य मातुलपत्न्योक्तम्-रे क स , क राजकुलं; 15 कथं श्रीकरणं लभ्यसे ? । तेनोक्तम्-यद्भविष्यति तद्रष्टव्यम् । स राजकुले गतः। सर्वमुद्राधिकारी कृतश्च । स महात्यागी नित्यं ब्राह्मणानामष्टादशसहस्रमग्रासने भोजयति ।
२०३) अथैकदा राजा जैत्रचन्द्रः कथान्तरे इत्यशृणोत्-यद्बङ्गालदेशे लखणावतीपुरी तत्र लखणसेनो राजा । तस्य दुर्गो दुर्ग्राह्योऽस्ति । तदनु नृपः प्रतिज्ञामकरोत्-यत् गतमात्र एव दुर्ग गृह्णामि वा यावन्तो दिनास्तत्र लगन्ते ता०...............कुमारमत्रिवाक्यम्20 (२७७) उपकारसमर्थस्य तिष्ठन् कार्यादितः पुरः। मूर्त्या यामतिमाचष्टे न तां कृपणया गिरा ।।
नृपेण लखणसेनमाहूय सगौरवं परिधाय दण्डं मुक्त्वा स्वराज्ये प्राहिणोत् । श्रीजैत्रचन्द्रोऽपि पश्चाद्वलितः खनगरीमायातः । इति लखम(ण)सेनपराजयप्रवन्धः। तदनु चन्दबलिद्दभट्टेन श्रीजैत्रचन्द्र प्रत्युक्तम्(२७८) त्रिण्हि लक्ष तुषार सबल पाषरीअइं जसु हय,
चऊदसई मयमत्त दंति गज्जति महामय । वीस लक्ख पायक सफर फारक धणुद्धर,
ल्हूसड्डु अरु बलुयान संख कु जाणइ तांह पर । छत्तीस लक्ष नराहिवइ विहिविनडिओँ हो किम भयउ, जइचंद न जाणउ जल्हुकइ गयउ कि मूउ कि धरि गयउ॥
पतनागतं वर्षद्वयेनोक्तम् । तेनैव पूर्वमुक्तम्(२७९) जइतचंदु चक्कवइ देव तुह दुसह पयाणउ,
धरणिधसविरदमद पडद गयर भंगाणाओं।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org